________________
२३५
स्थानं-४, - उद्देशकः-२ इत्यर्थः, स चात्मनो दुर्नयेषु प्रवर्त्तमानस्यैको निषेधकः, अथवा 'अलमंथुत्ति समयभाषया समर्थोऽभिधीयते, ततः आत्मनो निग्रहे समर्थः कश्चिदिति,
एको मार्ग ऋजुरादावन्तेऽपि ऋजुः अथवा ऋजुः प्रतिभाति तत्त्वतोऽपि ऋजुरेवेति, पुरुषस्तु ऋजुः पूर्वापरकालापेक्षया, अन्तस्तत्वबहिस्तत्त्वापेक्षया वेति, क्वचित्तु 'उज्जूनामंएगे उजूमणे'त्ति पाठः, सोऽपि बहिस्तत्त्वान्तस्तत्त्वापेक्षया व्याख्येयः, क्षेमो नामैको मार्ग आदी निरुपद्रवतयापुनःक्षेमोऽन्तेतथैव, प्रसिद्धितत्त्वाभ्यांवा, एवंपुरुषोऽपिक्रोधादयुपद्रवरहिततया क्षेमइति, क्षेमोभावतोऽनुपद्रवत्वेन क्षेमरूपआकारेणमार्गः, पुरुषस्तुप्रथमो भावद्रव्यलिङ्गयुक्तः साधुः, द्वितीयः कारणिकोद्रव्यलिङ्गवर्जितः साधुरेव, तृतीयोनिह्नवः, चतुर्थो।ऽन्यतीर्थिकोगृहस्थो वेति,७,
शम्बूकाः-शङ्खाः वामो वामपार्श्वव्यवस्थितत्वात्प्रतिकूलगुणत्वाद्वा, वामावर्त्तः प्रतीतः, एवं दक्षिणावर्तोऽपि, दक्षिणो दक्षिणपार्श्वनियुक्तत्वादनुकूलगुणत्वाद्वेति, पुरुषस्तु वाम; प्रतिकूलस्वभावतया वाम एवावर्त्तते-प्रवर्तत इति वामावर्तो विपरीतप्रवृत्तेरेकः अन्यो वाम एव स्वरूपेण कारणवशाद् दक्षिणावर्तः-अनुकूलवृत्तिः, अन्यस्तु दक्षिणोऽनुकूलस्वभावतया कारणवशात् वामावर्त्तः-अननुकूलवृत्तिरित्येवं चतुर्थोऽपीति,
धूमशिखा वामा वामपार्श्ववर्तितया अननुकूलस्वभावतया वा वामत एवावर्तते या तथावलनात्सावामावर्ता, स्त्रीपरिषवव्याख्येया, कम्बुद्दष्टान्तेसत्यपिधूमशिखादिष्टान्तानां स्त्रीदा न्तिके शब्दसाधर्येणोपपन्नतरत्वाद् भेदेनोपादानामिति ११,
एवमग्निशिखापि १३, वातमण्डलिका-मण्डलेनोर्द्धप्रवृत्तो वायुरिति, इह च स्त्रियो मालिन्योपतापचापल्यस्वभावा भवन्तीत्यभिप्रायेण तासु धूमशिखादिष्टान्तत्रयोपन्यास इति, ॥१॥ (उक्तञ्च-) "चवला मइलणसीला सिणेहपरिपूरियावि तावेइ ।
दीवयसिहव्व महिला लद्धप्पसरा मयं देइ" इति, १५, १५, वनखण्डस्तु शिखावत्, नवरं वामावर्तो वामवलनेन जातत्वाद् वायुना वा तथा धूयमानत्वादिति १६, पुरुषस्तु पूर्ववदिति १७॥
अनुकूलस्वभावोऽनुकूलप्रवृत्तिश्चानन्तरं पुरुष उक्तः, एवंभूतश्च निर्ग्रन्थः सामान्येनानुचितप्रवृत्तावपि न स्वाचारमतिक्रामतीति दर्शयन्नाह
मू. (३०९) चउहि ठाणेहिं निग्गंथे णिग्गंथिं आलवमाणे वा संलवमाणे वा नातिक्कमति तं०-पंथं पुच्छमाणे वा १ पंथं देसमाणे वा २ असणं वा पाणं वाखाइमंवा साइमंवादलेमाणे वा ३ दलावेमाणे वा३।
वृ.'चउही'त्यादि, स्फुटं, किन्त्वालपन्-ईषप्रथमतया वाजल्पन संलपन् मिथो भाषणेन नातिक्रामति-न लक्ष्यति निर्ग्रन्थाचारं, “एगो एगित्थिए सद्धिं नेव चिट्टे न संलवे" विशेषतः साध्व्या इत्येवंरूपं, मार्गप्रश्नादीनां पुष्टालम्बनत्वादिति, तत्र मार्ग पृच्छन्, प्रश्नीयसाधर्मिकगृहस्थपुरुषादीनामभावे-हे आर्ये! कोऽस्माकमितो गच्छतांमार्गइत्यादिनाक्रमेण मार्गवा तस्या देशयन्-धर्मशीले! अयंमार्गस्ते इत्यादिनाक्रमेण, अशनादिवा ददद्-धर्मशीले! गृहाणेदमशनादीत्येवं, तथाअशनादिदापयन्, आर्ये! दापयाम्येतत्तुभ्यं आगच्छेह गृहादावित्यादिविधिनेति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org