________________
३८
सूत्रकृताङ्ग सूत्रम् १/१/२/३० __ वृ. यत् तैः प्राणिभिरनुभूयते सुखं दुःखं स्थानविलोपनं वा न तत् ‘स्वयम्' आत्मना पुरुषकारेण कृतं' निष्पादितं दुःखमिति कारणे कार्योपचारात् दुःखकारणमेवोक्तम्, अस्य चोपलक्षणत्वात् सुखाद्यपि ग्राह्य, ततश्चेदमुक्तं भवति-योऽयं सुखदुःखानुभवः स पुरुषकारकृतकारणजन्यो न भवतीति, तथा कुतः ‘अन्येन' कालेश्वरस्वभावकर्मादिना च कृतं भवेत् 'ण'मित्यलङ्कारे तथाहि-यदि पुरुषकारकृतं सुखाद्यनुभूयेत ततः सेवकवणिक्कर्षकादीनां समानेपुरुषाकारेसति फलप्राप्तिवैसद्दश्यंफलाप्राप्तिश्चन भवेत्, कस्यचित्तुसेवादिव्यापाराभावेऽपि विशिष्टफलावातिदृश्यत इति, अतोन पुरुषकारात्किञ्चिदासाद्यते, किं तर्हि ?,
नियतेरेवेति, एतञ्च द्वितीयश्लोकान्तेऽभिधास्यतेनापिकालः कर्ता, तस्यैकरूपत्वाज्जगति फलवैचित्र्यानुपपत्तेः, कारणभेदे हि कार्यभेदो भवति नाभेदे, तथाहि-अयमेव हि भेदो भेदहेतुर्वा घटते यदुत विरुद्धधर्माध्यासः कारणभेदश्च, तथेश्वरकर्तृकेऽपिसुखदुःखेन भवतः,यतोऽसावीश्वरो भूर्तोऽभूतॊ वा?, यदि मूर्तस्ततः प्राकृतपुरुषस्येव सर्वकर्तृत्वाभावः, अथामूर्तस्तथा सत्याकाशस्येव सुतरां निष्क्रियत्वम्, अपिच- ।
__ यद्यसौरागादिमांस्ततोऽस्मदाद्यव्यतिरेकाद्विश्वस्याकतॆव, अथासौ विगतरागस्ततस्तत्कृतं सुभगदुर्भगेश्वरदरिद्रादि जगद्वैचित्र्यं न घटां प्राञ्चति, ततो नेश्वरः कर्तेति, तथा स्वभावस्यापि सुखदुःकादिकर्तृत्वानुपपत्ति, यतोऽसौ स्वभावः पुरुषाद्भिन्नोऽभिन्नोवा?, यदि भिन्नोनपुरुषाश्रिते सुखदुःखे कर्तुमलं, तस्माद्भिन्नत्वादिति, नाप्यभिन्नः अभेदेपुरुषएव स्यात्, तस्य चाकर्तुत्वमुक्तमेव नापि कर्मणः सुखदुःखं प्रति कर्तृत्वं घटते, यतस्तत्कर्म पुरुषादिमिमभिन्नं वा भवेत् ?, अभिन्नं चेत्पुरुषमात्रतापत्ति कर्मणः, तत्र चोक्तो दोषः, अथ भिन्नं तत्किं सचेतनमचेतनं वा?, यदि सचेतनमेकस्मिन् काये चैतन्यद्वयापत्ति, अथाचेतनं तथा सति कुतस्तस्य पाषाणखण्डस्येवास्वतन्त्रस्य सुखदुःखोत्पादनंप्रति कर्तृत्वमिति, एतच्चोत्तरत्र व्यासेनप्रतिपादयिष्यत इत्यलं प्रसङ्गेन तदेवं सुखं 'सैद्धिकं' सिद्धौ-अपवर्गलक्षणायां भवं यदिवा दुःखम्-असातोदयलक्षणमसैद्धिकं सांसारिकं । यदिवा उभयमप्येतत्सुखं दुःखं वा, स्रक्चन्दनाङ्गनाथुपभोगक्रियासिद्धौ भवं तथा कशाताडनाङ्कनादिसिद्धौ भवं सैद्धिकं, तथा 'असैद्धिकं' सुखमान्तरमानन्दरूपमाकस्मिकमनवधारितबाह्यनिमित्तम् एवं दुःखमपि ज्वरशिरोऽर्तिशूलादिरूपमङ्गोत्थमसैद्धिक। ___ -तदेवदुभयमपिनस्वयं पुरुषकारेण कृतंनाप्यन्येन केनचित् कालादिना कृतं 'वेदयन्ति' अनुभवन्ति पृथक्जीवाः' प्राणिन इति । कथं तर्हि तत्तेषामभूत् ? इति नियतिवादी स्वाभिप्रायमाविष्करोति-“संगइयंति" सम्यक्खपरिणामेन गति- यस्य यदा यत्र यत्सुखदुःखानुभवनं सा संगति-नियतिस्तस्यां भवं सांगतिकं, यतश्चैवं न पुरुषकारादिकृतं सुखदुःखादि अतस्तत्तेषां प्राणिनां नियतिकृतं सांगतिकमित्युच्ये, ‘इह' अस्मिन् सुखदुःखानुभववादे एकेषां वादिनाम् 'आख्यातं' तेषामयमभ्युपगमः, तथा चोक्तम् - ॥१॥"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थ, सोऽवश्यं भवति नृणां शुभोऽशुभो वा।
भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ एवं श्लोकद्वयेन नियतिवादिमतमुपन्यस्यास्योत्तरदानायाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org