________________
स्थानाङ्ग सूत्रम् ३/२/१६२
१४२
पं० तं० - नाणबुद्धा दंसणबुद्धा चरित्तबुद्धा २ एवं मोहे ३ मूढा ४
वृ. सुबोधं, किन्तु बोधिः सम्यग्बोधः, इह च चारित्रं बोधिफलत्वात् बोधिरुच्यते, जीवोपयोगरूपत्वाद्वा, बोधिविशिष्टाः पुरुषास्त्रिधा ज्ञानबुद्धादय इति, 'एवं मोहे मूढ' त्ति बोधिवद्धुद्धवच्च मोहो मूढाश्च त्रिविधा वाच्याः, तथाहि - 'तिविहे मोहे पन्नत्ते, तंजहा-नाणमोहे' इत्यादि, 'तिविहा मूढा पन्नत्ता, तंजहा- नाणमूढेइत्यादि ।। चारित्रबुद्धाः प्रागभिहिताः, ते च प्रव्रज्यायायं सत्यामतस्तां भेदतो निरूपयन्नाह
मू. (१६५) तिविहा पव्वज्जा, पं० तं०-इहलोगपडिषद्धा परलोगपडिबद्धा दुहतोपडिबद्धा, तिविहा पव्वज्जा, पं० तं०-पुरतो पडिबद्धा मग्गतो पडिबद्धा दुहओ पडिबद्धा, तिविहा पव्वज्जा, पं० तं० - तुयावइत्ता पुयावइत्ता बुआवइत्ता, तिविहा पव्वज्जा पं० तं०-उवातपव्वज्जा अक्खातपव्वज्जा संगारपव्वज्जा ।
वृ. 'तिविहे 'त्यादि, सूत्रचतुष्टयं सुगमं, केवलं प्रव्रजनं गमनं पापाचरणव्यापारेष्विति प्रव्रज्या, एतच्च चरणयोगगमनं मोक्षगमनमेव, कारणे कार्योपचारात्, तन्दुलान् वर्षति पर्जन्य इत्यादिवदिति, उक्तं च
119 11
"पव्वयणं पव्वज्जा पावाओ सुद्धचरणजोगेसु । इय मोक्खं पइ गमणं कारण कज्जीवयाराओ ।" इति,
इहलोकप्रतिबद्धा-ऐहलौकिकभोजनादिकार्यार्थिनां परलोकप्रतिबद्धा - जन्मान्तरकामाद्यर्थिनां द्विधाप्रतिबद्धा-इहलोकपरलोकप्रतिबद्धा सा चोभयार्थिनामिति, पुरतः - अग्रत्तः प्रतिबद्धा प्रव्रज्यापर्यायभाविषु शिष्यादिष्वाशंसनतः प्रतिबन्धात् मार्गतः पृष्ठतः स्वजनादिषु स्नेहाच्छेदात् तृतीया द्विधाऽपीति ।
'तुयावइत्त' त्ति 'तुद व्यथने' इति वचनात् तोदयित्वा-तोदं कृत्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते, 'पुयावइत्त' त्ति, 'लुङ्गता' विति वचनात् प्लावयित्वा अन्यत्र नीत्वा आर्यरक्षितवद् या दीयते सा तथेति, 'बुयावइत्ता' संभाष्य गौतमेन कर्षकवदिति अवपातः-सेवा सद्गुरूणां ततो या सा अवपातप्रव्रज्या, तथा आख्यातेन-धर्मदेशनेन आख्यातस्य वा- प्रव्रजेत्यभिहितस्य गुरुभिर्या साऽऽख्यातप्रव्रज्या फल्गुरक्षितस्येवेति, 'संगार' त्ति सङ्केतस्तस्माद् या सा सङ्गारप्रव्रज्या मेतार्यादीनामिवेति, अथवा यदि त्वं प्रव्रजसि तदा मया प्रव्रजितव्यमित्येवं या सा तथा ॥ उक्तप्रव्रज्यावन्तो निर्ग्रन्था भवन्तीति निर्ग्रन्थस्वरूपं सूत्रद्वयेनाह
मू. (१६६) तओ नियंठा नोसंन्नोवउत्ता पं० तं०-पुलाए नियंठे सिणाए । ततो नियंठा सन्नणोसंन्नोवउत्ता पं० तं०-बउसे पडिसेवणाकुसीले कसायकुसीले ।
वृ. 'तओ' इत्यादि, निर्गता ग्रन्थात् सबाह्याभ्यनतरादिति निर्ग्रन्थाः संयता 'नो' नैव संज्ञायाम्-आहाराद्यभिलाषरूपायां पूर्वानुभूतस्मरणानागतचिन्ताद्वारेणोपयुक्ता ये ते नोसंज्ञोपयुक्ताः, तत्र पुलाको - लब्ध्युपजीवनादिना संयमासारताकारकोवक्ष्यमाणलक्षणः, निर्ग्रन्थःउपशान्तमोहः क्षीणमोहो वेति, स्नातको घातिकर्म्मलक्षालनावाप्तशुद्धज्ञानस्वरूपः ॥ तथा त्रय एव संज्ञोपयुक्ता नोसंज्ञोपयुक्ताश्चेति सङ्कीर्णस्वरूपाः, तथास्वरूपत्वात्, तथा चाह - "सन्ननोसश्नोवउत्त”त्ति, संज्ञा च-आहारादिविषया नोसंज्ञा च तदभावलक्षणा संज्ञानोसंज्ञे तयोरुपयुक्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org