________________
श्रुतस्कन्धः - २, अध्ययनं-७,
४४९
-
तथैवमेव सविशेषणप्रत्याख्यानप्ररुपणावसरे सामान्येन प्ररूपयन्ति, एवं च प्ररूपयन्तो न खलु तेश्रमणा वा निर्ग्रन्था वा यथार्थो भाषांभाषन्ते, अपित्यनुतापयतीत्यनुतापिका तां, तथाभूतांच खलु ते भाषां भाषन्ते, अन्यथाभाषणे ह्यपरेण जानता बोधितस्य सतोऽनुतापो भवतीत्यतोऽनुतापिकेत्युच्यत इति।
पुनरपि तेषां सविशेषणप्रत्याख्यानवतामुल्बणदोषोद्विभावयिषयाऽऽह-'अब्भाइक्खंती'त्यादि, तेहि सविशेषणप्रत्याख्यानवादिनोयथावस्थितं प्रत्याख्यानंददतः साधूनगृह्णतश्च श्रमणोपासकानभ्याख्यान्ति-अभूतदोषोद्भावनतोऽभ्याख्यानंददति । किंचान्यत्- 'जेहिंवि' इत्यादि, येष्वप्यन्येषु प्राणिषु भूतेषु जीवेषु सत्त्वेषु विषयभूतेषु विशिष्य ये संयमं कुर्वन्ति संयमयन्ति, तद्यथा-ब्राह्मणो न मया हन्तव्य इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा व्यवस्थितो भवति तद्वधे ब्राह्मणवध आपद्यते, भूतशब्दाविशेषणात्, तदेवं तान्यपि विशेषव्रतानि सूकरो मया न हन्तव्य इत्येवमादीनि ते भूतशब्दविशेषणवादिनोऽभ्याख्यान्ति-दूषयन्ति । किमित्यत आह-'कस्स ण'मित्यादि कस्माद्धेतोस्तदसद्भूतं दूषणं भवतीति?।
यस्मात्सांसारिकाः खलुप्राणाः परस्परजातिसंक्रमणभाजोयतस्ततसाःप्राणिनः स्थावरत्वेन प्रत्यायान्ति स्थावराश्च त्रसत्वेनेति । त्रसकायाच सर्वात्मना वसायुष्कं परित्यज्य स्थावरकाये तद्योग्यकर्मोपादानादुत्पद्यन्ते, तथा स्थावरकायाच्च तदायुष्कादिनाकर्मणा विमुच्यमानास्त्रसकाये समुत्पद्यन्ते, तेषां च त्रसकाये समुत्पन्नानां स्थानमेतत्त्रसकायाख्यमवात्यम्-अघाताह भवति, यस्मात्तेन श्रावकेण त्रसानुद्दिश्य स्थूलप्राणातिपातविरमणं कृतं, तस्य तीव्राध्यवसायोत्पादकवाल्लोकगर्हितत्वाचेति, तत्रासौ स्थूलप्राणातिपातानिवृत्तः, तनिवृत्त्याच त्रसस्थानमघात्यं वर्तते, स्थावरकायाच्चानिवृत्त इति तद्योग्यतया तत्स्थानं घात्यमिति । तदेवं भवदमिप्रायेण विशिष्टसत्त्वोद्देशेनापि प्राणातिपातनिवृत्ती कृतायामपरपर्यायापन्नं प्राणिनं व्यापादयतो व्रतभङ्गो भवति, ततश्चन कस्यचिदपि सम्यग्व्रतपालनं स्यादित्येवमभ्याख्यातम् असद्भूतदोषोद्भावनं भवन्तोददति।
यदपि भवद्भिर्वर्तमानकालविशेषणत्वेन किलायंभूतशब्द उपादीयतेअसावपिव्यामोहाय केवलमुपतिष्ठते, तथाहि-भूतशब्दोऽयमुपमानेऽपि वर्तते, तद्यथा-देवलोकभूतं नगरमिदं, न देवलोक एव, तथात्रापि त्रसभूतानां-त्रससशानामेव प्राणातिपातनिवृत्तिः कृता स्यात्, न तु
सानामिति, अथतादर्थंभूतशब्दोऽयं, यथा शीतीभूतमुदकं, शीतमित्यर्थ, एवं त्रसभूतास्त्रसत्वं प्राप्ताः, तथा च सतित्रसशब्देनैव गतार्थत्वात्पीनरुक्त्यं स्याद्, अथैवमपिस्थितेभूतशब्दोपादानं क्रियते, तथा च सत्यतिप्रसङ्गः स्यात्, तथाहि-क्षीरभूतविकृतेः प्रत्याख्यानं करोम्येवं धृतभूतं मे ददस्वैवं घटभूतः पटभूत इत्येवमादावप्यायोज्यमिति । तदेवं निरस्ते भूतशब्देसत्युदक आह
मू. (८००) सवार्य उदए पेढालपुत्ते भगवं गोयम एवं वयासी-कयरे खलु ते आउसंतो गोयमा! तुब्भे वयह तसा पाणा तसा आउ अन्नहा?, सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतोउदगा! जेतुब्भे वयह तसभूता पाणा तसा ते वयं वयामो तसा पाणा, जे वयं वयामो तसा पाणा ते तुब्भे वयह तसभूया पाणा, एए संति दुवे ठाणा तुल्ला एगट्ठा, किमाउसो! इमे भे सुप्पनीयतराए भवइ तसभूया पाणा तसा, इमे भेदुप्पनीयतराए भवइ-तसा पाणा तसा, ततो एगमाउसो! पडिक्कोसह एक अभिनंदह, अयंपि भेदो से नो नेआउए भवइ । 2/29]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org