________________
श्रुतस्कन्धः -२, अध्ययनं-३,
३७५
अपिच-यो जिने सातोदयस्तीव्रः किमसौ प्रचुरपुद्गलोदय नेति ?, अतो यत्किञ्चिदेतदिति । तदेवंसातोदयवदसातोदयोऽपि केवलिन्यनिवारित इति, तयोरन्तर्मुहूर्तकालेन परिवर्तनत्वात्। यदपि क्वचित्कैश्चिदमिधीयते विपच्यमानतीर्थकरनाम्नो देवस्य च्यवनकाले षण्मासकालं यावदत्यन्तं सातोदय एवेत्यसावपि यदि स्वान्न नो बाधायै, केवलिना मुक्तेननिवारित्वात्।
यदप्युच्यते-आहारविषयाकाङ्क्षारूपाक्षुद्भवति, अभिकाङ्क्षानचाहारपरिगरहबुद्धिः, साचमोहनीयविकारः, तस्य चापगतत्वात्केवलिनोनभुक्तिरिति, एतदप्यसमीचीन, यतो मोहनीयविपाका क्षुन भवति, तद्विपाकस्य प्रतिपक्षभावनया प्रतिसंख्यानेन निवर्त्यमानत्वात्, तथाहिकषायाः प्रतिकूलभावनया निवर्त्यन्ते, तथा चोक्तम्॥१॥ “उवसमेण हणे कोहं, माण मद्दवया जिणे।
मायंचऽज्जवभावेण, लोभं संतुट्ठिए जिणे॥ मिथ्यात्वसम्यक्त्वयोश्चपरस्परनिवृत्तिर्भावनाकृता प्रतीतैव, वेदोदयोऽपि विपरीतभावनया निवर्तते, तदुक्तम्॥१॥ “काम ! जानामि ते मूलं, संकल्पास्किल जायसे।
ततस्तं न करिष्यामि, ततो मे न भविष्यसि ॥ हास्यादिषट्कमपि चेतोकाररूपतया प्रतिसंख्यानेन निवर्तते, क्षुद्वेदनीयं तु रोमशीतोष्मादिवजीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण निवर्ततेऽतो न मोहविपाकस्वभावा क्षुदिति। तदेवं व्यवस्थिते यत्कैश्चिदाग्रहगृहीतैरभिधीयते, यथा। ॥१॥ “अपवर्त्यतेऽकृतार्थं नायुर्ज्ञानादयो न हीयन्ते ।
जगदुपकृतावनन्तं वीर्यं किंगततृषो मुक्तिः ? ॥ तदेतत् प्लवते, यतच्छद्मस्थावस्थायामप्येतदस्तीति तत्रापि किमिति मुके ?, तत्र समस्तवीर्यान्तरायक्षयाभावान्मुक्तिसद्भावइतिचेत्, तदयुक्तं, यतः किं तत्रायुषोऽपवर्तनं स्यात् किंवाचतुर्णांज्ञानानां काचिद्वानिःस्यायेन भुक्तिरिति, तस्माद्यथादीर्घकालस्थितेरायुष्कंकारणमेवमाहारोऽपि।यथा सिद्धिगतेयुपरतक्रियस्य ध्यानस्य चरमक्षणःकारणमेवंसम्यक्त्वादिकमपीति अनन्तवीर्यतापि तस्याहारग्रहणे सतिन विरुध्यते, यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमननिषीदनानिचभवन्त्येवमाहारक्रियापि,विरोधाभावात, नपत्र बलवत्तरवीर्यवतोऽल्पीयसी क्षुदिति, एवंस स्थिते यत्किञ्चिदेतत्।। ____ अपिच-एकादशपरीषहा वेदनीयकृता जिनेप्रादुष्यन्ति, अपरेतुएकादशज्ञानावरणीयादिकृतास्तत्क्षयेऽपगता इतीयमम्युपपत्ति केवलिनि भुक्ति साधयति, तथाहि-क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्री चयनिषद्याशय्याऽऽक्रोशवधयाञ्चालाभरोगतृणस्पर्शमल सत्कारपुरस्कारप्रज्ञाज्ञानदर्शनानीत्येते द्वाविंशतिर्मुमुक्षुणा परिसोढव्याः परिषहाः तेषां च मध्ये ज्ञानावरणीयोत्यौप्रज्ञाज्ञानाख्यौ, दर्शनमोहनीयसंभवो दर्शनपरिषहः, अन्तरायोत्थोऽलाभपरिषहः, चारित्रमोहनीयसंभूतास्त्वमी-नाग्न्यारतिस्त्रीनिषद्याऽऽक्रोशयाञ्चासत्कारपुरस्काराः, एते चैकादशापि जिने केवलिनि न संभवन्ति, तत्कारणानां कर्मणामपगतत्वात्, न हि कारणाभावे क्वचित्कार्योपपत्ति, शेषास्त्वेकादश जिने संभवन्ति, तत्कारणस्य वेदनीयस्य विद्यमानत्वात्, ते चामी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org