________________
स्थानं-४, - उद्देशकः -२
२२७ पुरुषोऽप्येवं भावनीयः, उत्तरसूत्राणि तु चत्वारि सदान्तिकानि, भद्रादिपदानि चत्वारि तदधः क्रमेण चत्वार्येव भद्रमनः-प्रभृतीनि च विन्यस्य "भद्दे नाम एगे भद्रमणे" इत्यादिना क्रमेण समवसेयानि, तत्र भद्रो जात्याकाराभ्यां प्रशस्तस्तथा भद्रं मनो यस्याथवा भद्रस्येव मनो यस्य स तथा धीर इत्यर्थः, मन्दं मन्दस्येव वामनोयस्य स तथा, नात्यन्तधीरः, एवं मृगमना भीरुरित्यर्थः, सङ्कीर्णमनाभद्रादिचित्रलक्षणोपेतमना विचित्रचित्तइत्यर्थः, पुरषास्तुवक्ष्यमाणभद्रादिलक्षणानुसारेण प्रशस्तप्रशस्तस्वरूपा मन्तव्या इति, भद्रादिलक्षणमिदम्मू. (२९६) मधुगुलियपिंगलक्खो अनुपुव्वसुजायदीहणंगूलो।
पुरओ उदग्गधीरो सव्वंगसमाधितो भद्दो। वृ. 'महु'गाथा माधुगुटिकेव-क्षौद्रव्रटिकेव पिङ्गले-पिङ्गे अक्षिणी-लोचने यस्य स तथा, अनुपूर्वेण-परिपाट्या सुष्टु जातःउत्पन्नो यः सोऽनुपूर्वसुजातः, स्वजात्युचितकालक्रमजातो हि बलरूपादिगुणयुक्तो भवति स चासौ दीर्घलाङ्गुलश्च-दीर्घपुच्छ इति स तथा, अनुपूर्वेण वा स्थूलसूक्ष्मसूक्ष्मतरलक्षणेन सुजातं दीर्घ लालं यस्य स तथेति, पुरतः-अग्रभागे उदग्रः-उन्नतः तथा धीरः-अक्षोभः तथा सर्वाण्यङ्गानि सम्यक्-प्रमाणलक्षणोपेतत्वेन आहितानि-व्यवस्थितानि यस्य स सर्वाङ्गसमाहितो भद्रो नाम गजविशेषो भवतीति। मू. (२९७) चलबहलविसमचम्मो थूलसिरो थूलएण पेएण।
थूलणहदंतवालो हरिपिंगललोयणो मंदे वृ. 'चल' गाहा, चलं-श्लथंबहलं-स्थूलं विषम-वलियुक्तंचर्म यस्य स तथा, स्थूलशिराः, स्थूलकेन 'पेएण'त्ति पेचकेन पुच्छमूलेन युक्तः स्थूलनखदन्तवालो, हरिपिङ्गललोचनः-सिंहवत् पिङ्गाक्षो मन्दो गजविशेषो भवतीति।। मू. (२९८) तणुओ तणुतग्गीवो तणुयततो तणुयदंतणहवालो।
भीरू तत्थुब्बिगो तासीय भवे मिते नामं वृ. 'तणु गाहा, तनुकः-कृशः तनुग्रीवः तनुत्वक्-तनुचा तनुकदन्तनखवालः, भीरु:भयशीलः स्वभावतस्तो भयकारणवशात् स्तब्धकर्णकरणादिलक्षणोपेतो भीत एव उद्विग्नः कष्टविहारादावुद्वेगवान् स्वयं त्रस्तः परानपि त्रासयतीति त्रासी च भवेन्मृगो नाम गजभेद इति। मू. (२९९) एतेसिं हत्थीणं थोवं थोवंतु जो हरति इत्थी।
रूवेण वसीलेण वसो संकिन्नोत्ति नायव्वो वृ. 'एएसिंगाहा' (स्पष्टा) मू. (३००) भद्दो भजइ सरए मंदो उण मजते वसंतंमि ।
मिउ मज्जति हेमंते संकिन्ने सव्वकालंमि। वृ. 'भद्दो गाहा' कण्ठ्या । ॥१॥ तथा दंतेहिं हणइ भद्दो मंदो हत्थेण आहाणइ हत्थी।
गत्ताधरेहि य मिओ, संकिन्नो सव्वओ हणइ" इति, अनन्तरं संकीर्णः सङ्गीर्णमना इत्यत्र मनःस्वरूपमुक्तमथ वाचःस्वरूपभणनाय विकथाकथाप्रकरणमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org