________________
१४८
स्थानाङ्ग सूत्रम् ३/२/१७७
प्राणयोगात् द्वीन्द्रियादयस्तेऽपि गतियोगादेव त्रसा इति । उक्तास्त्रसाः, तद्विपर्ययमाह'तिविहे’त्यादि, स्थानशीलत्वात् स्थावरनामकर्मोदयाच्च स्थावराः, शेष । व्यक्तमेवेति ।
इह च पृथिव्यादयः प्रायोऽङ्गुलासङ्घयेयभागमात्रावगाहनत्वात् अच्छेद्यादिस्वभावा व्यवहारतो भवन्तीति तठप्रस्तावान्निश्चयाच्छेद्यादीनष्टभिः सूत्रैराह
मू. (१७८) ततो अच्छेज्जा पं० तं०- समये पदेसे परमाणू १, एवमभेदज्जा २ अडज्झा-३ अगिज्झा ४ अणड्डा ५ अमज्झा ६ अपएसा ७ ततो अविभातिमा पं० -समते पएसे परमाणू ८ वृ. 'तओ अच्छेज्जे' त्यादि, छेत्तुमशक्या बुद्धया क्षुरिकादिशस्त्रेण वेत्यच्छेद्याः, छेद्यत्वे समयादित्वायोगादिति, समयः कालविशेषः प्रदेशो-धर्म्माधर्म्माकाशजीवपुद्गलानां निरवयवोऽंशः परमाणुः-अस्कन्धः पुद्गल इति, उक्तं च
119 11
"सत्येण सुतिक्खेणवि छेत्तुं भेत्तुं च जं किर न सक्ष । तं परमाणुं सिद्धा वयंति आई पमाणाणं " ति,
'एव' मिति पूर्वसूत्राभिलापसूचनार्थ इति, अभेद्याः सूच्यादिना अदाह्या अग्निक्षारादिना अग्राह्या हस्तादिना न विद्यतेऽर्द्धं येषामित्यनर्द्धा विभागद्वयाभावात्, अमध्या विभागत्रयाभावात्, अत एवाह-'अप्रदेशा' निरवयवाः, अत एवाविभाज्या - विभक्तुमशक्या, अथवा विभागेन निर्वृत्ता विभागिमास्तन्निषेधदविभागिमाः । एते च पूर्वतरसूत्रोक्ताः त्रसस्थावराख्याः प्राणिनो दुःखभीरव इत्येतत् संविधानकद्वारेणाह
मू. (१७९) अजोति समणे भगवं महावीरे गोतमादी समणे निग्गंथे आमंतेत्ता एवं वयासीकिंभया पाणा ? समणाउसो !, गोयमाती समणा निग्गंथा समणं भगवं महावीरं उवसंकमंति उवसंकमित्ता वंदंति नमंसंति वंदित्ता नमंसित्ता एवं वयासी-नो खलु वयं देवाणुप्पिया ! एयमट्ठ जाणामो वा पासामो वा, तं जदि णं देवाणुप्पिया एयमद्वं नो गिलायंति परिकहित्तते तमिच्छामोणं देवाप्पियाणं अंतिए एयमहं जाणित्तए,
अजोत्ति समणे भगवं महावीरे गोयमाती समणे निग्गंथे आमंतेत्ता एवं वयासी- दुक्खभया पाणा समणाउस्सो !, से णं भंते! दुक्खे केण कडे ?, जीवेणं कडे पमादेण २, से णं भंते ! दुक्खे कहं वेइज्जति ?, अप्पमाएणं ३
वृ. 'अज्जो' इत्यादि, सुगमं, केवलम् 'अज्जोत्ति' त्ति आरात् पापकर्मभ्यो याता आर्यास्तदामन्त्रणं हे आर्या ! 'इतिः' एवमभिलापेनामन्तेतिसम्बन्धः, श्रमणो भगवान्म महावीरः गीतामादीन् श्रमणान् निर्ग्रन्थानेवं वक्ष्यमाणन्यायेनावादीदिति, कस्माद् भयं येषां ते किंभयाः, कुतो बिभ्यतीत्यर्थः, 'प्राणाः' प्राणिनः 'समणाउसो'त्ति हे श्रमणाः ! हे आयुष्मन्त इति गौतमादीनामेवामन्त्रणमिति, अयं च भगवतः प्रश्नः शिष्याणां व्युत्पादनार्थ एव, अनेन चापृच्छतोऽपि शिष्यस्य हिताय तत्त्वमाख्येयमिति ज्ञापयति, उच्यते च
119 11
“कत्थइ पुच्छइ सीसो कहिंचऽपुट्ठा वयंति आयरिया ।
सीसाणं तु हियट्ठा विउलतरागं तु पुच्छाए " इति,
ततश्च 'उवसंकमंति’त्ति उपसङ्क्रामन्ति-उपसङ्गच्छन्ति तस्य समीपवर्त्तिनो भवन्ति, इह च तत्कालापेक्षया क्रियाया वर्त्तमानत्वमिति वर्त्तमाननिर्देशो न दुष्टः, उपसङ्क्रय वदन्ते स्तुत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org