________________
श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक: - २
-: अध्ययनं-१ उद्देशकः-२ :
वृ. उक्तः प्रथमोद्देशकस्तदनुद्वितीयोऽभिधीयते, तस्य चायमभिसंबन्धः इहानन्तरोद्देशके स्वसमयपरसमयप्ररूपणा कृता, इहाप्यध्ययनार्थाधिकारत्वात्सैवाभिधीयते, यदिवाऽनन्तरोद्देशके भूतवादादिमतं प्रदर्श्य तन्निराकरणं कृतं तदिहापि तदवशिष्टनियतिवाद्यादिमिध्याध्ष्टिमतान्युपदर्श्य निराक्रियन्ते । अथवा प्रागुद्देशकेऽभ्यधायि यथा 'बंधनं बुध्येत तच्च त्रोटयेदिति' तदेव च बन्धनं नियतिवाद्यभिप्रायेण न विद्यत इति प्रदर्श्यतेतदेवमनेकसंबंधेनायातस्यास्योद्देशकस्य चत्वार्युनुयोगद्वाराणि व्यावर्ण्य सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्मू. (२८) आधायं पुण एगेसिं, उववण्णा पुढो जिया । वेदयंति सुहं दुक्खं, अदुवा लुप्पंति ठाणउ ॥
वृ. अस्य चानन्तरपरम्परसूत्रैः संबन्धो वक्तव्यः, तत्राननतरसूत्रसाब धोऽयम्-इहानन्तरसूत्रे इदमभिहितं यथा 'पञ्चभूतस्कन्धादिवादिनो मिथ्यात्वोपहतान्तरात्मानोऽसद्ग्रहाभिनिविष्टाः परमार्थावबोधविकलाः सन्तः संसारचक्रवाले व्याधिमृत्युजराकुले उच्चावचानि स्थानानि गछन्तो गर्भमेष्यन्त्यन्वेषयन्ति वाऽनन्तश' इति, तदिहापि नियत्यज्ञानिज्ञानचतुर्विधकर्मापचयवादिनां तदेव संसारचक्रवालभ्रमणगर्भान्वेषणं प्रतिपाद्यते । परम्परसूत्रं तु 'बुज्झेझे' त्यादि, तेन च सहायं संबन्धः । तत्र बुध्येतेत्येतत् प्रतिपादितम्, इहापि यदाख्यातं नियतिवादिभिस्तद्बुध्येत, इत्येवं मध्यसूत्रैरपि यथासंभवं सम्बन्धो लगनीय इति तदेवं पूर्वोत्तरसंबन्धसंबद्धस्यास्य सूत्रस्याधुनाऽर्थ प्रतन्यते-पुनःशब्दः पूर्ववादिभ्यो विशेषं दर्शयति, नियतिवादिनां पुनरेकेषामेतदाख्यातं, अत्र च 'अविवक्षितकर्मका अपि अकर्मका भवन्ती'ति ख्यातेर्धातोर्भावे निष्ठाप्रत्ययः तद्योगे कर्तरि षष्ठी ततश्चायमर्थ-तैर्नियतिवादिभि पुनरिदमाख्यातं, तेषामयमाशय इत्यर्थः, तद्यथा -
'उपपन्ना' युक्त्या घटमानका इति, अनेन च पञ्चभूततज्जीवतच्छरीरवादिमतमपाकृतं भवति, युक्तिस्तु लेशतः प्राग्दर्शितैव प्रदर्शयिष्यते च पृथक् पृथक् नारकादिभवेषु शरीरेषु वेति, अनेनाप्यात्माद्वैतवादिनिरासोऽवसेयः, के पुनस्ते पृथगुपपन्नाः ?, तदाह- 'जीवाः' प्राणिनः सुख-दुःखभोगिनः, अनेन च पञ्चस्कन्धातिरिक्तजीवाभावप्रतिपादक बौद्धमतापक्षेपः कृतो द्रष्टव्यः, तथा ते जीवाः 'पृथक् पृथक् प्रत्येकदेहे व्यवस्थिताः सुखं दुःखं च 'वेदयन्ति' अनुभवन्ति, न वयं प्रतिप्राणि प्रतीतं सुखदुःखानुभवं निहुमहे, अनेन चाकर्तृवादिनो निरस्ता भवन्ति, अकर्तर्यविकारिण्यात्मनि सुखदुःखानुभवानुपपत्तेरिति भावः ।
तथैतदस्माभिर्नापलप्यते 'अदुवे' ति अथवा ते प्राणिनः सुखं दुःखं चानुभवन्ति, 'विलुप्यन्ते' उच्छिद्यन्ते स्वायुषः प्रच्याव्यन्ते स्थानात्स्थानान्तरं संक्राम्यन्त इत्यर्थः, ततश्चौपपातिकत्वमप्यस्माभिस्तेषां न निषिध्यते इति श्लोकार्थः तदेवं पञ्चभूतास्तित्वादिवादिनिरासं कृत्वा यत्तैर्नियतिवादिभिराश्रीयते तच्छ्लोकद्वयेन दर्शयितुमाह
मू. (२९)
मू. (३०)
Jain Education International
३७
न तं सयं कडं दुक्खं, कओ अन्नकडं च णं । सुहं वा जइ वा दुक्खं, सेहियं वा असेहियं ॥ सयं कडं न अन्नेहिं, वेदयंति पुढो जिया । संगइअं तं तहा तेसिं, इहमेगेसि आहिअं ॥
For Private & Personal Use Only
www.jainelibrary.org