________________
३५८
सूत्रकृताङ्ग सूत्रम् २/२/-/६६७ कुर्कुटादिकरणेन दम्भप्रधानवणिक्श्रोत्रियसाध्वाकारेण परवञ्चनार्थ गलकर्तकानामिवावस्थानं, देशभाषानेपथ्यादिविपर्ययकरणं कपटं यथा आषाढभूतिना नटेनेवापरापरवेषपरावृत्याऽऽचार्योपाध्यायसंघाटकात्मार्थं चत्वारो मोदका अवाप्ताः, तु-कापिणतुलाप्रस्थादेः परवञ्चनार्थ न्यूनाधिककरणम्, एतैरुत्कुञ्चनादिभिः सहातिशयेन संप्रयोगो यदिवा-सातिशयेन द्रव्येणकस्तूरिकादिनाऽपरस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगस्तद्बहुलाः-तप्रधाना इत्यर्थः, उक्तंच॥१॥ “सो होई सातिजोगो दव्वं जंछादियण्णदव्वेसु ।
दोसगुणा वयणेसुयअत्यविसंवायणं कुणइ॥ एते चोत्कुञ्चनादयो मायापर्याया इन्द्रशक्रादिवत् कथञ्चिक्रियाभेदेऽपि द्रष्टव्याः । तथा दुष्टं शीलं येषां ते दुःशीलाः-चिरमुपचरिता अपि क्षिप्रं विसंवदन्ति, दुःखानुमेया दारुणस्वभावा इत्यर्थः, तथा दुष्टानिव्रतानियेषां ते तथा यथामांसभक्षणव्रतकालसमाप्तौ प्रभूततरसत्वोपघातेन मांसप्रदानम्, अन्यदपि नक्तभोजनादिकं तेषां दुष्टव्रतमिति, तथाऽन्यस्मिन् जन्मान्तरे मधुमद्यमांसादिकमभ्यवहरिष्यामीत्येवमज्ञानान्धाजन्मान्तरविधिद्वारेणसनिदानमेवव्रतं गृह्णन्ति, तथादुःखेनप्रत्यानन्द्यन्तेदुष्प्रत्यानन्याः, इदमुक्तं भवति-तैरानन्दितेनापरेणकेनचित्प्रत्युपकारेप्सुना गर्वामाता दुःखेन प्रत्यानन्द्यन्ते, यदिवा सत्यप्युपकारे प्रत्युपकारमीरवो नैवानन्द्यन्ते प्रत्युत शठतयोपकारे दोषमेवोत्पादयन्ति, तथा चोक्तम् - ॥१॥ “प्रतिकर्तुमशक्तिष्ठा, नराः पूर्वोपकारिणाम् ।
दोषमुत्पाद्य गच्छन्ति, मद्गूनामिव वायसाः॥ यतएवमतोऽसाधवस्ते पापकर्मकारित्वात्, तथा यावज्जीवं' यावतप्राणधारणेन सर्वस्माप्राणातिपातादप्रतिविरता लोकनिन्दनीयादपि ब्राह्मणघातादेरविरता इति सर्वग्रहणं, एवं सर्वस्मादपिकूटसाक्ष्यादेरप्रतिविरता इति, तथा सर्वस्मात्स्त्रीबालादेः परद्रव्यापहरणादविरताः, तथा सर्वस्मात्परस्त्रीगमनादेर्मैथुनादविरताः, एवं सर्वस्मात्परिग्रहाद्योनिपोपकादप्यविरताः, एवं सर्वेभ्यः क्रोधमानमायालोभेभ्योऽविरताः, तथा प्रेमद्वेषकलहाभ्याख्यानपैशुन्यपरपरिवादारतिरतिमायामृषावादमिथ्यादर्शनशल्यादिभ्योऽसदनुष्ठानेभ्योयावज्जीवं येऽप्रतिविरता भवन्तीति तथा सर्वस्मात्स्नानोन्मर्दनवर्णकविलेपनशब्दस्पर्शरूपरसगन्धमाल्यालङ्कारात्कामाङ्गान्मोहजनितादप्रतिविरता यावजीवयेति, इह च वर्णकग्रहणेन वर्णविशेषापादकं लोघ्रादिकं गृह्यते, तथा सर्वतः शकटरथादेर्यानविशेषादिकाप्रतिविस्तरविधेः परिकररूपात्परिग्रहादप्रतिविरताः, इह च शकटरथादिकमेव यानं शकटरथयानं, युग्यं-पुरुषोक्षिप्तमाकाशयानं 'गिल्लि'त्ति पुरुषद्वयोक्षिप्ता झोल्लिका 'थिल्लित्ति वेगसराद्वयविनिर्मितो यानविशेषः तथा 'संदमाणिय'त्ति शिबिकाविशेष एव, तदेवमन्यस्मादपि वस्त्रादेः परिग्रहादुपकरणभूतादविरताः।।
तथा सर्वतः-सर्वस्माक्रयविक्रयाभ्यां करणभूताभ्यां यो माषकाधमाषकरूपकार्षापणादिभिःपण्यविनिमयात्मकः संव्यवहारस्तस्मादविरता यावज्जीवयेति, तथा सर्वस्माद्धिरण्यसुवणदिः प्रधानपरिग्रहादविरताः, तथा कूटतुलकूटमानादेरविरताः, तथा सर्वतः कृषिपाशुपाल्यादेर्यत्स्वतः करणमन्येन च यत्किञ्चित्कारयति तस्मादविरताः, तथा पचनपाचनतः तथा कण्डनकुट्टनपिट्टन-तर्जनाताडनवधबन्धादिनायः परिक्लेशःप्राणिनांतस्मादविरताः, साम्प्रतमुप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org