________________
१९०
स्थानाङ्ग सूत्रम् ३/४/२३२
विचिकित्सेति, 'परियावज्जण' त्ति पर्यापदनं पर्यापत्तिरासेवेतियावत्, सा ऽप्येवमेवेति । 'जाणु'त्ति ज्ञः, स च ज्ञानात् स्यादित्युक्तं, ज्ञानं चातीन्द्रियार्थेषु प्रायः शास्त्रादिति शास्त्रभेदेन तद्भेदानाहमू. (२३३) तिविधे अंते पं तं०- लोगंते वेयंते समयंते ।
वृ. 'तिविहे अंते' इत्यादि, अमनमधिगमनमन्तः परिच्छेदः, तत्र लोको -लोकशास्त्रं तत्कृतत्वात् तदध्येयत्वाच्चार्थशास्त्रादिः तस्मादन्तो निर्णयस्तस्य वा परमरहस्यं पर्यन्तो वेति लोकान्तः, एवमितरावपि, नवरं वेदा ऋगादयः ४ समया जैनादिसिद्धान्ता इति । अनन्तरं समयान्त उक्तः, समयश्च जिनकेवल्यर्हच्छब्दवाच्यैरुक्तः सम्यग्भवतीति जिनादिशब्दवाच्यभेदानभिधातुं त्रिसूत्रीमाह
मू. (२३४) ततो जिना पं० - ओहिनाणजिने मणपजवनाणजिने केवलनाणजिने १, ततो केवली पं० तं०-ओहिनाणकेवली मणपजवनाणकेवली केवलनाणकेवली २, तओ अरहा, पं० तं०-ओहिनाणअरहा मणपज्जवनाणअरहा केवलनाणअरहा ३
'तओ जिणे'त्यादि, सुगमा, नवरं रागद्वेषमोहान् जयन्तीति जिना:- सर्वज्ञाः, उक्तं च119 11 " रागो द्वेषस्तथा मोहो, जितो येन जिनो ह्यसौ । अस्त्रीशस्त्रा क्षमालत्वादर्हनेवानुमीयते " इति,
तथा जिना इव ये वर्त्तन्ते निश्चयप्रत्यक्षज्ञानतया तेऽपि जिनास्तत्रावधिज्ञानप्रधानो जिनोऽवधिजिनः एवमितरावपि, नवरमाद्यावुपचरितावितरो निरुपचारः, उपचारकारणं तु प्रत्यक्षज्ञानित्वमिति, केवलम् एकमनन्तं पूर्णं वा ज्ञानादि येषामस्ति ते केवलिनः उक्तं च"कसिणं केवलकप्पं लोगं जाणंति तह य पासंति । केवलचरित्तानाणी तम्हा ते केवली होति " ' इति,
-
119 11
इहापि जिनवद् व्याख्या, अर्हन्ति देवादिकृतां पूजामित्यर्हन्तः, अथवा नास्ति रहः प्रच्छन्नं किञ्चिदपि येषां प्रत्यक्षज्ञानित्वात्ते अरहसः, शेषं प्राग्वत् ।
एते च सलेश्या अपि भवन्तीति लेश्याप्रकरण- माह
मू. (२३५) ततो लेसाओ दुब्भिगंधाओ पं० तं०- कण्हलेसा नीललेसा काउलेसा १, तओ लेसाओ सुब्भिगंधातो पं० तं० तेऊ० पम्ह० सुक्कलेसा २ एवं दोग्गतिगामिणीओ ३ सोगतिगामिणीओ ४ संकिलिट्ठाओ ५ असंकिलिट्ठाओ ६ अमणुन्नाओ ७ मणुन्नाओ ८ अविसुद्धाओ ९ विसुद्धाओ १० अप्पसत्थाओ ११ पसत्थाओ १२ सीतलुक्खाओ १३ निद्धुण्हाओ १४
वृ. 'तओ' इत्यादि सुगमं, नवरं 'दुब्मिगंधाओ' त्ति दुरभिगन्धा दुर्गन्धाः, दुरभिगन्धकत्वं च तासां पुद्गलात्मकत्वात्, पुद्गलानां च गन्धादीनां अवश्यंभावादीति, आह च119 11 “जह गोमडस्स गंधो सुणगमडस्स व जहा अहिमडस्स । एत्तोवि अनंतगुणो लेसाणं अप्पसत्थाणं " इति,
नामानुसारी चासां वर्णः कपोतवर्णा लेश्या कपोतलेश्या, धूम्रवर्णत्यर्थः, 'सुब्मिगंधाओ' ति सुरभिगन्धयः, आह च
|| 9 ||
“जह सुरभिकुसुमगधो गंधो वासाण पिस्समाणाणं । एत्तोवि अनंतगुणो पसत्यलेसाण तिण्हंपि " इति,
तेजो - वह्निस्तद्वर्णा लेश्या लेहितवर्णेत्यर्थः, तेजोलेश्येति, पद्मगर्भवर्णा लेश्या पीतवर्णेत्यर्थः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International