SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २९४ स्थानाङ्ग सूत्रम् ४/४/३७२ बहलच्छायत्वासेव्यत्वादयो यस्य सः शालपर्याय इत्येकः, शालो नामैक इति तथैव एरण्डस्येव पर्यायाधर्माअबहलच्छावत्वाऽऽसेव्यत्वादयो यस्यसएरण्डपर्याय इति द्वितीयः, एरण्डोनामैक एरण्डाभिधानवृक्षजातीयत्वात्सालपर्यायोबहलच्छायत्वादिधर्ममयुक्तत्वादितितृतीयः, एरण्डो नामैकस्तथैव एरण्डपर्यायः अबहलच्छायत्वाघेरण्डधर्मयुक्तत्वादिति चतुर्थः १८, आचार्यस्तु सालइव सालोयथाहि सालोजातिमानेवमाचार्योऽपि यः सत्कुलः सद्गुरुकुलश्चस साल एवोच्यते तथा सालपर्यायः-सालधर्मा यथा हि सालः सच्छायत्वादिधर्मयुक्त एवं यो ज्ञानक्रियाप्रभवयशःप्रभृतिगुणयुक्तो भवति स तथोच्यते इत्येकः, तथा सालो नामैक इति तथैव एरण्डपर्यायस्तूक्तविपर्ययादिति द्वितीयः, एवमितरावपीति १९,तथासालस्तथैवसाल एवपरिवारः-परिकरो यस्य स सालपरिवारः, एवं शेषत्रयमिति २०,आचार्यस्तुसाल इवसालो गुरुकुलश्रुतादिभिरुत्तमत्वात्सालपरिवारःसालकल्पमहानुभावसाधुपरिकरत्वात्, तथाएरण्डपरिवारः एरण्डकल्पनिगुणसाधुपरिकरत्वात् एवमेरण्डोऽपि श्रुतादिभिहीनत्वादिति, चतुर्थः सुज्ञानः, उक्तचतुर्भङ्गया एव भावनार्थ सालदुमे'त्यादि गाथाचतुष्कं, व्यक्तं नवरं मङ्गुलम्-असुन्दरं २१, मू. (३७६) चत्तारि गच्छा पं० तं०-अनुसोयचारी पडिसोयचारी अंतचारी मज्झचारी, २२ एवामेव चत्तारि भिक्खागा पं० तं०-अणुसोयचारी पडियोचारी अंतचारी मज्झचारी, २३ चत्तारिगोलापं०२०-मधुसित्थगोलेजउगोले दारुगोलेमट्टियागोले, २४एवामेव चत्तारिपुरिसजाया पं० तं०-मधुसित्थगोलसमाणे ४, २५ चत्तारि गोलापं० २०-अयगोले तउगोले तंबगोले सीसगोले, २६ एवामेव चत्तारि पुरिसजाया पं० तं०-अयगोलसमाणे जाव सीसगोलसमाणे, २७ चत्तारि गोला पं०२०-हिरनगोले सुवन्नगोले रयणगोले वयरगोले, २८ एवामेव चत्तारिपुरिसजाया पं० तं०-हिरन्नगोलसमाणेजाव वइरगोलसमाणे, २९ चत्तारिवत्तापं०२०-असिपत्ते करपत्तेखुरपत्ते कलम्बचीरितापत्ते, ३० एवामेव चत्तारि पुरिसजाया पं० तं०-सुंब कडे विदलकडे चम्मकडे कंबलकडे, ३२ एवामेव चत्तारिपुरिसजायापं० तं०-सुंबकडसमाणेजाव कंबलकडसमाणे ३३ वृ.अनुश्रोतसाचरतीत्यनुश्रोतश्चारी-नद्यादिप्रवाहगामी एवमन्ये त्रयः२२, एवंभिक्षाकःसाधुः, यो ह्यभिग्रहविशेषादुपाश्रयसमीपात्क्रमेणकुलेषुभिक्षतेसोऽनुश्रोतश्चारिमत्स्यवदनुश्रोतश्वारी प्रथमो, यस्तूक्रमेण गृहेषुभिक्षमाण उपाश्रयमायाति स द्वितीयो, यस्तु क्षेत्रान्तेषुभिक्षतेस तृतीयः, क्षेत्रमध्ये चतुर्थः,२३, मधुसित्थु-मदनंतस्यगोलो-वृत्तपिण्डोमधुसित्थगोल एवमन्येऽपि, नवरंजतु-लाक्षा दारुमृत्तिके प्रसिद्ध इति २४, यथैते गोला मृदुकठिनकठिनतरकठिनतमाःक्रमेण भवन्त्येवं ये पुरुषाः परीषहादिषु मृदुध्दष्टेढतरढतमसत्त्वा भवन्ति ते मधुसित्थगोलसमाना इत्यादिभिव्यपदेशैव्यपदिश्यन्तइति २५, अयोगोलादयः प्रतीताः २६, एतैश्चायोगोलकादिभिः क्रमेणगुरुगुरतरगुरुतमात्यन्तगुरुभिः आरम्भादिविचित्रप्रवृत्त्युपार्जितकर्मभारायेपुरुषाभवन्ति तेऽयोगोलसमाना इत्यादिव्यपदेशवन्तो भवन्ति पितृमातूपुत्रकलत्रगतसनेहभारतो वेति २७, ___ हिरण्यादिगोलेषु क्रमेणाल्पगुणगुणाधिकगुणाधिकतरगुणाधिकतमेषुपुरुषाः समृद्धितो ज्ञानादिगुणतो वा समानतया योज्याः २८, पत्राणि-पर्णानि तद्वातनुतया यानि अस्यादीनि तानि पत्राणीति, असिः-खगः स एव पत्रमसिपत्रं करपत्रं-क्रकचं येन दारु छिद्यते क्षुरः-छुरःस एव पत्रंक्षुरपत्रं, कदम्बचीरिकेति शस्त्रविशेष इति २९, तत्र द्राक्छेदकत्वादसेयः पुरुषो द्रागेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy