________________
१६२
स्थानाङ्ग सूत्रम् ३/३/१९५
फलिकं प्रणकादि, तच्च तदुपहृतं चेति फलिकोपहृतं अवगृहीताभिधानपञ्चमपिण्डैषणाविषयभूतमिति, यदाह व्यवहारभाष्ये
11911
“फलियं पहेणगाई वंजणभक्खेहिं वाऽविरहियं जं । भोत्तुमणस्सोवहियं पंचमपिंडेसणा एस ॥” इति,
तथा शुद्धम् - अलेपकृतं शुद्धौदनं च तच तदुपहृतं चेति शुद्धोपहृतं, एतच्चाल्पलेमपभिधानचतुर्थैषणाविषयभूतमिति, तथा संसृष्टं नाम-भोक्तुकामेन गृहीतकूरादी क्षिप्तो हस्तः क्षिप्तो न तावत् मुखे क्षिपति तच्च लेपालेपकरणस्वभावमिति, तदेवंभूतमुपहतं संसृष्टोपहृतं, इदं चतुर्थैषणात्वेन भजनीयं, लेपालेपकृतादिरूपत्वादस्येति, अत्र गाथा"सुद्धं च अलेवक्रडं अहव नसुद्धोदनो
119 11
ससट्टं आऊत्तं लेवाडमलेवार्ड वावि ॥” इति,
इह च त्रये एकद्वित्रिसंयोगः सप्ताभिग्रहवन्तः साघवो भवन्तीति ४ ।
अवगृहीतं नाम केनचित् प्रकारेण दायकेनात्तं भक्तादि 'य' दिति भक्तम्, चकाराः समुच्चयार्थाः अवगृह्णाति -आदत्ते हस्तेन दायकस्तदवगृहीतम्, एतच्च षष्ठी पिण्डेषणेति, एवं च वृद्धव्याख्यापरिवेषकः पिढिकायाः क्रूरं गृहीत्वा यस्मै दातुकामस्तद्भाजने क्षेप्तुमुपस्थितस्तेन च भणित-मा देहि, अत्रावसरे प्राप्तेन साधुना धर्मलाभितं, ततः परिवेषको भणित- प्रसारय साधो ! पात्रं, ततः साधुना प्रसारिते पात्रे क्षिप्तमोदनम्, इह च संयतप्रज्योजने गृहस्थेन हस्त एव परिवर्त्तितो नान्यत् गमनादि कृतामिति जघन्यमाहृतजातमिति, इह च व्यवहारभाष्य श्लोकः“भुंजमाणस्स उक्खित्तं, पडिसिद्धं तं च तेण उ । जहन्नोवहडं तं तु, हत्यस्स परियत्ताण ॥” इति,
॥१॥
तथा यच्च परिवेषकः स्थानादिविचलन् संहरति-भक्तभाजनात् भोजनभाजनेषु क्षिपति तच्चावगृहीतमिति प्रक्रमः, श्लोकोऽत्र
119 11
"अह साहीरमाणं तु, वट्टंतो जो उ दायओ । दज्जाविचलिओ तत्तो, छट्ठी एसावि एसण ॥"
इति, तथा यच्च भक्तमास्यके-पिठरादिमुखे क्षिपति तच्चावगृहीतमिति, एवं चात्र वृद्धव्याख्या-कूरमवह्लादननिमित्तं कलिंजादिभाजनेविशालोत्तानरूपे क्षिप्तं ततो भाक्तिकेभ्यो दत्तं ततो भुक्तशेषं यद्भूयः पिठरके प्रकाशमुखे क्षिपन्ती दद्यात् परिवेषयन्ती वा प्रकाशमुखे भाजने तत् तृतीयमवगृहीतं श्लोकोऽत्र
11911
"भुत्तसेसं तु जंभूओ, छुब्मंती पिठरे दये । संवट्टंती व अन्नस्स, आसगंमि पगासए ।"
इति, ननु आस्ये-मुखे यत् प्रक्षिपतीति मुख्यार्थे सति किं पिठरकादिमुखे इति व्याख्यायत इति ?, उच्यते आस्यप्रक्षेपव्याख्यानमयुक्तं, जुगुप्साभावादिति, आह च "पक्खेवए दुगुंछा, आएसो कुडमुहाईसु"न्ति ५ । अवमम् ऊनमुदरं- जठरं यस्य सोऽवमोदरः, अवमं वोदरं अवमोदरं तद्भावोऽवमोदरता प्राकृतत्वादोमोयरियत्ति, अवमोदरस्य वा करणभवमोदरिका, व्युत्पत्तिरेवेयमस्य प्रवृत्तिस्तूनतामात्रे, तत्र प्रथमा जिनकल्पिकादीनामेव न पुनरन्येषां, शास्त्रीयोपध्यभावे हि समग्र संयमाभावादिति, अतिरिक्ताग्रहणतो वोनोदरतेति, उक्तं च
―
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org