________________
स्थानाङ्ग सूत्रम् ३/४/२२०
“आचेल कुद्देसिय २ सिज्जायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जेट्ठ ७ पडिक्कमणे ८ मासं ९ पज्जोसवणकप्पे १०" इति, निर्विशमाना ये परिहारविशुद्धितपोऽनुचरन्ति परिहारिका इत्यर्थः, तेषां कल्पे स्थितिर्यथाग्रीष्मशीतवर्षाकालेषु क्रमेण तपो जघन्यं चतुर्थषष्ठाष्टमानि मध्यमं षष्ठादीनि उत्कृष्टमष्टमादीनीति, पारणं चायाममेव, पिण्डैषणासप्तके चाद्ययोरभिग्रह एव, पञ्चसु पुरनेकया भक्तमेकया च पानकमित्येवं द्वयोरभिग्रह इति, उक्तं च
॥ १ ॥ बारस १ दस २ अट्ठ ३ दस १ट्ठ २ छट्ट ३ अट्ठेव १ छट्ट २ चउरो य ३ । उक्कोसमज्झिमजहन्नगा उ वासासिसिरगिम्हे
पारणगे आयामं पंचसु गहो दोसऽभिग्गहो भिक्खे "ति, निर्व्विष्टा - आसोवितविक्षितचारित्रा अनुपरिहारिका इत्यर्थः तत्कल्पस्थितिर्यथा प्रतिदिनमायाममात्रं तपो भिक्षा तथैवेति, उक्तं च“कप्पट्ठियावि पइदिण करेति एमेव चायामं "ति, एते च निर्विशमानका निर्विष्टाश्च परिहारविशुद्धिका उच्यन्ते तेषां च नवको गणो भवति, ते च एवंविधाः
119 11
१८४
॥२॥
॥२॥
" सव्वे चरित्तवंतो उ, दंसणे परिनिट्ठिया । नवपुव्विया जहन्त्रेणं, उक्कोसा दसपुव्विया पंचविहे ववहारे, कप्पंमि दुविहंमि य । दसविहे य पच्छित्ते, सव्वे ते परिनिट्ठिया
इत्यादि, जिना-गच्छनिर्गतसाधुविशेषास्तेषां कल्पस्थितिर्जिनकल्पस्थितिः, सा चैवम्जिनकल्पं हि प्रतिपद्यते जघन्यतोऽपि नवमपूर्वस्य तृतीयवस्तुनि सति उत्कृष्टातस्तु दशसु भिन्नेषु प्रथमे संहनने, दिव्याद्युपसर्ग रोगवेदनाश्चासौ सहते, एकाक्येव भवति, दशगुणोपेतस्थण्डिल एवोच्चारादि जीर्णवस्त्राणि च त्यजति, वसतिः सर्वोपाधिविशुद्धास्य, भिक्षाचर्या तृतीयपौरुष्यां, पिण्डैषणोत्तरासां पञ्चानामेकतरैव, विहारो मासकल्पेन, तस्यामेव वीथ्यां षष्ठदिने भिक्षाटनमिति, एवंप्रकारा चेयं ‘सुयसंघयणे' त्यादिकाद् गाथासमूहात् कल्पोक्तादवगन्तव्यते, भणितं च“गच्छंमि य निम्माया धीरा जाहे य गहियपरमत्था । अग्गहि जोग अभिग्गहि, उर्वेति जिनकप्पियचरित्तं "
119 11
अग्रहे आद्ययोरभिग्रहे पञ्चानां पिण्डेषणानां द्वयोर्योगे-द्वयोर्मध्ये एकतरस्या गृहीतपरमार्थाः, 119 11 “धिइबलिया तवसूरा निंती गच्छाइ ते पुरिससीहा । बलवीरियसंघयणा उवसग्गसहा अभीरुया " इति,
स्थविरा:- आचार्यादयो गच्छप्रतिबद्धास्तेषां कल्पस्थितिः स्थविरकल्पस्थितिः, सा च 119 11 "पव्वज्जा सिक्खावयमत्थगहणं च अनियओ वासो ।
निष्पत्ती य विहारो सामायारी ठिई चेव "
इत्यादिकेति, इह च सामायिके सति छेदोपस्थापनीयं तत्र च परिहारविशुद्धिकभेदरूपं निर्व्विशमानकं तदनन्तरं निर्विष्टकायिकं तदनन्तरं जिनकल्पःस्थविरकल्पो वा भवतीति सामायिककल्पस्थित्यादिकः सूत्रयोः क्रमोपन्यास इति । उक्तकल्पस्थितिव्यतिक्रामिणो नारकादिशरीरिणो भवन्तीति तच्छरीरनिरूपणायाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org