SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशकः - २ मू. (१२८) उसिणोदगत्तभोइणो, धम्मट्ठियस्स मुनिस्सहीमतो । संसग्गि असाहुराइहिं, असमाहीउ तहागयस्सवि ।। वृ. किञ्च - मुनेः 'उष्णोदकतप्तभोजिनः ' त्रिदण्डोद्वृत्तोष्णोदकभोजनः, यदिवा - उष्णं सन्न शीतीकुर्यादिति तप्तग्रहणं, तथा श्रुतचारित्राख्ये धर्मे स्थितस्य ' हीमतो' त्ति ही :- असंयमं प्रति लज्जा तद्वतोऽसंयमजुगुप्सावत इत्यर्थः, तस्यैवम्भूतस्य मुने राजादिभिः सार्द्धंथः यः ‘'संसर्ग' सम्बन्धोऽ- सावसाधुः अनर्थोदयहेतुत्वात् ' तथागतस्यापि यथोक्तानुष्ठायिनोऽपि राजादिसंसर्गवशाद् ‘असमा-धिरेव' अपध्यानमेव स्यात्, न कदाचित् स्वाध्यायादिकं भवेदिति परिहार्यदोषप्रदर्शनेन अधुनोपदेशाभिधित्सयाऽऽह मू. (१२९ ) अहिगरणकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं । अट्ठे परिहायती बहु, अहिगरणं न करेज पंडिए ।। ७७ वृ. अधिकरणं-कलहस्तत्करोति तच्छीलश्चेत्यधिकरणकरः तस्यैवम्भूतस्य भिक्षोः तथाऽधिकरणकरीं दारुणां वा भयानकां वा 'प्रसह्य' प्रकटमेव वाचं ब्रुवतः सतः 'अर्थो' मोक्षः तत्कारणभूतो वा संयमः स बहु 'परिहीयते ' ध्वंसमुपयाति, इदमुक्तं भवति -बहुना कालेन यदर्जितं विप्रकृष्टेन तपसा महत्पुन्यं तत्कलहं कुर्वतः परोपधातिनीं च वाचं ब्रुवतः तत्क्षणमेव ध्वंसमुपयाति, (तथाहि-) जं अज्जियं समीखल्लएहिं तवनियमबंभ मइएहिं । माहुतयं कलहंता छड्डेअह सागप्तेहिं ॥ 119 11 इत्येवं मत्वा मनागप्यधिकरणं न कुर्यात् 'पण्डित' सदसदिववेकीति ।। मू. (१३०) सीओदग पडि दुगुंछिणो, अपडिन्नस्स लवावसप्पिणो । सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसनं न भुंजती ॥ वृ. तथा शीतोदकम् अप्रासुकोदकं तत्प्रतिजुगुप्सकस्या प्रासुकोदकपरिहारिणः साधोः न विद्यते प्रतिज्ञा निदानरूपा यस्य सोऽप्रतिज्ञोऽ निदान इत्यर्थः लवं कर्म तस्मात अवसप्पिणोत्तिअवसर्पिणः यदनुष्ठानं कर्मबन्धोपादानभूतं तत्परिहारिण इत्यर्थः तस्यैवम्भूतस्य साधोर्यस्मात् यत् 'सामायिकं' समभावलक्षणमाहुः सर्वज्ञाः यश्च साधुः 'गृहमात्रे' गृहस्थभाजने कांस्य पात्रादौ न भुङ्क्ते तस्य च सामायिकमाहुरिति सम्बन्धनीयमिति । किञ्च मू. (१३१) न य संखयमाहु जीवियं, तहविय बालजणो पगब्भइ । बाले पापेहिं मिज्जती, इति संखाय मुनी न मज्जती ॥ वृ. 'नच' नैव 'जीवितम्' आयुष्कं कालपर्यायेण त्रुटितं सत् पुनः 'संखय' मिति संस्कर्त्तुतन्तुवत्संधातुं शक्यते इत्येवमाहुस्तद्विदः, तथाऽपि एवमपि व्यवस्थिते 'बालः' अज्ञो जनः 'प्रगल्भते' पापं कुर्वन् धृष्टो भवति, असदनुष्ठानरतोऽपि न लज्जत इति, स चैवम्भूतो बालस्तैरसदनुष्ठानापादितैः 'पापैः कर्मभिः 'भीयते' तद्युक्त इत्येवं परिच्छिद्यते, भ्रियते वा मेयेन धान्यादिना प्रस्थकवदिति, एवं 'संख्याय' ज्ञात्वा 'मुनि' यथावस्थितपदार्थानां वेत्ता न माद्यतीति' तेष्वसदनुष्ठानेष्वहं शोभनः कर्त्तेत्येवं प्रगल्भमानो मदं न करोति । भू. (१३२) छंदेण पले इमा पया, बहुमाया मोहेण पाउडा । वियडेण पलिंति महणे, सीउण्हं वयसाऽहियासए ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy