SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, अध्ययनं-२, ३५९ संहरति-ये चान्ये तथाप्रकाराः परपीडाकारिणः सावद्याः कर्मसमारम्भा अबोधिकाः-बोध्यभावकारिणःतथा परप्राण-परितापनकरा-गोग्राहबन्दिग्रहग्रामघातात्मकायेऽनार्यै क्रूरकर्मभिः क्रियन्ते ततोऽप्रतिविरता यावज्जीवयेति। पुनरन्यथा बहुप्रकारमधार्मिकपदंप्रतिपिपादयिषुराह-'तद्यथे' -त्युपप्रदर्शनार्थो नामशब्दः संभावनायां, संभाव्यते अस्मिन्विचित्रे संसारे केचनैवंभूताः पुरुषाः ये कलममसूरतिलमुद्गादिषु पचनपाचनादिकया क्रियया स्वपरार्थमयता-अप्रयलवन्तो निष्कृपाः क्रूरा मिथ्यादण्डं प्रयुञ्जन्ति, मिथ्यैव-अनपराधिष्वेव दोषमारोप्य दण्डो मिथ्यादण्डस्तं विदधति, तथैवमेव-प्रयोजनं विनैव तथाप्रकाराः पुरुषा निष्करुणा जीवोपघातनिरतास्तित्तिरवर्तकलावकादिषु जीवनप्रियेषु प्राणिप्वयताः क्रूरकर्माणो मिथ्यादण्डं प्रयुञ्जन्ति । तेषां च क्रूरधियां “यथा राजा तथा प्रजा" इति प्रवादात् परिवारोऽपि तथाभूत एव भवतीति तथा दर्शयितुमाह-'जावि य से' इत्यादि, याऽपि च तेषांबाह्या पर्षद्भवति, तद्यथा-'दासः' स्वदासीसुतः 'प्रेष्यः' प्रेषणयोग्यो भृत्यदेश्यो 'भृतको' वेतनेनोदकाद्यानयनविधायी तथा भागिको' यः षष्ठांशादिलाभेन कृष्यादौ व्याप्रियते 'कर्मकरः' प्रतीतः तथानायकाश्रितः कश्चिद्भोगपरः, तदेवं ते दासादयोऽन्यस्य लघावप्यपराधे गुरुतरं दण्डं प्रयुञ्जन्ति प्रयोजयन्ति च । __सच नायकस्तेषां दासादीनां बाह्यपर्षद्भूतानामन्यतरस्मिंस्तथा लघावप्यपराधे-शब्दाश्रवणादिके गुरुतरं दण्डं वक्ष्यमाणं प्रयुङ्कते तद्यथा-इमं दासं प्रेष्यादिकं वा सर्वस्वापहारेण दण्डयत यूयमित्यादि सूत्रसिद्धं यावदिममन्यतरेणाशुभेन कुत्सितमारेण व्यापादयत यूयम् ॥ याऽपिच क्रूरकर्मवतामभ्यन्तरापर्षद्भवति, तद्यथा-मातापित्रादिका, मित्रदोषप्रत्ययिकक्रियास्थानवद् नेयं यावदहितोऽयमस्मिन् लोके इति, तथा हि आत्मनोऽपथ्यकारी परस्मिन्नपिलोके, तदेवं ते मातापित्रादीनां स्वल्पापराधिनामपि गुरुतरदण्डापादनतो दुःखमुत्पादयन्ति, तथा नानाविधैरुपायैस्तेषां शोकमुत्पादयन्ति-शोकयन्तीत्येवं ते प्राणिनां बहुप्रकारपीडोत्पादकाः यावद्वधबन्धपरिक्लेशादप्रतिविरता भवन्ति । तेच विषयासक्ततयाएतत्कुर्वन्तीत्येतद्दर्शयितुमाह-एवमेवपूर्वोक्तस्वभावाएवंतेनिष्कृपा निरनुक्रोशा बाह्याभ्यन्तरपर्षदोरपि कर्णनासाविकर्तनादिना दण्डपातनस्वभावाः स्त्रीप्रधानाः कामाः स्त्रीकामाः यदिवा स्त्रीषु-मदनकामविषयभूतासु कामेषु च - शब्दादिषु इच्छाकामेषु मूर्छिता गृद्धा ग्रथिता अध्युपपन्नाः, एतेच शक्रपुरन्दरादिवत्पर्यायाः कथञ्चिद्भेदं वाऽऽश्रित्य व्याख्येयः, तेच भोगासक्ता व्यपगतपरलोकाध्यवसाया यावद्वर्षाणि चतुःपञ्च षट् सप्त वा दश वाऽल्पतरंवा कालंप्रभूततरंवा कालं भुक्त्वा भोगभोगान्इन्द्रियानुकूलान् मधुमद्यमांसरदारासेवनरूपान् भोगासक्ततयाच परपीडोत्पादनतो वैरायतनानि वैरानुबन्धानअनुप्रसूय-उत्पाद्य विधाय तथा 'संचयित्वा' संचिन्त्योपचित्य 'बहूनि' प्रभूततरकालस्थितिकानि 'क्रूराणि' क्रूरविपाकानि नरकादिषुयातनास्थानेषु क्रकचपाटनशाल्मल्यवरोहणतप्तत्रपुपानात्मकानिकर्माण्यष्टप्रकाराणि बद्धस्पृष्टनिधत्तनिकाचनावस्थानि विधाय तेन च संभारकृतेन कर्मणा प्रेर्यमाणास्तत्कर्मगुरवो वानरकतलप्रतिष्ठाना भवन्तीत्युत्तरक्रिययाऽऽपादितबहुवचनरूपयेति सम्बन्धः । अस्मिन्नेवार्थे सर्वलोकप्रतीतं दृष्टान्तमाह - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy