________________
स्थानं - ३ - उद्देशक: -४
सातिरेकपञ्चाशीतियोजनसहस्रप्रमाणत्वादिति, स्वयंम्भूरमणो महान् सुमेरोरारभ्यतस्य शेषसर्वद्वीपसमुद्रेभ्यः समधिकप्रमाणत्वात्, तेषां तस्य च क्रमेण किञ्चिन्यूनाधिकरज्जुपादप्रमाणत्वादिति, ब्रह्मलोकस्तु महान्, तत्प्रदेशे पञ्चरजुप्रमाणत्वात् लोकविस्तरस्य, तत्प्रमाणतया च विवक्षितत्वात् ब्रह्मलोकस्येति । अनन्तरं ब्रह्मलोककल्प उक्त इति कल्पशब्दसाधर्म्यात् कल्पस्थितिं त्रिधाऽऽह
मू. (२२०) तिविधा कप्पठिती पं० तं सामाइयकप्पठिती छेदोवट्ठावणियकप्पाट्टिती निव्विसमाणकप्पट्ठिती ३, अहवा तिविहा कप्पट्ठिती पं० तं०- निव्विट्ठकप्पट्ठिती जिणकप्पठिती थेरकप्पठिती ३ ।
वृ. सूत्रद्वयं व्यक्तं केवलं समानि ज्ञानादीनि तेषामायो - लाभः समायः स एव सामायिकंसंयमविशेषस्तस्य तदेव वा कल्पः-करणमाचारः, यथोक्तम्
119 11
"सामर्थ्ये वर्णनायां च करणे छेदने तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः"
इति सामायिककल्पः, स च प्रथमचरमतीर्थयोः साधूनामल्पकालः, छेदोपस्थापनीयस्य सद्भावात्, मध्यतीर्थेषु महाविदेहेषु च यावत्कथिकः, छेदोपस्थापनीयाभावात्,
तदेवं तस्य तत्र वा स्थितिः मर्यादा सामायिककल्पस्थितिः, सा च शय्यातरपिण्डपरिहारे चतुर्यामपालने पुरुषज्येष्ठत्वे बृहत्पर्यायस्येतरणे वन्दनकदाने च नियमलक्षणा शुक्लप्रमा णोपेतवस्त्रापेक्षया यदचेलत्वं तत्र १ तथा आधाकर्म्मिकभक्ताद्यग्रहणे २ राजपिण्डाग्रहणे २ प्रतिक्रमणकरणे ४ मासकल्पकरणे ५ पर्युषणकल्पकरणे ६ चानियमलक्षणा चेति, अत्रोक्तम्“सिज्जायरपिंडे या १ चाउज्जामे य २ पुरिसजेट्ठे य २ । किइकम्मस्स य करणे ४ चत्तारि अवट्टिया कप्पा आलु १२ क्कुद्देसिय २ सपडिक्कमणे य ३ रायपिंडे य ४ । मासं ५ पज्जोसवणा ६ छप्पे अणवट्ठिया कप्पा " - तत्राचेलकत्वमेवम् -
119 11
“दुविहो होइ अचेलो असंतचेलो य संतचेलो य । तत्थ असंतेहिं जिणा संताऽ चेला भवे सेसा सीसावेढियापोत्तं नइउत्तरणंमि नग्गयं बेंति । जुन्नेहिं नग्गियम्हि तुर सालिय ! देहि मे पोत्तिं जुन्नेहिं खंडिएहिं असव्वतणुयाउएहिं न य निच्चं । संतेहिवि निग्गंथा अचेलया होंति चेलेहिं"
॥२॥
॥१॥
॥२॥
१८३
॥३॥
इत्यादि, तथा पूर्वपय्यार्यच्छेदेनोपस्थापनीयम् - आरोपणीयं छेदोपस्थापनीयं, व्यक्तितो महाव्रतारोपणमित्यर्थः, तच्च प्रथमपश्चिमतीर्थयोरेवेति शेषा व्युत्पत्तिस्तथैव, तत्स्थितिश्चोक्तलक्षणेष्वेव दशसु स्थानकेष्ववश्यंपालनलक्षणेति, तथाहि
119 11
"दंसठाणठिओ कप्पो पुरिमस्स य पच्छिमस्स य जिनस्स । एसो धुरयकप्पो दसठाणपट्ठिओ होइ " इति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org