SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २९२ स्थानाङ्ग सूत्रम् ४/४/३६८ वासित्ता नाममेगे नो विजुयाइत्ता ४, ६, चत्तारि मेहा पं० तं०- कालवासी ४, ७, नाममेगे नो अकालवासी एवामेव चत्तारि पुरिसजाया पं० तं०- कालवासी नाममेगे नो अकालवासी ४, ८, चत्तारि मेहा पं० तं०-खेत्तवासी नाममेगे नो अखित्तवासी ४, ९, एवामेव चत्तारि पुरिसजाया पं० तं०- खेत्तवासी नाममेगे णो अखेत्तवासी ४, १०, चत्तारि मेहा पं० तं० - जणतित्ता नाममेगे नो निम्मवइत्ता निम्मवइत्ता नाममेगे नो जणतित्ता ४, ११, एवामेव चत्तारि अम्मापियरो पं० तं ० - जणइत्ता नाममेगे नो निम्मवइत्ता ४, १२, चत्तारि मेहा पं० तं०- देसवासी नाममेगे नो सव्ववासी ४, १३, एवामेव चत्तारि रायाणो पं० तं०-देसाधिवती नाममेगे नो सव्वाधिवती ४, १४ वृ. सुगमानि च, नवरं मेघाः- पयोदाः गर्जिता गर्जिकृत् नो वर्षिता - न प्रवर्षणकारीति १, एवं कश्चित्पुरुषो गर्जितेव, गर्जिता दानज्ञानव्याख्यानानुष्ठानशत्रुनिग्रहादिविषये उच्चैः प्रतिज्ञावान् नो-नैव वर्षितेव वर्षिता वर्षकोऽभ्युपगतसम्पदक इत्यर्थः, अन्यस्तु कार्यकर्त्ता न चोच्चैः प्रतिज्ञावानिति, एवमितरावपि नेयाविति २ । 'विजुयाइत्त' त्ति विद्युत्कर्त्ता ३, एवं पुरुषोऽपि कश्चिदुच्चैः प्रतिज्ञाता न च विद्युत्कारतुल्यस्य दानादिप्रतिज्ञातार्थरम्भाडम्बरस्य कर्ताऽन्यस्तु आरम्भाडम्बरस्य कर्त्ता न प्रतिज्ञातेति, एवमन्यावपीति ४, वर्षिता कश्चिद् दानादिभिर्न तु तदारम्भाडम्बरकर्त्ता, अन्यस्तु विपरीतोऽन्य उभयथाऽन्यो न किञ्चिदिति ५-६, । कालवर्षी-अवसरवर्षीति एवमन्येऽपि, ७, पुरुषस्तु कालवर्षीव कालवर्षी अवसरे दानव्याख्यानादिपरोपकारार्थप्रवृत्तिक एकः अन्यस्त्वन्यथेति, एवं शेषौ ८, क्षेत्रं धान्याद्युत्पत्तिस्थानम् ९, पुरुषस्तु क्षेत्रवर्षीव क्षेत्रवर्षी पात्रे दानश्रुतादीनां निक्षेपकः, अन्यो विपरीतोऽन्यस्तथाविधविवेकविकलतया महौदार्यात् प्रवचनप्रभावनादिकारणतो वा उभयस्वरूपोऽन्यस्तु दानादावप्रवृत्तिक इति १०, जनयिता मेघो यो वृष्टया धान्यमुद्गमयति, निर्मापयिता, तु यो वृष्टैव सफलता नयतीति ११, एवं मातापितरावपीति प्रसिद्धं, एवमाचार्योऽपि शिष्यं प्रत्युपनेतव्य इति १२, - विवक्षितभरतादिक्षेत्रस्य पावृडादिकालस्य वा देशे आत्मनो वा देशेन वर्षतीति देशवर्षी १ यस्तु तयोः सर्वयोः सर्वात्मना वा वर्षति स सर्ववर्षीस, अन्यस्तु क्षेत्रतो देशे कालतः सर्वत्रात्मनो वा सर्व्वः २, अथवा कालतो देशे क्षेत्रतः सर्वत्र ३ आत्मनो वा सर्वतः ४, अथवा आत्मनो देशेन क्षेत्रतः ५, कालतो वा सर्वत्र ६, अथवा क्षेत्रकालतो देशेन आत्मनः सर्वतः ७, अथवा क्षेत्रतो देशे, आत्मनो देशेन कालतः सर्वत्र ८, अथवा कालतो देशे आत्मनो देशेन क्षेत्रतो न सर्वत्रे ९ त्येवं नवभिर्विकल्पैर्वर्षति स देशवर्षी सर्ववर्षी चेति, चतुर्थः सुज्ञान इति १३, राजा तु यो विवक्षितक्षेत्रस्य मेघवद्देश एव योगक्षेमकारितथा प्रभवति स देशाधि - पतिर्नसर्वाधिपतिः सचपल्लीपत्यादिः, यस्तु न पल्ल्यादौ देशेऽन्यत्र तु सर्वत्र प्रभवति स सर्वाधिपतिर्न देशाधिपतिर्यस्तूभयत्र स उभयाधिपतिरथवा देशाधिपतिर्भूत्वा सर्वाधिपतिर्यो भवति वासुदेवादिवत् स देशाधिपतिश्च सर्वाधिपतिश्चेति, चतुर्थो राज्यभ्रष्ट इति १४, । मू. (३६९) चत्तारि मेहा पं० तं०-पुक्खलसंवट्टते पशुने जीमूते जिन्हे, पुक्खलवट्टए णं महामेहे एगेणं वासेण दसवाससहस्साइं भावेति, पज्जुने णं महामेहे एगेणं वासेणं दस वाससयाई भावेति, जीमूते णं महामेहे एगेणं वासेणं दसवासाइं भावेति, जिन्हे णं महामेहे बहूहिं वासेहिं एगं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy