________________
२०४
स्थानाङ्ग सूत्रम् ४/१/२६१
मू. (२६१) चत्तारि झाणा पं० तं० - अट्टे झाणे रोद्दे झाणे धम्मे झाणे सुक्के झाणे, अट्टे झाणे चउव्विहे पं० तं० - अमणुन्नसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागते यावि भवति १, मणुन्नसंपओगसंपत्ते तस्स अविप्पओगसतिसमन्नागते यावि भवति २ आयंकसंपओगसंपउत्ते तस्स विप्पओगसतिमन्नागए यावि भवति ३, परिजुसितकामभोगसंपओगसंपउत्ते तस्स अविप्पओगसतिसमन्नागते यावि भवइ ४, अट्टस्स णंझाणस्स चत्तारि लक्खणा पं०, तं०- कंदणता सोतणता तिप्पणता परिदेवणता ।
रोद्दे झाणे चउव्विहे पं० तं० - हिंसाणुबंधि मोसाणुबंधि तेनानुबंधि सारक्खणानुबंधि, रुद्दस्स णं झाणस्स चत्तारि लक्खणा पं०, तं० - ओसन्नदोसे बहुदोसे अन्नाणदोसे आमरणंतदोसे धम्मे झाणे चउव्विहे चउप्पडोयारे पं० तं० - आणाविजते अवायविजते विवागविजते संठाणविजते, धम्मस्स णं झाणस्स चत्तारि लक्खणा पं० तं० - आणारुई निसग्गरुई सुत्तरुई ओगाढरुती, धम्मस्स णं झाणस्स चत्तारि आलंबणा पं० तं० - वायणा पडिपुच्छणा परियट्टणा अनुप्पेहा, धम्मस्सं णं झाणस्स चत्तारि अनुप्पेहाओ पं० तं० - एगाणुप्पेहा अनिच्चाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा,
सुक्के झाणे चउव्विहे चउप्पडोआरे पं० - पुहुत्तवितक्के सवियारी १, एगत्तवितक्के अवियारी २, सुहुमकिरिते अनियट्टी ३, समुच्छिन्नकिरिए अप्पडिवाती ४, सुक्कस्स णं झाणस्सं चत्तारि लक्खणा पं० तं-०- अव्वहे असम्मोहे विवेगे विउस्सग्गे, सुक्कस्स णं झाणस्स चत्तारि आलंबणा पं० तं०खंती मुत्ती मद्दवे अजवे, सुक्कस्स णं झाणस्स चतारि अणुप्पेहाओ पं० तं० - अनंतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा असुभाणुप्पेहा अवायाणुप्पेहा ।
वृ. सुगमं चैतन्नवरं ध्यातयो ध्यानानि, अन्तर्मुहूर्तमात्रं कालं चित्तस्थिरतालक्षणानि, (उक्तं च - ) "अंतोमुहुत्तमितितं चित्तावत्थाणमेगवत्थुम्मि ।
119 11
छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ॥” इति,
तत्र ऋतं दुःखं तस्य निमित्तं तत्र वा भवं ऋते वा पीडिते भवमार्त्त ध्यानं ध्ढोऽध्यवसायः हिंसाद्यतिक्रौर्यानुगतं रौद्रं श्रुतचरणधर्म्मादनपेतं धर्म्य शोधयत्यष्टप्रकारं कर्म्ममलं शुचं वा क्लमयतीति शुक्लं, 'चउव्विहे' त्ति चतस्रो विधा-भेदा यस्य तत्तथा,
अमनोज्ञस्य अनिष्टस्य, असमणुन्नस्सत्ति पाठान्तरे अस्वमनोज्ञस्य अनात्मप्रियस्य शब्दादिविषयस्य तत्साधनवस्तुनो या सम्प्रयोगः - सम्बन्धस्तेन सम्प्रयुक्तः सम्बद्धः अमनोज्ञसम्प्रयोगसम्प्रयुक्तो अस्वमनोज्ञसम्प्रयुक्तो वा य इति गम्यते 'तस्ये' ति अमनोज्ञशब्दादेर्विप्रयोगायविप्रयोगार्थं स्मृतिः - चिन्ता तां समन्वागतः - समनुप्राप्तो भवति यः प्राणी सोऽभेदोपचारादार्त्तमिति, चापीतिशब्द उत्तरविकल्पापेक्षया समुच्चयार्थः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्तो यः प्राणी तस्य प्राणिनः विप्रयोगे-प्रकमादमनोज्ञशब्दादिवस्तूनां वियोजने स्मृतिः-चिन्तनं तस्याः समन्वागतंसमागमनं समन्वाहारो विप्रयोगस्मृतिसमन्वागतं, चापीति तथैव, भवति आर्त्तध्यानमिति प्रकमः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्ते प्राणिनि 'तस्ये' ति अमनोज्ञशब्दादेर्विप्रयोगस्मृतिसमन्वागतमार्त्तध्यानमिति, उक्तं च- “आर्त्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः” इति प्रथममेवमुत्तरत्रापि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org