________________
स्थानाङ्ग सूत्रम् २/४/१११
वृ. 'क' इति प्रश्नार्थः, 'अय’मिति देशतः प्रत्यक्ष आसन्नश्च यत्र भगवता मरणादि प्रशस्ता प्रशस्तसमस्तवस्तुस्तोमतत्त्वमभ्यधायि, लोक्यत इति लोक इति प्रश्नः अस्य निर्वचनंजीवाश्चाजीवाश्चेति, पञ्चास्तिकायमयत्वाल्लोकस्य, तेषां च जीवाजीवरूपत्वादिति, उक्तं च “पंचत्थिकायमइयं लोगमणाइणिहणं जिणक्खायं 'ति । लोकस्वरूपभूतानां च जीवाजीवानां स्वरूपं प्रश्नपूर्वकेण सूत्रद्वयेनाह - 'के अनंते' त्यादि, के अनन्ताः लोके ? इति प्रश्नः, अन्नोत्तरंजीवा अजीवाश्चेति एत एव च शाश्वता द्रव्यार्थतयेति ॥ ये चैतेऽनन्ताः शाश्वताश्च जीवास्ते बोधिमोहलक्षणधर्मयोगाद्बुद्धा मूढाश्च भवन्तीतिदर्शनाय द्विस्थानकानुपातेन सूत्रचतुष्टयमाह -
मू. (११२) दुविहा बोधी पं० तं० - नाणबोधी चेव दंसणबोधी चेव, दुविहा बुद्धा पं० तं० - नाणबुद्धा चेव दंसणबुद्धा चेव, एवं मोहे, मूढा
वृ. 'दुविहे 'त्यादि, बोधनं बोधिः- जिनधर्मलाभः ज्ञानबोधिः- ज्ञानावरणक्षयोपशमसम्भूता ज्ञानप्राप्तिः, दर्शनबोधिः- दर्शमोहनीयक्षयोपशमादिसम्पन्नः श्रद्धानलाभ इति,
एतद्वन्तो द्विधा बुद्धाः एते च धर्मत एव भिन्ना न धर्मतया, ज्ञानदर्शनयोरन्योऽन्याविनाभूतत्वादिति, एवं 'मोहे मूढ' त्ति, यथा बोधिर्बुद्धाश्च द्विधोक्ताः तथा मोहो मूढाश्च वाच्या इति, तथाहि - 'मोहे दुविहे पन्नत्ते तं०-नाणमोहे चेव दंसणमोहे चेव ज्ञानं मोहयति-आच्छादयतीति ज्ञानमोहो- ज्ञानावरणोदयः, एवं 'दंसणमोहे चेव' सम्यग्दर्शनमोहोदय इति,
१०८
'दुविहा- मूढा पं० तं०-नाणमूढा चेव', 'ज्ञानमूढा' उदितज्ञानावरणाः 'दंसणमूढा चेव' दर्शनमूढा मिथ्याध्ष्टय इति । द्विविधोऽप्ययं मोहो ज्ञानावरणादिकर्मनिबन्धनमिति सम्बन्धेन ज्ञानावरणादिकर्मणामष्टाभिः सूत्रैर्द्धविध्यमाह -
मू. (११३) नाणावरणिजे कम्मे दुविहे पं० तं०- देसनाणावरणिज्जे चैव सव्वनाणावरणिजे चेव, दरिसणावरणिज्जे कम्मे एवं चेव, वेयणिज्जे कम्मे दुविहे पं० तं० - सातावेयणिज्जे चेव असातावेयणिज्जे चेव, मोहणिजे कम्मे दुविहे पं० तं० - दंसणमोहणिजे चेव चरित्तमोहणिजे चेव,
आउ कम्मे दुविहे पं० तं० - अद्धाउए चेव भवाउए चेव, नामे कम्मे दुविहे पन्नत्ते तं० सुभनामे चेव असुभनामे चेव, गोत्ते कम्मे दुविहे पं० तं० - उच्चागोते चेवं नीयागोते चेव, अंतराइय कम्मे दुविहे पं० तं० - पडुप्पन्नविणासिए चेव पिहितआगामिपहं ।
वृ. 'नाणे'त्यादि, सुगमानि चैतानि, नवरं ज्ञानमावृणोतीति ज्ञानावरणीयम्, आह च - “सरउग्गयससिनिम्मलयरस्स जीवस्स छायणं जमिह ।
11911
नाणावरणं कम्मं पडोवमं होइ एवं तु ॥"
देशं-ज्ञानस्याऽऽभिनिबोधिकादिमावृणोतीति देशज्ञानावरणीयम्, सर्वं ज्ञानं - केवलाख्यमावृणोतीति सर्वज्ञानावरणीयं, केवलावरणं हि आदित्यकल्पस्य केवलज्ञानरूपस्य जीवस्या - च्छादकतया सान्द्रमेघवृन्दकल्पमिति तत्सर्वज्ञानावरणं, मत्याद्यावरणं तु घनातिच्छादिदित्येषट्प्रभाकलप्सय केवलज्ञानदेशस्य कटकुट्यादिरूपावरणतुल्यमिति देशावरणमिति, पठ्यते च "केवलनाणावरणं १ दंसण छक्कंच मोहबारसगं ।
11911
ता सव्वघाइसन्ना भवंति मिच्छत्तवीसइमं ॥” ति,
अथवा देशोपघातिसर्वोपघातिफडुकापेक्षया देशसर्वावरणत्वमस्य, यदाह -
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org