SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १२३ स्थानं-३, - उद्देशकः-१ ॥१॥ “महव्वय अणुव्वएहि य बालतवोऽकामनिज्जराए य । देवाउयं निबंधइ सम्मद्दिट्ठी यजो जीवो" ॥२॥ (तथा,) “पयईए तणुकसाओ दानरओ सीलसंजमविहूणो । मज्झिमगुणेहिं जुत्तो मनुयाउं बंधए जीवो" देवमनुष्यायुषी च शुभेइति । तथा भगवत्यां दानमुद्दिश्योक्तं-“समणोवासयस्सणं भंते !तहारूवं समणंवा २ फासुएसणिज्जेणं असण४ पडिलाभेमाणस्स किं कजइ?, गोयमा!, एगंतसो निजरा कज्जइ, नो से केइ पावे कम्मे कज्जइ २" इति, यच्च निर्जराकारणं तच्छुभदीर्घायु:कारणतयानविरुद्धं, महाव्रतवदिति।अनन्तरमायुषोदीर्घताकारणान्युक्तानि, तच्चशुभाशुभमिति तत्रादौ तावदशुभायुर्दीर्घताकारणान्याह_ 'तिही'त्यादि प्राग्वत्, नवरं अशुभदीर्घायुष्टाय इति नारकायुष्कायेति भावः, तथाहिअशुभंच तत्पापप्रकृतिरूपत्वात् दीर्घचतस्य जघन्यतोऽपि दशवर्षसहनस्थितिकत्वादुत्कृष्टतस्तु त्रयस्त्रिंशत्सागरोपमरूपत्वादशुभदीर्घ, तदेवंभूतमायुः-जीवितं यस्मात्कर्मणस्तदशुभदीर्घायुस्तद्भावस्तत्ता तस्यै तया वेति, प्राणान्-प्राणिन इत्यर्थोऽतिपातयिता भवति मृषावादं वक्ता भवति तथा श्रमणमशनादिना हीलनादि कृत्वा प्रतिलम्भयिता भवतीत्यक्षरघटना, हीलना तुजात्याधुघट्टनतो निन्दनंमनसा खिंसनंजनसमक्षंगर्हणंतत्समक्षअपमाननमनभ्युत्थानादिभिः, 'अन्यतरेण' बहूनांमध्ये एकतरेण, क्वचित्त्वन्यतरेणेतिनश्यते, अमनोज्ञेन' स्वरूपतोऽशोभनेन कदन्नादिनाऽतएवाप्रतीतिकारकेण, भक्तिमतस्त्वमनोज्ञमपिमनोज्ञमेव, तत्फलत्वाद्, आर्यचन्दनायाइव, आर्यचन्दनया हि कुल्माषाः सूर्पकोणकृता भगवतेमहावीरायपञ्चदिनोषाण्मासिकक्षपणपारणके दत्ताः, तदैव च तस्या लोहनिगडानि हेममयनूपुरै सम्पन्नौ केशाः पूर्ववदेव जाताः पञ्चवर्णविविधरलराशिभिहं भृतं सेन्द्रदेवदानवनरनायकैरभिनन्दिताकालेनावाप्तचारित्रा च सिद्धिसौधशिखरमुपगतेति, इहचसूत्रेऽशनादिप्रासुकाप्रासुकत्वादिनानविशेषितं, हीलनादिकर्तुः प्रासुकादिविशेषणस्यफलविशेषंप्रत्यकारणत्वात्, मत्सरजनितहीलनादिविशेषणानामेवप्रधानतया तत्कारणत्वादिति । प्राणातिपातमृषावादयोनिविशेषणपक्षव्याख्यानमपि घटत एव, अवज्ञादानेऽपि प्राणातिपातादेद्देश्यमानत्वादिति, भवति च प्राणातिपातादेर्नरकायुः, यदाह॥१॥ "मिच्छादिट्ठी महारंभपरिग्गहो तिव्वलोहनिस्सीलो। नरयाउयं निबंधइ पावमती रोद्दपरिणामो " इति। उक्तविपर्ययेनाधुनेतरदाह-'तिहिं ठाणेहिं'त्यादि पूर्ववत्, नवरं 'वन्दित्वा स्तुत्वा 'नमस्यित्वा' प्रणम्य सत्कारयित्वा वस्त्रादिना सन्मानयित्वा प्रतिपत्तिविशेषेण कल्याणं-समृद्धिः तद्वेतुत्वात् साधुरपिकल्याणमेवं मंगलं विघ्नक्षयस्तद्योगान्मङ्गलंदैवतमिव दैवतं चैत्यमिवजिनादिप्रतिमेव चैत्यं श्रमणं 'पर्युपास्य' उपसेव्येति, इहापि प्रासुकाप्रासुकतया दानं न विशेषितं, पूर्वसूत्रविपर्ययत्वादस्य, पूर्वसूत्रस्य चाविशेषणतया प्रवृत्तत्वादिति, न च प्रासुकाप्रासुकदानयोः फलं प्रति न विशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात्, तस्मादिह प्रासुकैषणीयस्य कल्पप्राप्तवितरस्यचेदंफलमवसेयं, अथवाभावप्रकर्षविशेषादनेषणीयस्यापीदंफलं न विरुध्यते, अचिन्त्यात्वाच्चित्तपरिणतेः, साहिबाह्यस्यानुगुणतयैवन फलानि साधयति, भरतादीनामिवेति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy