________________
१०
स्थानाङ्ग सूत्रम्-/-/
॥२॥ नामादि चउब्भेयं वन्नेऊणं सुआनुसारेणं ।
एगट्ठाणं जोजं चउसुंपि कमेण भावेसुं॥ तत्राध्यात्म-मनस्तत्रशुभेअयन-गमनंअर्थादात्मनो भवति यस्मादध्यात्मशब्दावाच्यस्य वामनसः शुभस्यआनयनमात्मनियतोभवतिबोधादीनांवाऽधिकामयनंयतो भवतितदज्झयणंति प्राकृतशैल्या भवतीति, आह च॥१॥ "जेण सुहप्पज्झयणं अज्झप्पानयनमहियमयनं वा ।
बोहस्स संजमस्स व मोक्खस्स व तो तमज्झयणं" ति, __ अधीयते वा-पठ्यते आधिक्येन स्मर्यते गम्यते वा तदित्यध्ययनमिति, तथा यद्दीयमानं न क्षीयते स्म तदक्षीणं, तथा ज्ञानादीनामायहेतुत्वादायः, तथा पापानां कर्मणां क्षपणहेतुत्वात् क्षपणेति, आह च.. ॥१॥ “अज्झीणं दिजंतं अव्वोच्छित्तिनयतो अलोगोव्व। .
. आओ नाणाईणं झवणा पावाण खवणंति" नामनिष्पनेतुनिक्षेपेअस्यैकस्थानकमिति नाम, तत एकशब्दस्य स्थानशब्दस्य च निक्षेपो वाच्यः, तत्र एकस्य नामादिः सप्तधा, तदुक्तम्॥१॥ “नामं १ ठवणा २ दविए ३ माउयपय ४ संगहेक्क ए चेव ५।
पज्जव ६ भावे य ७ तहा सत्तेते एक्क गा होति" तत्र नामैको यस्यैक इति नाम, स्थापनैकः पुस्तकादिन्यस्तैककाङ्कः, द्रव्यैकः सचित्तादिस्त्रिधा, मातृकापदैकस्तु उप्पनेइवा विगमेइवाधुवेइ वा;'इत्येष मातृकावत्सकलवाङ्मयमूलतया अवस्थितानामन्यतरद्विवक्षितम् अकाराद्यक्षरात्मिकायावा मातृकायाएकतरोऽकारादिः, संग्रहैको येनैकेनापिध्वनिनाबहवः सङ्गृह्यन्ते, यथा जातिप्राधान्येन व्रीहिरिति, पर्यायकः शिवकादिरेकः पर्यायो, भावैक औदयिकादिभावानामन्यतमो भाव इति, इह भावैकेन अधिकारो यतो गणनालक्षणस्थानविषयोऽयमेको गणनाच सङ्ख्या सङ्ख्याच गुणो गुणश्च भाव इति, स्थानस्यतु निक्षेप उक्त एव, तत्र च गणनास्थानेनेहाधिकारः, ततः एकलक्षणं स्थान-संख्याभेद एकस्थानं तद्विशिष्टजीवाद्यर्थप्रतिपादनपरमध्ययनमप्येकस्थानमिति, उक्तावोघनिष्पन्ननामनिष्पन्ननिक्षेपौ,
(स्थानः-१) सम्प्रतिसूत्रालापकनिष्पन्ननिक्षेपः प्राप्तावसरः, तत्स्वरूपंचेदम्-सूत्रालापकानां-सूत्रपदानां 'श्रुतं मे आयुष्मन्नि'त्यादीनां निक्षेपोनामादिन्यासः, स च अवसरप्राप्तोऽपि नोच्यते, सति सूत्रे तस्य संभवात्, सूत्रंच सूत्रानुगमे, सचानुगमभेद एवेत्यनुगमएव तावदुपवर्ण्यते-द्विविधोऽनुगमोनिर्युक्त्यनुगमः सूत्रानुगमश्च, तत्रआद्यो निक्षेपनियुक्त्युपोद्घातनियुक्तिसूत्रस्पर्शिकनियुक्त्यनुगमविधानतस्त्रिविधः, तत्र च निक्षेपनियुक्त्यनुगमः स्थानाङ्गाध्ययनाघेकशब्दानां निक्षेपप्रतिपादनादनुगत एवेति, उपोद्घातनिर्युक्त्यनुगमस्तु
'उद्देसे निद्देसे य निग्गमे' इत्यादिगाथाद्वयादवसेय इति, सूत्रस्पर्शिकनिर्युकत्यनुगमस्तु संहितादौ षड्विधे व्याख्यालक्षणे पदार्थपदविग्रहचालनाप्रत्यवस्थानलक्षणव्याख्यानभेदचतुष्टयस्वरूपः, स च सूत्रानुगमे संहितापदलक्षणव्याख्यानभेदद्वयलक्षणे सति भवतीत्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org