SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३४२ सूत्रकृताङ्ग सूत्रम् २/२/-/६५९ मायावी सर्वदा वञ्चनपरायणः संस्तन्मनाः सर्वानुष्ठानेष्वप्येवंभूतो भवति-असमाहत अनङ्गीकृता शोभना लेश्या येन स तथा आर्त्तध्यानोपहततयाऽसावशोभनलेश्य इत्यर्थः । तदेवमपगतधर्मध्यानोऽसमाहितोऽशुद्धलेश्यश्चापि भवति । तदेवं खलु तस्य 'तठप्रत्ययिकं' मायाशल्यप्रत्ययिकं सावद्यं कर्माऽऽधीयते । तदेतदेकादशं क्रियास्थानं मायाप्रत्ययिकं व्याख्यातं । एतानि चार्थदण्डादीनि एकादश क्रियास्थानानि सामान्येनासंयतानां भवन्ति, इदं तु द्वादशं क्रियास्थानं पाखण्डिकानुद्दिश्याभिधियते मू. (६६०) अहावरे बारसमे किरियट्ठाणे लोभवत्तिएत्ति आहिज्जइ, जे इमे भवंति, तंजहा-आरन्निया आवसहिया गामंतिया कण्हुईरहस्सिया नो बहुसंजया नो बहुपडिविरया सव्वपाणभूतजीवसत्तेहिं ते अप्पणो सच्चामोसाइं एवं विडंजंति, अहं न हंतव्यो अन्ने हंतव्वा अहं न अज्जावेयव्वो अन्ने अज्जावेयव्वा अहं न परिघेतव्वो अन्ने परिघेतव्वा अहं न परितावेयव्वो अन्ने परितावेयव्वा अहं न उद्दवेयव्वो अन्ने उद्दवेयव्वा । एवमेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया गरहिया अज्झोववन्ना जाव वासाई चउपंचमाई छद्दसमाई अप्पयरो वा भुज्जयरो वा भुंजित्तु भोगभोगाई कालमासे कालं किच्चा अन्नयरेसु आसुरिएसु किब्बिसिएस ठाणेसु उववत्तारो भवंति, ततो विप्पमुञ्च्चमाणे भुजो भुजो एलमूयत्ताए तमूयत्ताए जाइमूयत्ताए पच्चायंति, एवं खलु तस्स तप्पत्तियं सावज्जंति आहिज्जइ, दुवालसमे किरियट्ठाणे लोभवत्तिएत्ति आहिए इच्चेयाई दुवाल | सकिरियट्ठाणाई दविएणं समणेण वा माहणेण वा सम्मं सुपरिजाणिअव्वाइं भवंति ॥ वृ. एकादशात् क्रियास्थानादनन्तरमथापरं द्वादशं क्रियास्थानं लोभप्रत्ययिकमाख्यायते, तद्यथा-य इमे वक्ष्यमाणा अरण्ये वसन्तीत्यारण्यकाः, ते च कन्दमूलफलाहाराः सन्तः केचन वृक्षमूले वसन्ति, केचनावसथेषु - उटजाकारेषु गृहेषु, तथा अपरे ग्रामादिकमुपजीवन्तो ग्रामस्यान्तेसमीपे वसन्तीति ग्रामान्तिकाः, तथा 'क्वचित्' कार्ये मण्डलप्रवेशादिके रहस्यं येषां ते कचिद्राहसिकाः, ते च 'न बहुसंयता' न सर्वसावद्यानुष्ठानेभ्यो निवृत्ताः, एतदुक्तं भवति न बाहुल्येन त्रसेषु दण्डसमारम्भ विदधति, एकेन्द्रियो पजीविनस्त्वविगानेन तापसादयो भवन्तीति, तथा 'न बहुविरता' न सर्वेष्वपि प्राणातिपातविरमणादिषु व्रतेषु वर्तन्ते, किंतु ? द्रव्यतः कतिपयव्रतवर्तिनो न भावतो, मनागपि तत्कारणस्य सम्यग्दर्शनस्याभावादित्यभिप्रायः इत्येतदाविर्भावयितुमाह 'सव्वपाणे 'त्यादि, ते ह्यारण्यकादयः सर्वप्राणिभूतजीवसत्वेभ्य आत्मना - स्वतः अविरताःतदुपमर्दकारम्भादविरता इत्यर्थः । तथा ते पाषण्डिका आत्मना स्वतो बहूनि सत्या मृषाभूतानि वाक्यानि 'एवं' वक्ष्यमाणनीत्या विशेषेण 'युञ्जन्ति' प्रयुञ्जन्ति ब्रुवत इत्यर्थ, यदिवा सत्यान्यपि तानि प्राण्युपमर्दकत्वेन मृषाभूतानि सत्या मृषाणि, एवं ते प्रयुञ्जन्तीति दर्शयति । , तद्यथा अहं ब्राह्मणत्वाद्दण्डादिभिर्न हन्तव्योऽन्ये तु शूद्रत्वाद्धन्तव्याः, तथाहि तद्वाक्यं'शूद्रं व्यापाद्य प्राणायामं जपेत किंचिद्वा दद्यात्, तथा क्षुद्रसत्त्वानामनस्थिकानां शकटभरमपि व्यापाद्य ब्राह्मणं भोजये त्यादि, अपरं चाहं वर्णोत्तमत्वात् नाज्ञापयितब्धोऽन्ये तु मत्तोऽधमाः समाज्ञापयितव्याः, तथा नाहं परितापयितव्योऽन्ये तु परितापयितव्याः, तथाऽहं वेतनादिना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy