SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग सूत्रम् २/३/-/ ६७४ / नि. [ १७५] चतुर्विग्रहपञ्चसमयोत्पत्तिस्तु स्वल्पस - त्त्वाश्रितेति न साक्षादुपात्ता, तथा चान्यत्राप्यभिहितम्"एकं द्वौ वाऽनाहारकः " वाशब्दात् त्रीन् वा, आनुपूर्व्या अप्युदय उत्कृष्टतो विग्रहगती चतुरः समयानागमेऽभिहितः, ते च पञ्चसमयोत्पत्तौ लभ्यन्ते नान्यत्रेति । भवस्थकेवलिनस्तु समुद्घाते मन्थे तत्करणोपसंहारावसरे तृतीयपञ्चमसमयौ द्वौ लोकपूरणाच्चतुर्थसमयेन सहितायः समया भवन्तीति । नि. [१७६ ] ३७४ अंतमुत्तमद्धं सेलेसीए भवे अनाहारा । सादीयमनिहणं पुन सिद्धा यऽनहारगा होंति ।। वृ. पुनरपि नियुक्तिकारः सादिकमपर्यवसानं कालमनाहारकत्वं दर्शयितुमाहशैलेश्यवस्थाया आरम्भय सर्वदाऽनाहारकः सिद्धावस्थाप्राप्तावनन्तमपि कालं यावदिति, पूर्वं तु कावलिकव्यतिरेकेण प्रतिसमयमाहारकः कावलिकेन तु कादाचित्क इति । ननु केवलिनो घातिकर्मक्षयेऽनन्तवीर्यत्वान्न भवत्येव कावलिक आहारः, तथाहि - आहारादाने यानि वेदनादीनि षट् कारणान्यभिहितानि तेषां मध्ये एकमपि न विद्यते केवलिनि तत्कथमसावाहारं बहुदोषदुष्टं गृह्णीयात् ?, तत्र न तावत्तस्य वेदनोत्पद्यते, तद्वेदनीयस्य दग्धरज्जुस्थानिकत्वात्, सत्यामपि न तस्य तत्कृता पीडा, अनन्तवीर्यत्वात्, वैयावृत्यकारणं तु भगवति सुरासुरनराधिपतिपूज्ये न संभाव्यत एवेति । - ईर्यापथः पुनः केवलज्ञानावरणपरिक्षयात्सम्यगवलोकयत्येवासी, संयमस्तु तस्य यथाख्यातचारित्रिणो निष्ठितार्थत्वान्नाहार ग्रहणाय कारणीभवति, प्राणवृत्तिस्तु तस्यानपवर्तित्वात् आयुषोऽनन्तवीर्यत्वाच्चान्यथा सिद्धैव, धर्मचिन्तावसरस्त्वपगतो निष्ठितार्थत्वात्, तदेवं केवलिनः कावलिकाहारो बह्नपायत्वान्न कथञ्चिद् घटत इति स्थितम्, अत्रोच्यते, तत्र यत्तावदुक्तं ‘घातिकर्मक्षयेकेवलज्ञानोत्पत्तावनन्तवीर्यत्वान्न केवलिनो भुक्ति' रिति, तदागमानभिज्ञस्य तत्त्वविचाररहितस्य युक्तिहृदयमजानतो वचनं, तथा हि-यदाहारनिमित्तं वेदनीयं कर्म तत्तस्य तथैवाSSस्ते, किमिति सा शारीरी स्थितिः प्राक्तनी न भवति ? प्रमाणं च-अस्ति केवलिनो भुक्तिः, समग्रसामग्रीकत्वात्पूर्वभुक्तिवत्, सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा-पर्याप्तत्वं १ वेदनीयोदयः २ आहारपक्तिनिमित्तं तैजसशरीरं ३ दीर्घायुष्कत्वं ४ चेति, तानि च समस्तान्यपि केवलिनि सन्ति, यदपि दग्धरज्जुसंस्थानिकत्वमुच्यते वेदनीयस्य तदप्यनागमिकमयुक्तिसंगतं च, आगमे ह्यत्यन्तोदयः सातस्य केवलिन्यभिधीयते, युक्तिरपियदि घातिकर्मक्षयाज्ज्ञानादयस्तस्याभूवन् वेदनीयोद्भवायाः क्षुधः किमायातं ? येनासीन भवति, न तयोश्चायातपयोरिव सहानवस्थानलक्षणो नापि भावाभावयोरिव परस्परपरिहारलक्षणः कश्चिद्विरोधोऽस्तीति, सातासातयोश्चान्तर्मुहूर्तपरिवर्तमानतया यथा सातोदय एवमसातोदयोऽपीत्यनन्तवीर्यत्वे सत्यपि शरीरबलापचयः क्षुद्वेदनीयोद्भवा पीडा च भवत्येव, न चाहारग्रहणे तस्य किंचित्क्षीयते, केवलमाहोपुरुषिकामात्रमेवेति । यदप्युच्यते वेदनीयस्योदीरणाया अभावाप्रभूततरपुद्गलोदयाभावस्तदभावाञ्चात्यन्तं वेदनीयपीडाऽभावइति वाङ्ङ्गात्रं, तथाहि अविरतसम्यग्ध्ष्टयादिष्वेकादशसु स्थानकेषु वेदनीयस्य गुणश्रेणी सद्भावात्प्रभूतपुद्गलोदयसद्भावः ततः किं तेषु प्राक्तनेभ्योऽधिकपीडासद्भाव इति, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy