________________
स्थानं-१,- उद्देशकः
११
सूत्रानुगमएवोच्यते, तत्रच अल्पग्रन्थमहार्थादिसूत्रलक्षणोपेतंस्खलितादिदोषवर्जितं सूत्रमुच्चारणीयं, तच्चेदम्
मू. (१) सुयं मे आउसं! तेणं भगवता एवमक्खायं।
वृ. अस्य च व्याख्या संहितादिक्रमेणेति, आह च भाष्यकार:॥१॥ “सुत्तं १ पयं २ पयत्थो ३ संभवतो विग्गहो ४ वियारो ५
दुसियसिद्धी ६नयमयविसेसओ नेयमनुसुत्तं" तत्र सूत्रमिति संहिता, सा चानुगतैव, सूत्रानुगमस्य तद्रूपत्वादिति, आहच-“होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयानुगमो"त्ति, सूत्रे चास्खलितादिगुणोपेते उच्चारिते केचिदर्था अवगताः प्राज्ञानां भवन्त्यतःसंहिता व्याख्याभेदोभवति, अनधिगतार्थाधिगमायचपदादयो व्याख्याभेदाः प्रवर्तन्त इति, तत्र पदानि-'श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यात'मिति, एवं पदेषु व्यवस्थापितेषु सूत्रालापकनिष्पन्ननिक्षेपावसरः, तत्र चेयं व्यवस्था॥१॥ “जत्थ उजं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं।
जत्थवि य न जाणेजा चउक्कयं निक्खिवे तत्थ" त्ति, तत्र नामश्रुतंस्थापनाश्रुतंच प्रतीतं, द्रव्यश्रुतमधीयानस्यानुपयुक्तस्य पत्रकपुस्तकन्यस्तं वा, भावश्रुतं तु श्रुतपयुक्तस्येति, इह च भावश्रुतेन श्रोत्रेन्द्रियोपयोगलक्षणेनाधिकारः, तथा 'आउसं'ति आयुः-जीवितं, तन्नामादिभेदतो दशधा, तद्यथा ॥१॥ “नामं १ ठवणा २ दविए ३ ओहे ४ भवं ५ तब्भवे य ६ भोगे य७।
संजम ८जस ९ कित्ती १० जीवियं च तं भन्नती दसहा" तत्र नामस्थापने क्षुण्णे 'दविए'त्तिद्रव्यमेव सचेतनादिभेदंजीवितव्यहेतुत्वाञ्जीवितंद्रव्य जीवितं, ओघजीवितं नारकाद्यविशेषितायुर्द्रव्यमानं सामान्यजीवितं भवति, नारकादिभवविशिष्टं जीवितं भवजीवितं नारकजीवितमित्यादि, 'तब्भवे यत्ति तस्यैव-पूर्वभवस्य समानजातीयतया सम्बन्धि जीवितं तद्भवजीवितं, यथा मनुष्यस्य सतो मानुषत्वेनोत्पन्नस्येति, भोगजीवितं चक्रवादीनां, संयमजीवितंसाधूनां, यशोजीवितं कीर्तिजीवितंच यथा महावीरस्येति, जीवितं चायुरेवेति, इह चसंयमायुषायशःकीर्त्यायुषाचाधिकार इति, एवं शेषपदाना यथासम्भवं निक्षेपो वाच्य इति॥
उक्तः सूत्रालापकनिष्पन्ननिक्षेपः, पदार्थः पुनरेवम्-इह किल सुधर्मस्वामी पञ्चमो गणधरदेवो जम्बूनामानं स्वशिष्यं प्रतिप्रतिपादयाञ्चकार-श्रुतम्-आकर्णितं 'मे' मया आउसं'ति आयुः-जीवितंतत्संयमप्रधानतयाप्रशस्तंप्रभूतंवा विद्यतेयस्यासावायुष्मांस्तस्यामन्त्रणंहेआयुष्मन -!-शिष्य! तेणं' तियः सन्निहितव्यवहितसूक्ष्मबादरबाह्याध्यात्मिकसकलपदार्थेष्वव्याहतवचनतयाऽऽप्तत्वेन जगति प्रतीतः अथवा पूर्वभवोपात्ततीर्थकरनामकर्मादिलक्षणपरमपुण्यप्राग्भारो विलीनानादिकालालीनमिथ्यादर्शनादिवासनः परिहतमहाराज्यो दिव्याधुपसर्गवर्गसंसर्गाविचलितशुभध्यानमार्गो भास्कर इव घनघातिकर्मघनाघनपटलविघटनोल्लसितविमलकेवलभानुमण्डलो विबुधपतिषट्पदपटलजुष्टपादपद्मोमध्यमाभिधानंपुरीप्रथमप्रवर्तितप्रवचनो जिनो महावीरस्तेन भगवता' अष्टमहाप्रातिहार्यरूपसमग्रैश्वर्यादियुक्तेन ‘एव'मित्यमुना वक्ष्यमाणेनैकत्वा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org