________________
स्थानं-४, - उद्देशकः -४
२९७ नवरं राक्षसो-व्यन्तरविशेषः, चतुर्भङ्गिकासूत्राणि देवासुरेत्येवमादिसंयोगतः षड् भवन्ति!
मू. (३८१) चउविहे अवद्धंसे पं० तं०-आसुरे आभिओगे संमोहे देवकिब्बिसे चउहिं ठाणेहिं जीवा आसुरत्ताते कम्मं पगरेति, तं०-कोवसीलताते पाहुडसील याते संसत्ततवोकम्मेणं निमित्ताजीवयाते, चउहिंठाणेहिंजीवा आभिओगत्तातेकम्मंपगरेतितं०-अत्तुक्कोसेणंपरपरिवातेणं भूतिकम्मेणं कोउयकरणेणं, चउहि ठाणेहिंजीवा सम्मोहत्ताते कम्मंपगरेति, तं०-उम्मग्गदेसणाए मग्गंतराएणं कामासंसपओ गेणं भिज्जानियाणकरणेणं, चउहि ठाणेहिं जीवा देवकिब्बिसियत्ताते कम्मंपगरेंतितं०-अरहंताणं अवन्नं वयमाणे अरहंतपन्नत्तस्सधम्मस्स अवन्नं वयमाणे आयरियउवज्झायाणमवन्नं वदमाणे चाउवनस्स संघस्स अवन्नं वदमाणे।।
वृ. पुरुषक्रियाधिकारादेवापध्वंससूत्रं तत्रापध्वंसनमपध्वंसः-चारित्रस्य तत्फलस्य वा असुरादिभावनाजनितो विनाशः, तत्रासुरभावनाजनितआसुरः, येषुवाऽनुष्ठानेषुवर्तमानोऽसुरत्वमर्जयतितैरात्मनोवासनमासुरभावना, एवंभावनान्तरमपि, अभियोगभावनाजनित आभियोगः, सम्मोहभावनाजनितःसाम्मोहः, देवकिल्बिषभावनाजनितो दैवकिल्बिषइति, इह चकन्दर्पभावनाजनितः कान्दोऽपध्वंसः पञ्चमोऽस्ति, सच सन्नपि नोक्तः, चतुःस्थानकानुरोधाद्, भावना हि पञ्चागमेऽभिहिताः, आह च॥१॥ “कंदप्प १ देवकिव्विस २ अभिओगा ३ आसुरा य ४ संमोहा ५।
एसा उ संकिलिट्ठा पंचविहा भावणा भणिया " आसाञ्चमध्ये यो यस्यां भावनायां वर्ततेसतद्विधेषुगच्छतिचारित्रलेशप्रभावाद्, उक्तञ्च॥१॥ “जो संजओऽवि एयासु अप्पसत्थासु वट्टइ कहंचि।
सो तविहेसु गच्छइ सुरेसु भइओ चरणहीणा" इति, आसुरादिरपध्वंस उक्तः, स चासुरत्वादिनिबन्धन इत्यसुरादिभावनास्वरूपभूतान्यसुरादित्वसाधनकर्मणां कारणानि सूत्रचतुष्टयेनाह
'चउहिं ठाणोही'त्यादिकण्ठ्यं, नवरंअसुरेषुभवआसुरः-असुरविशेषस्तद्मावः आसुरत्वं तस्मै आसुरत्वाय तदर्थमित्यर्थः, अथवा असुरतायै असुरतया वा कर्म-तदायुष्कादिप्रकुर्वन्तिकर्तुमारभन्ते, तद्यथा-क्रोधनशीलतया-कोपस्वभावत्वेन प्राभृतशीलतया-कलहनसम्बन्धतया संसक्ततपःकर्मणा-आहारोपधिशय्यादिप्रतिबद्धभावतपश्चरणेन निमित्ताजीवनतयात्रैकालिकलाभालाभादिविषयनिमित्तोपात्ताहाराधुपजीवनेनेति, अयमर्थोऽन्यत्रैवमुक्त॥१॥ “अनुबद्धविग्गहोविय संसत्ततवो निमित्तमाएसी।
निक्किवनिरानुकंपो आसुरियं भावणं कुणइ" इति, तथाअभियोग-व्यापारणमर्हन्तीत्याभियोग्याः-किङ्करदेवविशेषास्तद्मावस्तत्तातस्यै तया वेति, आत्मोत्कर्षेण-आत्मगुणाभिमानेन परपरिवादेन-परदोषपरिकीर्तनेन भूतिकर्मणांज्वरितादीनां भूत्यादिभीरक्षादिकरणेन कौतुककरणेन-सौभाग्यादिनिमित्तंपरस्नपनकादिकरणेनेति, इयमप्येवमन्यत्र॥१॥ “कोउय भूईकम्मे पसिणा इयरे निमित्तमाजीवी।
इड्डिरससायगरुओ अभिओगंभावणं कुणइ इति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org