________________
७८
सूत्रकृताङ्ग सूत्रम् १/२/२/१३२
वृ. उपदेशान्तरमाह-'छन्दः' अभिप्रायस्तेन तेन स्वकीयाभिप्रायेण कुगतिगमनैकहेतुना 'इमाः प्रजाः' अयं लोकस्तासु गतिषु प्रलीयते, तथाहि-छागादिवधमपि स्वाभिप्रायग्रहग्रस्ता धर्मसाधनमित्येवंप्रगल्भमाना विदधति, अन्येतु संघादिकमुद्दिश्य दासीदासधनधान्यादिपरिग्रहं कुर्वन्ति, तथाऽन्ये मायाप्रधानैः कुकुटैरसकृदुम्रोक्षणश्रोत्रस्पर्शनादिभिर्मुग्धजनं प्रतारयन्ति, ॥१॥ (तथाहि) 'कुक्कुटसाध्यो लोको नाकुक्कुटतः प्रवर्तते किञ्चित् ।
तस्माल्लोकस्यार्थे पितरमपि सकुक्कुटं कुर्यात् ॥ तथेयंप्रजा बहुमाया' कपटप्रधाना, किमिति?-यतो मोहः-अज्ञानं तेन 'प्रावृता' आच्छादिता सदसद्विवेकविकलेत्यर्थ, तदेतदवगम्य 'माहणे'त्तिसाधुः 'विकटेन' प्रकटेनामायेन कर्मणा मोक्षे संयमे वा प्रकर्षेण लीयते-प्रलीयते, शोभनभावयुक्तो भवतीति भावः, तथा शीतं च उष्णं चशीतोष्णंशीतोष्णा वा-अनुकूलप्रतिकूलपरीषहास्तान् वाचा कायेन मनसा च करणत्रयेणापि सम्यगधिसहेत इति । अपिचमू. (१३३) कुजए अपराजिए जहा, अक्खेहिं कुसलेहिं दीवयं ।
__ कडमेव गहाय नो कलिं, नो तीयं नो चेव दावरं ।।
वृ.कुत्सितोजयोऽस्येति कुजयो-द्यूतकारः, महतोऽपिङ्तजयस्य सद्भिर्निन्दितत्वादनहेतुत्वाच्च कुत्सितत्मिति, तमेव विशिनष्टिअपराजितो दीव्यन् कुशलत्वादन्येन न जीयते अक्षैः वा-पाशकैः दीव्यन्-क्रीडंस्तत्पातज्ञः कुशलो-निपुणः, यथा असौद्यूतकारोऽक्षैः-पाशकैः कपर्दकैर्वा रममाणः ‘कडमेव'त्तिचतुष्कमेव गृहीत्वा तल्लब्धजयत्वात्तेनैव दीव्यति, ततोऽसौ तल्लब्धजयः सन्न कलिं' एककं नापि त्रैतं' त्रिकं च नापि 'द्वापरं' द्विकं गृह्णातीति । मू. (१३४) एवं लोगंमिताइणा, बुइए जे धम्मे अनुत्तरे।
तंगिण्ह हियंति उत्तम, कडमिव सेसऽवहाय पंडिए । वृ. दार्शन्तिकमाह-यथा द्यूतकारः प्राप्तजयत्वात् सर्वोत्तमं दीव्यंश्चतुष्कमेव गृह्णाति एवमस्मिन् लोके' मनुष्यलोके तायिनात्रायिणावा-सर्वज्ञेनोक्तोयोऽयं 'धर्म' क्षान्त्यादिलक्षणः श्रुतचारित्राख्योवानास्योत्तरः-अधिकोऽस्तीत्यनुत्तरः तमेकान्तहितमितिकृत्वा सर्वोत्तमंच गृहाण' विनोतसिकार-हितः स्वीकुरु, पुनरपि निगमनार्थं तमेव दृष्टान्तं दर्शयति-यथा कश्चित्द्यूतकारः ‘कृतं' कृतयुगं चतुष्कमित्यर्थ, 'शेषम्' एककादि 'अपहाय' त्यक्त्वा दीव्यन् गृह्णाति, एवं पण्डितोऽपि-साधुरपिसेष-गृहस्थकुप्रावचनिकपार्श्वस्थादिभावमपहाय सम्पूर्ण महान्तं सर्वोत्तम धर्मं गृह्णीयादिति भावः ॥ पुनरप्युपदेशान्तरमाहमू. (१३५) उत्तर मणुयाण आहिया, गामधम्माइइ मे अनुस्सुयं ।
जंसी विरता समुट्ठिया, कासवस्स अनुधम्मचारिणो॥ वृ.उत्तराः-प्रधानाः दुर्जयत्वात्, केषाम् ? -उपदेशार्हत्वान्मनुष्याणाम्अन्यथा सर्वेषामेवेति, के ते?-'ग्रामधर्मा' शब्दादिविषया मैथुनरूपा वेति, एवं ग्रामधर्मा उत्तरत्वेन सर्वज्ञैराख्याताः, मयैतदनु-पश्चाच्छ्रुतं, एतच्च सर्वमेव प्रागुक्तं यच्च वक्ष्यमाणं तन्नाभेयेनाऽऽदितीर्थकृता पुत्रानुद्दिश्याभिहितंसत्पाश्चात्यगणधराःसुधर्मस्वामिप्रभृतयःस्वशिष्येभ्यः प्रतिपादयन्तिअतो मयैतदनुश्रुतमित्यनव्दंय, यस्मिन्निति-कर्मणिल्यब्लोपेपञ्चमी सप्तमी वेतियान् ग्रामधर्मानाश्रित्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org