SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३४८ सूत्रकृताङ्ग सूत्रम् २/२/-/६६३ भवइ || से एगइओ गोधायभावं पडिसंधाय तमेव गोणं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ॥ से एगइओ गोवालभावं पडिसंधाय तमेव गोवालं वा परिजविय हंता जाव उवक्खाइत्ता भवइ ॥ से एगइओ सोवणियभावं पडिसंधाय तमेव सुणगं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ।। से एगइओ सोवणियंतियभावं पडिसंधाय तमेव मणुस्सं वा अन्नयरं वा तसं पाणं हंता जाव आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ । वृ. स एकः कदाचिन्निस्त्रिंशः साम्प्रतापेक्षी अपगतपरलोकाध्यवसायः कर्मपरतया भोगलिप्सुः संसारस्वभावानुवर्त्ती आत्मनिमित्तं वेत्येतान्यनुगामुकादीन्यन्यकर्तव्यहेतुभूतानि चतुर्दशासदनुष्ठानानि विधत्ते, तथा ज्ञातयः स्वजनास्तन्निमित्तं तथाऽगारनिमित्तं गृहसंस्करणार्थं सामान्येन वा कुटुम्बार्थं परिवारनिमित्तं वा दासीदासकर्मकरादिपरिकरकृते तथा ज्ञात एव ज्ञातकःपरिचितस्तमुद्दिश्य तथा सहवासिकं वा प्रातिवेश्मिकं निश्रीकृत्यैतानि वक्ष्यमाणानि कुर्यादिति सम्बन्धः - तानि च दर्शयितुमाह- 'अदुवे' त्यादि, अथवेत्येवं वक्ष्यमाणापेक्षया पक्षान्तरोपलक्षणार्थः, गच्छन्तमनुगच्छतीत्यनुगामुकः, सचाकार्याध्यवसायेन विवक्षितस्थानकालाद्यपेक्षया विरूपकर्तव्यचिकीर्षुस्तं गच्छन्तमनुगच्छति, अथवा तस्यापकर्तव्यस्यापकारावसरापेक्ष्युपचरको भवति, अथवा तस्य प्रातिपथिको भवति-प्रतिपथं-संमुखीनमागच्छति, अथवाऽऽत्मस्वजनार्थं संधिच्छेदको भवति-चौर्यं प्रतिपद्यते, अथवोरमैः मेषैश्चरत्यौरभ्रमिकः अथवा सौकरिका भवति, अथवा शकुनिभिपक्षिभिश्चरतीति शाकुनिकः अथवा वागुरया मृगादिबन्धनरज्वा चरति वागुरिकः अथवा मत्यैश्चरति मात्स्यिकः, अथवा गोपालभावं प्रतिपद्यते, अथवा गोघातकः स्याद्, अथवा श्वमिश्चरति शौवनिकः शुनां परिपालको भवतीत्यर्थः, अथवा 'सोवणियं ति श्वभिपापर्द्धिकुर्वन्मृगादीनामन्तं करोतीत्यर्थः । तदेवमेतानि चतुर्दशाप्युद्दिश्य प्रत्येकमादितः प्रभृति विवृणोति तत्रैकः कश्चिदात्माद्यर्थं अपरस्य गन्तुर्ग्रामान्तरं किञ्चिद्रव्यजातमवगम्य तदादित्सुस्तस्यैवानुगामुकभावं 'प्रतिसंधाय ' सहगन्तृभावेनानुकूल्यं प्रतिपद्य विवक्षितवञ्चनावसरकालाद्यपेक्षी तमेव गच्छन्तमनुव्रजति, तमेव चाभ्युत्थानविनयादिभिरत्यन्तोपचारैरुपचर्यानुव्रज्य च विवक्षितमवसरं लब्ध्वा तस्यासौ हन्ता दण्डादिभिः तथा छेत्ता खङ्गादिना हसतपादादेः तथा भेत्ता वज्रमुष्टयादिना तथा लुम्पयिता केशाकर्षणादिकदर्थनतः तथा विलुम्पयिता कशाप्रहारादिभिरत्यन्तदुःखोत्पादनेन तथा अपद्रावयिता जीविता-द्यपरोपणतो भवतीत्येवमादिकं कृत्याऽऽहारमाहारयत्यसौ, एतदुक्तं भवतिगलकर्तकः कश्चिदन्यस्य धनवतोऽनुगामुकभावं प्रतिपद्य तं बहुविधैरुपायैर्विश्रम्भे पातयित्वा भोगार्थी मोहान्धः साम्प्रतेक्षितया तस्य रिक्थवतोऽपकृत्याहारिदकां भोगक्रिया विधत्ते । इत्येवमसौ महद्मि क्रूरैः कर्मभिः - अनुष्ठानैर्महापातकभूतैर्वातीव्रानुभावैर्दीर्घस्थितिकैरात्मानमुपख्यापयिता भवति, तथाहिअयमसौ महापापकारीत्येवमात्मानं लोके ख्यापयति, अष्टप्रकारैर्वा कर्मभिरात्मानं तथा बन्धयति तथा लोके तद्विपाकापादितेनावस्थाविशेषेण सता नारकतिर्यङनरामररूपतयाऽऽख्यात इति । तदेवमेकः कश्चिदकर्तव्याभिसंधिना परस्य स्वापतेयवतस्तद्वञ्चनार्थमुपचरकभावं 'प्रतिसंधाय ' प्रतिज्ञाय पश्चात्तं नानाविधैर्विनयोपायैरुपचरति, उपचर्य च विश्रम्भे पातयित्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy