________________
सूत्रकृताङ्ग सूत्रम् २/७/-/८०२ चोद्यानुत्थानमेव, अभ्युपगम्य च भवदीयं पक्षं युष्मदभ्युपगमेनैव परिहियते तदेव पराभिप्रायेण परिहरति-अस्त्यसौ पर्यायः स चायं भवदनिपायेण यदा सर्वेऽपि स्थावरासत्वं प्रतिपद्यन्ते यस्मिन्पर्याये-अवस्थाविशेषे श्रमणोपासकस्य कृतत्रसप्राणातिपातनिवृत्तेः सतः त्रसत्वेन च भवदभ्युपगमेन सर्वप्राणिनामुत्पत्तेः तैश्च सर्वप्राणिभिस्त्रसत्वेन भूतैः- उत्पन्नैः करणभूतैस्तेषु वा विषयभूतेषु दण्डो निक्षिप्तः परित्यक्तः, इदमुक्तं भवति यदा सर्वेऽपि स्थावराः भवदभिप्रायेण त्रसत्वेनोत्पद्यन्ते तदा सर्वप्राणिविषयं प्रत्याख्यानं श्रमणोपासकस्य भवतीति ।
एतदेव प्रश्नपूर्वकं दर्शयितुमाह-'कस्स णं हेउ' मित्यादि, सुगमं यावत्त्रसकाये समुत्पन्नानां स्थानमेतदघात्यम् - अघातार्हं, तत्र विरतिसद्भावादित्यभिप्रायः । ते च त्रसा नरकतिर्यङ्नरामरगतिभाजः सामान्यसंज्ञया प्राणिनोऽप्यभिधियन्ते, तथा विशेषसंज्ञया भयचलनोपेतत्वात्त्रसा अप्युच्यन्ते, तथा महान् कायः शरीरंयेषां ते महाकायाः, वैक्रियशरीरस्य योजनलक्षप्रमाणत्वादिति । तथा चिरस्थितिकाः त्रयस्त्रिंशत्सागरोपमपरिमाणत्वाद्भवस्थितेः, तथा ते प्राणिनस्त्रसा बहुतमा - भूयिष्ठायैः श्रमणोपासकस्य सुप्रत्याख्यानं भवति, त्रसानुद्दिश्य तेन प्रत्याख्यानस्य ग्रहणात् तदभ्युपगमेन च सर्वस्थावराणां त्रसत्वेनोत्पत्तेरतस्तेऽल्पतरकाः प्राणिनोयैः करणभूतैः श्रावकस्याप्रत्याख्यानं भवति, इदमुक्तं भवति - अल्पशब्दस्याभाववाचित्वान्न सन्त्येव ये येष्वप्रत्याख्यानमितीत्येवं पूर्वोक्तया नीत्या 'से' तस्य श्रमणोपासकस्य महतस्त्रसकायादुपशान्तस्य- उपरतस्य प्रतिविरतस्य सतः सुप्रत्याख्यानं भवतीति सम्बन्धः, तदेवं व्यवस्थिते णमिति वाक्यालङ्कारे यद्यूयंवदथान्यो वा कश्चित्तद्यथा-नास्त्यसावित्यादि सुगमं यावत् 'नोनेयाउए भवइ' त्ति ।
साम्प्रतं त्रसानां स्थावरपर्यायापन्नाना व्यापादनेनापि न व्रतभङ्गो भवतीत्यर्थस्य प्रसिद्धये दृष्टान्तत्रयमाह
मू. (८०३) भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा आउसंतो ! नियंठा इह खलु संतेगइया मणुस्सा भवंति, तेसिं च एवं वृत्तपुव्वं भवइ-जे इमे मुंडे भवित्ता आगाराओ अनगारिय पव्वइए, एसिं च णं आमरणंताए दंडे निक्खित्ते, जे इमे अगारमावसंति एएसि णं आमरणंताए दंडे नो निक्खित्ते, केई च णं समणा जाव वासाइं चउपंचमाई छट्टद्दसमाई अप्पयरो वा भुज्जयरो वा देसं दूईजित्ता अगारमावसेज्जा ?, हंतावसेज्जा, तस्स णं तं गारत्थं वहमाणस्स से पच्चक्खाणे भंगे भवइ ?, नो तिणट्टे समट्टे, एवमेव समणोवासगस्सवि तसेहं पाणेहिं दंडे निक्खित्ते, थावरेहिं पाणेहिं दंडे नो निक्खित्ते, तस्स णं तं थावरकायं वहमाणस्स से पच्चक्खाणे नो भंगे भवइ, से एवमायाणह ? नियंठा !, एवमायाणियव्वं ।
४५४
भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा आउसंतो नियंठा ! इह खलु गाहार्वइ वा गाहावइपुत्तो वा तहप्पगारेहिं कुलेहिं आगम्म धम्मंसवणवत्तियं उवसंकमेजा ?, हंता उवसंकमेज्जा, तेसिं च णं तहप्पगाराणं धम्मं आइक्खियव्वे ?, हंता आइक्खियव्वे, किं ते तहप्पगारं धम्मं सोच्चा निसम्म एवं वएज्जा-इणमेव निग्गंथं पावयणं सच्चं अनुत्तरं केवलियं पडिपुन्नं संसुद्धं नेयाउयं सल्लकत्तणं सिद्धिमग्गं मुत्तिमग्गं निज्जाणमग्गं निव्वाणमग्गं अवितहमसंदिद्धं पडिपन्नं संसुद्धं नेयाउयं सल्लकत्तणं सिद्धिमग्गं मुत्तिमग्गं निज्ज णमग्गं निव्वाणमग्गं अवितहमसंदिद्धं सव्वदुक्खप्पहीणमग्गं, एत्थं ठिया जीवा सिज्झति बुज्झंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंत करेति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा निसियामो तहा तुयट्टामो तहा भुंजामो तहा भासामो तहा अब्भुट्ठामो तहा उट्ठाए उट्ठेमोत्ति पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामोत्ति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org