SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २९६ स्थानाङ्ग सूत्रम् ४/४/३७९ ४० चत्तारि पुरिसजाया पं० तं०- बुहे नाममेगे बुहे बुहे नाममेगे अबुहे ४, ४१ चत्तारि पुरिसजाया पं० तं० - बुधे नाममेगे बुधहियए ४, ४२ चत्तारि पुरिसजाया पं० तं०- आयाणुकंपते नाममेगे नो परानुकंपते ४, ४३ । वृ. निष्कृष्टः - निष्कर्षितः तपसा कृशदेह इत्यर्थः पुनर्निकृष्टो भावतः कृशीकृतकषायत्वादेवमन्ये त्रय इति ३९, एतद्भाव- नार्थमेवानन्तरं सूत्रं निःकृष्टः कृशशरीरतया तथा निःकृष्टः आत्मा कषायादिनिर्म्मथनेन यस्य स तथेत्येवमन्ये त्रय इति, अथवा निःकृष्टस्तपसा कृशीकृतः पूर्वं पश्चादपि तथैवत्येवमाद्यसूत्रं व्याख्येयं द्वितीयं तु यथोक्तमेवेति ४०, बुधो बुधत्वकार्यभूतसत्क्रियायोगात्, उक्तञ्च - " 11911 “पठकः पाठकश्चैव ये चान्ये तत्त्वचिन्तकाः । सर्वे व्यसनिनो राजन् !, यः क्रियावान् स पण्डितः” इति, पुनर्बुधः सविवेकमनस्त्वादित्येकः, अन्यो बुधस्तथैव अबुधस्त्वविविक्तमनस्त्वात्, अपरस्त्वबुधोऽसत्क्रियत्वात् बुधो विवेकवच्चित्तत्वाच्चतुर्थ उभयनिषेधादिति ४१, अनन्तरसूत्रेणैतदेव व्यक्तीक्रियते बुधः सत्क्रियत्वात्, बुधं हृदयं मनो यस्य स बुधह्यदयो विवेचकमनस्त्वात्, अथवा बुधः शास्त्रज्ञत्वात् बुधहृदयस्तु कार्येष्वमूढलक्षत्वादित्येकः, एवमन्ये त्रय ऊह्याः ४२, आत्मानुकम्पकः-आत्महितप्रवृत्तः प्रत्येकबुद्धी जिनकल्पिको वा परानपेक्षो वा निर्घृणः, परानुकम्पको निष्ठितार्थतया तीर्थकरः आत्मानपेक्षो वा दयैकरसो मेतार्यवत्, उभयानुकम्पकः स्थविरकल्पिक उभयाननुकम्पकः पापात्मा कालशौकरिकादिरिति ४३ । अनन्तरं पुरुषभेदा उक्ताः, अधुना तद्वयापारविशेषंतद्वेदसम्पाद्यमभिधित्सः सूत्रसप्तकमाह'चउव्विहे संवासे' इत्यादि - मू. (३८०) चउव्विहे संवासे पं० तं०-दिव्वे आसुरे रक्खसे माणुसे १, चउव्विधे संवासे पं० तं०-देवे नाममेगे देवीए सद्धिं संवासं गच्छति देवे नाममेगे असुरीए सद्धिं संवासं गच्छति असुरे नाममेगे देवीए सद्धिं संवासं गच्छइ असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति २, चउव्विधे संवासे पं० तं०-देवे नाममेगे देवीए सद्धिं संवासं गच्छति देवे नाममेगे रक्खसीए सद्धिं संवासं गच्छति रक्खसे नाममेगे देवीए सद्धिं संवासं गच्छति रक्खसे नाममेगं रक्खसीए सद्धिं संवासं गच्छति ४, ३, चउव्विधे संवासे पं० तं०-देवे नाममेगे देवीए साद्धे संवासं गच्छति देवे नाममेगे मणुस्सीहिं सद्धिं संवासं गच्छति मणुस्से नाममेगे देवीहिं सद्धिं संवासं गच्छति मणुस्से नाममेगे मणुस्सीइ सद्धिं संवासं गच्छति ४, चउव्विधे संवासे पं० तं० असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति असुरे नाममेगे रक्खसीए सद्धिं संवासं गच्छति ४, ५, चउव्विधे संवासे पं० तं०-असुरे नाममेगे असुरीए सध्धि संवासं गच्छति असुरे नाममेगे मणुस्सीए सद्धिं संवाएं गच्छति ४, ६, चउव्विधे संवासे पं० तं०-रक्खसे नाममेगे रक्खसीए सद्धिं संवासं गच्छति रक्खसे नाममेगे माणुसीए सद्धिं संवासं गच्छति ४, ७, । वृ. कण्ठ्यं, नवरं स्त्रिया सह संवसनं शयनं संवासः, द्यौः स्वर्गः तद्वासी देवोऽप्युपचाराद् द्यौस्तत्र भवो दिव्यो वैमानिकसम्बन्धीत्यर्थः, असुरस्य भवनपतिविशेषस्यायमासुर एवमितरी, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy