________________
२३४
स्थानाङ्ग सूत्रम् ४/२/३०७
तथा 'एवमपी' ति अनेनापि स्वदोषगर्हणप्रकारेणापि प्रज्ञप्ता-अभिहिता जिनैर्दोषशुद्धिरिति प्रतिपत्तिरेका गर्हा, एवंविधप्रतिपत्तेर्गहकारणत्वादिति, एवंपि पन्नत्तेगा गरहे' ति पाठे व्याख्यानमिदम्, 'एवंपि पन्नत्ते एगा' इति पाठे त्विदं यत्किञ्चनावद्यं तन्मिथ्येत्येवं प्रतिपत्तव्यमित्येवमपि प्रज्ञप्ते सत्येका गर्हा भवति, एवंविधप्ररूपणायाः प्रज्ञापनीयस्य गर्हाकारणत्वात्, अथवा उपसंपद्ये-प्रतिषेधाम्यहमतिचारानित्येवं स्वदोषप्रतिपत्तिरेका गर्हा, तथा विचिकिप्सामि-शङ्के अशङ्कनीयानपि जिनभाषितभावान् गुर्वादीन् वा दोषवत्तयेत्येवंप्रकारा अपि गर्हा स्वदोषप्रतिपत्तिरूपत्वादेवेति, तथा यत्किञ्चन साधूनामनुचितं तदिच्छामि साक्षादकरणेऽपि मनसाऽभिलषामि, इह मकार आगमिकः प्राकृतत्वादिति, अथवा यत्किञ्चन साधुकृत्यमाश्रित्य मिथ्या विपर्यस्तोऽस्मि - भवामि मिथ्याकरोमि वा मिथ्ययामीति,
‘मिच्छामि;’म्लेच्छवदाचरामि वा म्लेच्छामीति मिच्छामि, शेषं पूर्ववत्, तथा असदनुष्ठानप्रवृत्तः सन् प्रेरितः सन् केनापि स्वकीयचितसमाधानार्थं वा स्वकीयासदनुष्ठानसमर्थनाय क्लिष्टचित्ततयैवं प्ररूपयामि भावयामि वा यदुत - एवमपि प्रज्ञप्तिः प्ररूपणाऽस्ति जिनागमे, पाठान्तरे त्वेवमपि प्रज्ञप्तोऽयं भाव इत्यस्थानाभिनिवेशी उत्सूत्रप्ररूपको वाऽहमित्येका गर्हा, एवं स्वदोषप्रतिपत्तिरूपा गर्हा सर्वत्रेति ॥ गर्हा च दोषवर्जकस्यैव सम्यग् भवति नेतरस्येति दोषवर्जकजीवस्वरूपनिरूपणाय सप्तदश चतुर्भङ्गी सूत्राणि -
मू. (३०८) चत्तारि पुरिसजाया पं० तं० - अप्पणो नाममेगे अलमंधू भवति नो परस्स परस्स नाममेगे अलमंथू भवति नो अप्पणो एगे अप्पणोवि अलमंथू भवति परस्सवि एगे नो अप्पणो अलमंथू भवति नो परस्स १ । चत्तारि मग्गा पं० तं०-उज्जू नाममेगे उज्जू उज्जू नाममेगे वंके वंके नाममेगे उज्जू वंके नाममेगे वंके २ । एवामेव चत्तारि पुरिस पं० -उज्जू नाममेगे उज्जू ४, ३ । चत्तारि मग्गा पं० तं० खेमे नाममेगे खेमे खेमे णाममेगे अखेमे (४), ४ । एवामेव चत्तारि पुरिसजाता पं० तं०- खेमे नाममेगे खेमे, (४), ४ चत्तारि मग्गा पं० तं०- खेमे नाममेगे खेमरूवे, खेमे नाममेगे अखेमरूवे ४, ६ । एवामेव चत्तारि पुरिसजाया पं० खेमे नाममेगे खे मरूवे ४, ७ । चत्तारि संबुक्का पं० तं०-वामे नाममेगे वामावत्ते वामे नाममेगे दाहिणावत्ते दाहिणे नाममेगे वामावत्ते दाहिणे नाममेगे दाहिणावत्ते ८ । एवामेव चत्तारि पुरिसजाया पं० तं० - वामे नाममेगे वामावत्ते, (४) ९ ।
चत्तारि धूमसिहाओ पं० तं० - वामा नाममेगा वामावत्ता ४, १० । एवामेव चत्तारित्थीओ पं० तं०-वामा नाममेगा वामावत्ता ४, ११ ।
चत्तारि अग्गिसिहाओ पं० तं०-वामा णाममेगा वामावत्ता, ४, १२ । एवामेव चत्तारित्थीओ पं० तं०-वामा ना० ४, १३ ।
चत्तारि वायमंडलिया पं० तं० -वामा नाममेगा वामावत्ता ४, १४, एवामेव चत्तारित्थीओ पं० तं०-वामा नाममेगा वामावत्ता ४, १५ ।
चत्तारि वनसंडा पं० तं० - वामे नाममेगे वामावत्ते ४, १६, एवामेव चत्तारि पुरिसजाया पं० तं० - वामे नाममेगे वामावत्ते, ४, १७ ।
वृ. व्यक्तानि, केवलं अलमस्तु-निषेधो भवतु य एवमाह सोऽलमस्त्वित्युच्यते, निषेधक
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International