________________
३०८
स्थानाङ्ग सूत्रम् ४/४/४०० एवं चेव, एवं विगलिंदियवजं जाव वेमाणियाणं।
वृ.नवरंसम्यग्दृष्टीनांचतनः क्रिया मिथ्यात्वक्रिययाअभावात्, एवं 'विगलिंदियवजंति, एकद्वित्रिचतुरिन्द्रियाणांपञ्चापि, तेषांमिथ्याष्टित्वात्, द्वीन्द्रियादीनाञ्चसासादनसम्यकत्वस्याल्पत्वेनाविवक्षितत्वादिति, एवंचेहविकलेन्द्रियवर्जनेनषोडश क्रियासूत्राणिवैमानिकान्तानि भवन्तीति अनन्तरं क्रिया उक्तास्तद्वांश्च सद्भूतान् परगुणान् नाशयति प्रकाशयति चेत्येवमर्थं सूत्रद्वयं, तच्च सुगमं।
मू. (४०१) चउहि ठाणेहिं संते गुणे नासेजा, तं० - कोहेणं पडिनिसेवेणं अकयन्नुयाए मिच्छत्ताभिनिवेसेणं । चउहि ठाणेहिं संते गुणे दीवेजा तंजहा-अब्भासवत्तितं परच्छंदानुवत्तितं कजहेउं कतपडिकतितेति वा।
वृ. नवरं सतो-विद्यमानान् गुणान् नाशयेदिव नाशयेत्-अपलपति न मन्यते, क्रोधेन रोषेण तथा प्रतिनिवेशेन-एष पूज्यते अहं तु नेत्येवं परपूजाया असहनलक्षणेन कृतमुपकारं परसम्बन्धिनंनजनातीत्यकृतज्ञस्तद्भावस्तत्तातयामिथ्यात्वभिनिवेशेन-बोधविपर्यासेन, उक्तञ्च॥१॥ “रोसेण पडिनिवेसेण तहय अकयन्नुमिच्छभावेण ।
संतगुणे नासित्ता भासइ अगुणे असंते वा" इति असतः-अविद्यमानानाम क्वचित्संतेत्ति पाठस्तत्र च सतो-विद्यमानान् गुणान् दीपयेत् वदेदित्यर्थः, अभ्यासो-हेवाको वर्णनीयासन्नता वा प्रत्ययो-निमित्तं यत्र दीपने तदभ्यासप्रत्ययं, दृश्यतेह्याभ्यासन्निर्विषयापि निष्फलापिचप्रवृत्तिः,सन्निहितस्य चप्रायेण गुणानामेवग्रहणमिति, तथा परच्छन्दस्य-पराभिप्रायस्यानुवृत्तिः-अनुवर्त्तना यत्र तत्परच्छन्दानुवृत्तिकं दीपनमेव, तथा कार्यहतोः-प्रयोजनननिमित्तंचिकीर्षितकार्यं प्रत्यानुकूल्यकरणायेत्यर्थः, तथाकृते-उपकृतेप्रतिकृतंप्रत्युपकारः तद्यस्यास्तिसकृतप्रतिकृतिकः इतिवा' कृतप्रत्युपकर्तेतिहेतोरित्यर्थः, अथवाकृतप्रतिकृतये इति वा-एकेनैकस्योपकृतं गुणा वोत्कीर्तिताः स तस्यासतोऽपि गुणान् प्रत्युपकारार्थमुत्कीर्तयतीत्यर्थः, इतिरुपप्रदर्शनेवा विकल्पे।इदञ्च गुणनाशनादि शरीरेण क्रियत इतिशरीरस्योत्पत्तिनिर्वृत्तिसूत्राणां दण्डकद्वयं, कण्ठ्यं चैतत्, नवरं क्रोधादयः कर्मबन्धहेतवः, कर्म च शरीरोत्पत्तिकारणमिति कारणकारणे कारणोपचारात् क्रोधादयः शरीरोत्पत्तिनिमित्ततया व्यपदिश्यन्त इति।
म. (४०२) नेरइयाणं चउहिं ठाणेहिं सरीरुप्पत्ती सिता, तंजहा - कोहेणं माणेणं मायाए लोभेणं, एवंजाव वेमाणियाणं, नेरइयाणंचउहि ठाणेहिं निव्वत्तितेसरीरे पं०२०-कोहनिव्वत्तिए जाव लोभनिव्वत्तिए, एवंजाव वेमाणियाणं।
वृ. 'चउहि ठाणेहिंसरीरे'त्याधुक्तं, क्रोधादिजन्यकर्मनिवर्तितत्वात्क्रोधादिमिर्निवर्तितं शरीरमित्यपदिष्टं, इह चोत्पत्तिरारम्भमानं निवृत्तिस्तु ष्पत्तिरिति । क्रोधादयः शरीरनिवृत्तेः कारणानीत्युक्तं तन्निग्रहास्तु धर्मस्येत्याह
मू. (४०३) चत्तारि धम्मदारा पन्नत्ता, तंजहा-खंती मुत्ती अअवे मद्दवे ।
वृ.चत्तारिधम्मे' त्यादि, धर्मस्य-चारित्रलक्षणस्यद्वाराणीव द्वाराणि-उपायाः ।क्षान्त्यादीनि धर्मद्वाराणीत्युक्तं, अथारम्भादीनि नारकत्वादिसाधनकर्मणो द्वाराणीति विभागतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org