SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, अध्ययनं - २, ३४३ कर्मकरणाय न ग्राह्योऽन्ये तु शूद्रा ग्राह्या इति, किं बहुनोक्तन ?, नाहमुपद्रावयितव्यो - जीवितादपरोपयितव्योऽन्ये तु अपरोपयितव्या इति । तदेवं तेषां परपीडोपदेशनतोऽति मूढतयाऽसम्बद्धप्रलापिनामज्ञानावृतानामात्मंभरीयां विषमदृष्टीनां न प्राणातिपादविरतिरूपं व्रतमस्ति, अस्य चोपलक्षणार्थत्वात्मृषावादादत्तादानविरमणाभावोऽप्यायोज्यः । अधुना त्वनादिभवाभ्यासाद्दुस्त्यजत्वेन प्राधान्यात् सूत्रेणैवाब्रह्माधिकृत्याह - 'एवमेवेत्यादि, 'एवमेव' पूर्वोक्तेनैव कारणेनातिमृध्त्वादिना परमार्थमजानानास्ते तीर्थिकाः स्त्रीप्रधानाः कामाः स्त्रीकामाः यदिवा स्त्रीषु कामेषु चशब्दादिषु मूर्छिता गृद्धा ग्रथिता अध्युपपन्नाः । अत्र चात्यादरख्यापनार्थं प्रभूतपर्यायग्रहणम्, एतच्च स्त्रीषु शब्दादिषु च प्रवर्तनं प्रायः प्राणिनां प्रधानं संसारकारणं, तथा चोक्तम्- "मूलमेयमहम्मस्, महादोससमुस्सय मित्यादि, इह च स्त्रीसङ्गासक्तस्यावश्यंभाविनी शब्दादिविषयासक्तिरित्यतः स्त्रीकामग्रहणं, तत्र चाऽऽ सक्ता यावन्तं कालमासते तत्सूत्रेणैव दर्शयति यावद्वर्षाणि चतुष्पञ्चष दशकानि, अयं च मध्यमकालो गृहीतः, एतावत्कालोपादानं च साभिप्रायकं, प्रायस्तीर्थिका अतिक्रान्तवयस एव प्रव्रजन्ति, तेषां चैतावानेव कालः संभाव्यते, यदिवा मध्यग्रहणात्तत ऊर्ध्वमधश्च गृह्यते इति दर्शयतितस्माच्चौपात्तादल्पतरः प्रभूततरो वापि कालो भवति । तत्र च ते त्यक्त्वापि गृहवासं 'भुक्त्वा भोगभोगान्' इति स्त्रीभोगे सति अवश्यं शब्दादयो भोगाः भोगभोगास्तान् भुक्त्वा, ते च किल वयं प्रव्रजिता इति, न च भोगेभ्यो विनिवृत्ताः, यतो मिध्यादृष्टितयाऽज्ञानान्धत्वात्सम्यग्विरतिपरिणाम रहिताः ते चैवंभूतपरिणामाः स्वायुषः क्षये कालमासे कालं कृत्वा विकृष्टतपसोऽपि सन्तोऽन्यतरेष्वासुरिकेषु किल्बिषिकेषु स्थानेषूत्पादयितारो भवन्ति, ते ह्यज्ञानतपसा मृता अपि किल्बिषिकेषु स्थानेषूत्पत्स्यन्ते, तस्मादपि स्थानादायुषः क्षयाद्विप्रमुच्यमानाः- च्युताः किल्बष बहुलास्कर्मशेषेणैलवन्मूका एलमूकास्तद्भावेनोत्पद्यन्ते, किल्बिषिकस्थानाच्युतः सन्ननन्तरभवे वा मानुषत्वमवाप्य यथैलको मूकोऽव्यक्तवाक् भवति एवमसावप्यव्यक्तवाक् समुत्पद्यत इति । तथा 'तमूयत्ताए 'त्ति तमस्त्वेन - अत्यन्तान्धतमसत्वेन जात्यन्धतया अत्यन्ताज्ञानावृततया वा तथा जातिमूकत्वेनापगतावाच इह प्रत्यागच्छन्तीति । तदेवंभूतं खलु तेषां तीर्थिकानां परमार्थतः सावद्यानुष्ठानादिनिवृत्तानामाधाकर्मादिप्रवृत्तेस्तप्रायोग्यभोगभाजां 'तव्प्रत्ययिकं' लोभप्रत्ययिकं सावद्यं कर्माधीयते । तदेतल्लोभप्रत्ययिकं द्वादशं क्रियास्थानमाख्यातमिति । साम्प्रतमेतेषां द्वादशानामप्युपसंहारार्थमाह- 'इति' उपप्रदर्शने 'एतानि' अर्थदण्डादीनि लोभप्रत्ययिकक्रियास्थानपर्यवसानानि द्वादशापि क्रियास्थानानि कर्मग्रन्थिद्रावणाद्रवः-संयमः स विद्यते यस्यासौ द्रविको मुक्तिगमनयोग्यतया वा द्रव्यभूतः श्रमणः साधुः, तमेव विशिनष्टिमा वधीरित्येवं प्रवृत्तिर्यस्यासौ माहनस्तेनैव एतद्गुणविशिष्टेनैतानि सम्यग्यथावस्थितवस्तुस्वरूपनिरूपणतो मिध्यादर्शनाश्रितानि संसारकारणानीतिकृत्वा ज्ञपरिज्ञया ज्ञातव्यानि प्रत्याख्यानपरिज्ञया परिहर्तव्यानि भवन्तीति ॥ मू. (६६१) अहावरे तेरसमे किरियट्ठाणे इरियावहिएत्ति आहिज्जइ, इह खलु अत्तत्ताए संवुडस्स अनगारस्स ईरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंड मत्तनिक्खेवणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy