________________
४३८
सूत्रकृताङ्ग सूत्रम् २/६/-/७८१
इत्यादि, वेदोक्तत्वान्नायं दोष इति चेत् नन्विदमभिहितमेव । 'नहिंस्यात्सर्वभूतानी' त्यतः पूर्वोत्तरविरोधः, तथा11911
“आततायिनमायान्तमपि वेदान्तगं रणे । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥
तथा 'शूद्रं हत्वा प्राणायामं जपेत् अपहसितं वा कुर्यात् यत्किञ्चिद्वा दद्यात्', तथा 'अनस्थिजन्तूनां शकटभरं मारयित्वा ब्राह्मणं भोजयेद्' इत्येवमादिका देशना विद्वज्जनमनांसि न रञ्जयतीत्यतोऽत्यर्थमसमञ्जसमिव लक्ष्यते युष्मद्दर्शनमिति । तदेवमार्द्रककुमारं निराकृतब्राह्मणविवादं भगवदन्तिकं गच्छन्तं द्दष्टवा एकदण्डिनोऽन्तराले एवोचुः, तद्यथा ।
आर्द्रकुमार ! शोभनं कृतं भवता यदेते सर्वारम्भप्रवृत्ता गृहस्थाः शब्दादिविषयपरायणाः पिशिताशनेने राक्षसकल्पा द्विजायतो निराकृताः, तत्साम्प्रतमस्मत्सिद्धान्तं शृणु श्रुत्वा चावधारय, तद्यथा- सत्त्वरजस्तमसां साम्यवस्था प्रकृतिः, प्रकृतेर्महां स्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकस्तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि, तथा चैतन्यं पुरुषस्य स्वरूपमित्येतत्त्वा- हतैरप्याश्रितम्, अतः पञ्चविंशतितत्त्वपरिज्ञाना- देव मोक्षावाप्तिरित्यतोऽस्मत्सिद्धान्त एव श्रेयान्नापर इति । मू. (७८३) दुहओवि धम्मंमि समुट्ठियामो, अस्सं सुट्ठिच्चा तह एसकालं । आयारसीले बुइएइ नाणी, न संपरायंमि विसेसमत्थि ॥
वृ. तथा न युष्मत्सिद्धान्तोऽतिदूरेण भिद्यत इत्येतद्दर्शयितुमाह-'दुहओऽवी 'त्यादि, योऽयमस्मद्धर्मो भवदीयश्चार्हतः स उभयरूपोऽपि कथञ्चित्समानः, तथाहि - युष्माकमपि जीवास्तित्वे सति पुण्यापबन्धमोक्षसद्भावो न लोकायतिकानामिव तदभावे प्रवृत्ति नापि बौद्धानामिव सर्वाधारभूतस्यान्तरात्मन एवाभावः, तथाऽस्माकमपि पञ्च यमाः अहिंसादयो भवतां च त एव पञ्च महाव्रतरूपाः, तथेन्द्रियनोइन्द्रियनियमोऽप्यावयोस्तुल्य एव, तदेवमुभयस्मिन्नपि धर्मे बहुसमाने सम्यगुत्थानोत्थिता यूयं वयं च तस्माद्धर्मे सुष्ठु स्थिताः पूर्वस्मिन काले वर्तमाने एष्ये च यथागृहीतप्रतिज्ञानिर्वोढारो ।
न पुरन्ये, यथा व्रतेश्वरयागविधानेन प्रव्रज्यां मुक्तवन्तो मुञ्चन्ति मोक्षन्ति चेति, तथाऽऽचारप्रधानं शीलमुक्तं यमनियमलक्षणं न फल्गु कल्ककुहकाजीवनरूपम् अथानन्तरं ज्ञानं च मोक्षाङ्गतयाऽभिहितं तच्च श्रुतज्ञान केवलाख्य च यथास्वभावयोर्दर्शने प्रसिद्धं, तथा संपर्य्यन्ते - स्वकर्मभिर्भ्राम्यन्ते प्राणिनो यस्मिन्स संपरायः - संसारस्तस्मिंश्चावयोर्न विशेषोऽस्ति, तथाहि-यथा भवतां कारणे कार्यं नैकान्तेनासदुत्पद्यते अस्माकमपि तथैव, द्रव्यात्मतया नित्यत्वं भवद्भिरप्याश्रितमेव, तथोत्पादविनाशावपि युष्मदभिप्रेतावाविर्भावतिरोभावाश्रयादस्माकमपीति पुनरपि त एवैकदण्डिनः सांसारिकजीवपदार्थसाम्यापादनायाहु:मू. (७८४) अव्वत्तरूवं पुरिसं महंतं, सनातनं अक्खयमव्वयं च । सव्वेसु भूतेसुवि सव्वतो से, चंदो व ताराहिं समत्तरुवे ॥
वृ. पुरि शयनात्पुरुषो जीवस्तं यथा भवन्तोऽभ्युपगतन्तस्तथा वयमपि, तमेव विशिनष्टिअमूर्त्तत्वादव्यक्तं रूपं स्वरूपमस्यासावव्यक्तरूपः तं करचरणशिरोग्रीवाद्यवयवतया स्वतोऽनवस्थानात्, तथा 'महान्तं' लोकव्यापिनं तथा 'सनातनं' शाश्वतं द्रव्यार्थतया नित्यं, नानाविधगतिसंभवेऽपि चैतन्यलक्षणात्मस्वरूपस्याप्रच्युतेः, तथा 'अक्षयं' केनचित्प्रदेशानां खण्डशः कर्तुमशक्यत्वात्, तथा 'अव्ययम्' अनन्तेनापि कालेनैकस्यापि तत्प्रदेशस्य व्ययाभावात्, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org