________________
२०३
स्थानं-४, - उद्देशकः-१ इच्छेज्जा ० नो चेवणं संचाइए ३, एवं निरयाउअंसि कम्मंसि अक्खीणसि जाव नोचेवणं संचातेति हव्वमागच्छित्तते ४, इच्छेतेहिं चउहिं ठाणेहिं अहुणोववन्ने नेरतितेजाव नो चेवणं संचातेति हव्वमागच्छित्तए ४
वृ. 'चउही'त्यादि सुगमं, केवलं 'ठाणेहिंति कारणैः 'अहुणोववन्ने ति अधुनोपपन्नःअचिरोपपन्नः, निर्गतमयं-शुभमस्मादिति निरयो-नरकस्तत्र भवो नैरयिकः, तस्य चानन्योत्पत्तिस्थानतांदयितुमाह-निरयलोके, तस्मादिच्छेन्मानुषाणामयं मानुषस्तं लोकं क्षेत्रविशेषं हव्वं' शीघ्रमागन्तुं 'नोचेव'त्तिनैव,गंवाक्यालङ्कारे, संचाइए' सम्यक्शक्नोतिआगन्तुं, 'समुब्भूयंति समुद्भूताम्-अतिप्रबलतयोत्पन्नां पाठान्तरेण ‘सन्मुखभूताम्' एकहेलोत्पन्नां पाठान्तरेणामहतो महतो भवनं महद्भूतम्तेन सहयासा समहद्भूतातांसुमहद्भूतांवा वेदनां-दुःखरूपांवेदयमानःअनुभवन् इच्छेदितिमनुष्यलोकागमनेच्छायाः कारणम् १, एतदेव चाशकनस्य, तीव्रवेदनाभिभूतो हि न शक्त आगन्तुमिति, तथा निरयपालैः-अम्बादिभिः भूयो भूयः-पुनः पुनरधिष्ठीयमानःसमाक्रम्यमाणःआगन्तुमिच्छेदित्यागमनेच्छाकारणमेतदेवचागमनाशक्तिकारणं,तैरत्यन्ताक्रान्तस्यागन्तुमशक्तत्वादिति २,
तथा निरये वेद्यते-अनुभूयते यत् निरययोग्यं वा यदिनीयं तन्निरयवेदनीयं-अत्यन्ताशुभनामकादि असातवेदनीयंवा तत्र कर्मणिअक्षीणे स्थित्या अवेदिते अननुभूतानुभागतया अनिर्जीर्णे-जीवप्रदेशेभ्योऽपरिशटिते इच्छेत् मानुषं लोकमागन्तुं न च शक्नोति, अवश्यवेद्यकर्मनिगडनियन्त्रितत्वादित्यागमनाशकन एव कारणमिति ३,
तथा “एव'मिति ‘अहुणोववन्ने' इत्याद्यभिलापसंसूचनार्थं निरयायुष्के कर्मणि अक्षीणे यावतकरणात् अवेइए इत्यादि दृश्यमिति ४, निगमयन्नाह - 'इच्चेएहिंति, इति एवंप्रकारेतैःप्रत्यक्षैरनन्तरोक्तत्वादिति । अनन्तरं नारकस्वरूपमुक्तं, ते चासंयमोपष्टम्भकपरिग्रहादुत्पद्यन्त इति तद्विपक्षभूतं परिग्रहविशेष चतुःस्थानकेऽवतारयन्ना ह
मू. (२६०) कप्पंति निग्गंधीणं चत्तारि संघाडीओधारित्तए वा परिहरिततते वा, तं०एगं दुहत्यवित्थारं, दो तिहत्थवित्थारा एगं चउहत्थवित्थारं
वृ. 'कप्पंती'त्यादि, कल्पन्ते-युज्यन्तेनिर्गता ग्रन्थाद्-बन्धहेतोर्हिरण्यादेर्मिथ्यात्वादेश्चेति निर्ग्रन्थ्यः-साध्व्यस्तासां साट्यः-उत्तरीयविशेषारूपा धारयितुं वा परिग्रहे परिहर्तु वा परिभोक्तुमिति, द्वौ हस्तौ विस्तारः-पृथुत्वं यस्याः सा तथा, कल्पन्त इति क्रियापेक्षया कर्तृत्वात् संघटीनां, एग दुहत्थवित्थारं, एगंचउहत्थंवित्थारं तिप्रथमास्यात्तदर्थेचप्राकृतत्वात् द्वितीयोक्ता, धारायन्ति परिभुञ्जते चेति, प्रत्ययपरिणामेन बेति क्रियानुस्मृतेः द्वितीयैव, तत्र प्रथमा उपाश्रये भोग्या त्रिहस्तविस्तारयोरेका भिक्षागमने द्वितीया विचारभूमिगमने चतुर्थी समवसरणे, उक्तंच ॥१॥ “संघाडीओ चउरो तत्थ दुहत्था उवसयंमि॥
दुनि तिहत्थायामा भिक्खट्ठा एग एग उच्चारे।
ओसरणे चउहत्था निसन्नपच्छायणी मसिणा॥" इति, नारकत्वं ध्यानविशेषाद, ध्यानविशेषार्थमेव च संघाट्यादिपरिग्रह इति ध्यानं प्रकरणत आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org