SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, अध्ययनं-६, ४२७ 'गर्हामो'जुगुप्सामो-न ह्यसावेकान्तो यथावस्थितत्त्वाविर्भावको भवतीति, एवं च व्यवस्थिते तत्त्वस्वरूपं वयमाचक्षाणान कंचिद्गमिः काणकुण्टोद्घट्टनादिप्रकारेण, केवलंस्वपरस्वरूपाविर्भावनं कुर्मो, न च वस्तुस्वरूपाविर्भावन परापवादः, तथा चोक्तम्॥१॥नेत्रनिरीक्ष्य विलकण्टककीटसर्पान्, सम्यक् पथा व्रजति तान्परिहत्य सर्वान् । ___ कुज्ञानकुश्रुतिकुमार्गकुष्टिदोषान्, सम्यग्विचारयत कोऽत्र परापवादः॥ इत्यादि । यदिवैकान्तवादिनामेव-अस्त्येव नित्यमेवानित्यमेव सामान्यमेव विशेषा एवेत्याद्यभ्युपगमवतामयं-परस्परगाँख्यो दोषो, नास्माकमनेकान्तवादिनां, सर्वस्यापिसदसदादेः कथञ्चिदभ्युपगमात् । एतदेवश्लोकपश्चार्द्धन दर्शयति-"स्वत' इति, स्वद्रव्यक्षेत्रकालभावैरस्ति, तथा 'परत' इति परद्रव्यादिभिनास्तीत्येवं पराभ्युपगभं दूषयन्तो गर्हामोऽन्यानेकान्तवादिनः, तत्स्वरूपनिरूपणतस्तु रागद्वेषविरहान्न किञ्चिद्गर्हाम इति स्थितम्।। मू. (७५०) न किंचि रूवेणऽभिधारयामो, सदिट्ठिमग्गंतु करेसु पाउं । मग्गे इमे किट्टिए आरिएहिं, अनुत्तरे सप्पुरिसेहिं अंजू ॥ वृ. एतदेव स्पष्टतरमाह-नकञ्चन श्रमणं ब्राह्मणं वा स्वरूपेण-जुगुप्सिताङ्गावयवोद्घट्टनेन जात्या तल्लिङ्गग्रहणोद्घट्टनेन वा 'अभिधारामो' गर्हणाबुद्धयोद्घट्टयामः, केवलं स्वदृष्टिमार्ग तदभ्युपगतं दर्शनं प्रादुष्कुर्मः प्रकाशयामः, तद्यथा॥१॥ ब्रह्मा लूनशिरा हरिईशि सरुग्व्यालुप्तशिश्नो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः। स्वाथोऽपि विसंस्थुलः खलु वपुः संस्थैरुपस्थैः कृतः, सन्मार्गस्खलवनाद्भवन्ति विपतः प्रायः प्रभूणामपि ।। इत्यादि । एतच्च तैरेव स्वागमे पापठ्यते वयं तु श्रोतारः केवलमिति । आर्द्रककुमार एव परपक्षं दूषयित्वा स्वपक्षसाधनार्थं श्लोकपश्चा?नाह-अयं मार्ग' पन्थाःसम्यग्दर्शनादिकः कीर्तितो' व्यावर्णितः, कैः ? आर्य सर्वज्ञैस्त्याज्यधर्मदूरवर्तिभिः, किंभूतो धर्मो ? नास्मादुत्तरः-प्रधानो विद्यत इत्यनुत्तरः पूर्वापराव्याहतत्वाद्यथावस्थितजीवादिपदार्थस्वरूपनिरूपणाञ्च, किंभूतैरायें? - सन्तश्चतेपुरुषाश्च सत्पुरुषास्तैश्चतुस्त्रिंशदतिशयोपेतैराविर्भूतसमस्तपदार्थाविर्भावकदिव्यज्ञानैः, किंभूतो मार्गो ? अंजू व्यक्तः निर्दोषत्वाप्रकटः ऋजुर्वा वक्रैकान्तपरित्यागादकुटिल इति । मू. (७५१) उद्धं अहेयं तिरियं दिसासु, तसा यजे थावर जे य पाणा। भूयाहिसंकाभिदुगुंछमाणा, नो गरहती वुसिमं किंचि लोए॥ वृ. पुनरपि सद्धर्मस्वरूपनिरूपणायाह-'उड्ढं अहेय'मित्यादि, ऊर्ध्वमघस्तिर्यक्ष्वेवं सर्वास्वपि दिक्षुप्रज्ञापकापेक्षया भावदिगपेक्षया वातासुये वसा ये च स्थावराःप्राणिनः चशब्दो स्वगतानेकभेदसंसूचकी, 'भूतं' सद्भूतं तथ्यं तत्राभिशङ्कया-तथ्यनिर्णयेन प्राणातिपातादिकं पातकं जुगुप्समानो गर्हमाणो वा यदिवा भूताभिशङ्कया प्राण्युपमर्दशङ्कया सर्वसावधमनुष्ठानं जुगुप्समानोनैवापरलोकंकञ्चन गर्हति' निन्दति बुसिमंतिसंयमवानिति।तदेवंरागद्वेषवियुक्तस्य वस्तुरूपाविर्भवने न काचिद्गति, अथ तत्रापि गर्दा भवति न त ष्णोऽग्निः शीतमुदकं विषं मारणात्मकमित्येवमादि किञ्चिद्वस्तुस्वरूपमाविर्भावनीयमिति । स एवं गोशालकमतानुसारी त्रैराशिको निराकृतो पुनरन्येन प्रकारेणाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy