________________
२५४
स्थानाङ्ग सूत्रम् ४/२/३३२
॥४॥
तणपण पुण भणियं जिणेहिं कम्मठ्ठगंठिमहणेहिं । साली वीही कोद्दव रालग रन्ने तणाई च ॥"
॥५॥ (चर्म्मपञ्चकमिदम्- ) "अयएलगावि महिसी मिगाण अजिणं तु पंचमं होइ । तलिया खल्लगवज्झो कोसग कत्ती य बीयं तु ॥” इति,
'चियाए 'त्ति त्यागो मनः प्रभृतीनां प्रतीत एव, अथवा मनःप्रभृतिभिरशनादेः साधुभ्यो दानं त्यागः, एवमुपकरणेन पात्रादिना भक्तादेस्तस्य वा त्याग उपकरणत्यागः
न विद्यते किञ्चन द्रव्यजातमस्येत्यकिञ्चनस्तद्भावो अकिञ्चनता निष्परिग्रहतेत्यर्थः, सा चमनःप्रभृतिभिरूपकरणापेक्षया च भवतीति यथोक्तेति ।।
स्थानं-४ - उद्देशकः २ समाप्तः
-: स्थान:- ४ उद्देशकः ३ :
वृ. व्याख्यातो द्वितीयोद्देशकः, अथ तृतीय आरभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः, पूर्वत्र जीव क्षेत्रपर्याया उक्ताः, इह तु जीवपर्याया उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादि सूत्रद्वयं मू. (३३३) चत्तारि रातीओ पं० तं० - पव्वयराती पुढविराती वालुयराती उदगराती, एवामेव चउव्विहे कोहे पं० तं० - पव्वयरातिसमाणे पुढविरातिसमाणे वालुयरातिसमाणे उदगरातिसमाणे, पव्वयरातिसमाणं कोहं अनुपविट्टे जीवे कालं करेइ नेरइतेसु उववज्जति, पुढविरातिसमाणं कोहमनुष्पविट्टे तिरिक्खजोणितेसु उववज्जति, वालुयरातिसमाणं कोहं अनुपविट्टे समाणे मणुस्सेसु उववज्जति, उदगरातिसमाणं कोहमनुपविट्टे समाणे देवेसु उववज्जति ।
चत्तारि उदगा पं० तं० - कद्दमोदए खंजणोदए वालुओदए सेलोदए, एवामेव चउव्विहे भावे पं० तं० - कद्दमोदगसमाणे खंजणोदगसमाणे वालुओदगसमाणे सेलोदगसमाणे, कद्दमोदगसमाणं भावमनुपविट्टे जीवे कालं करेइ नेरइएसु उववज्जति, एवं जाव सेलोदगसमाणं भावमनुपविट्टे जीवे कालं करेइ देवेसु उववज्जइ ।
वृ. 'चत्तारी’'त्यादि, अस्य चायमभिसम्बन्धः - पूर्वं चारित्रमुक्तं, तत्प्रतिबन्धकश्च क्रोधादिभाव इति क्रोधस्वरूपप्ररूपणयेदमुच्यते, तदेवंसम्बन्धस्यास्य दृष्टान्तभूतादिसूत्रस्य व्याख्या 'राजी' रेखा, शेषं क्रोधव्याख्यानं मायादिवत्, मायादिप्रकरणाच्चान्यत्र क्रोधविचारो विचित्रत्वात् सूत्रगतेरिति, द्वितीयं सुगममेव ॥ अयं च क्रोधो भावविशेष एवेति भावप्ररूपणाय दृष्टान्तादिसूत्रद्वयमाह - 'चत्तारी' त्यादि प्रसिद्धं, किन्तु कर्द्दमो यत्र प्रविष्टः पादादिर्नाक्रष्टुं शक्यते कष्टेन वा शक्यते, खञ्जनं दीपादिखञ्जनतुल्यः पादादिलेपकारी कर्द्दमविशेष एव, वालुका प्रतीता सा तु लग्नापि जलशोषे पादादेरल्पेनैव प्रयत्नेनापैतीत्यल्पलेपकारिणी, शैलास्तु पाषाणाः श्लक्ष्णरूपास्ते पादादेः स्पर्शनेनैव किञ्चिद्दुःखमुत्पादयन्ति, न तु तथाविधं लेपमुपजनयन्ति, कर्द्दमादिप्रधानान्युदकानि कर्द्दमोदका दीन्युच्यन्ते, भावो जीवस्य रागादिपरिणामः तस्य कर्द्दमोदकादिसाम्यं तत्स्वरूपानुसारेण कर्म्मलेपवङ्गीकृत्य मन्तव्यमिति । अनन्तरं भाव उक्तोऽधुना तद्वतः पुरुषान् सध्ष्टान्तान्
मू. (३३४) चत्तारि पक्खी पं० तं० - रुयसंपन्ने नाममेगे नो रूवसंपन्ने रूवसंपन्ने नाममेगे नो रुतसंपन्ने एगे रूवसंयन्नेवि रुतसंपन्नेवि नो रुतसंपन्ने नो रुवसंपन्ने, एवामेव चत्तारि पुरिसजाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org