________________
२९८
सूत्रकृताङ्ग सूत्रम् २/१/-/६३८
चतुरः पुरुषान्पश्यति, यत्रच व्यवस्थितानिति, किम्भूतान् ? -त्यक्ततीरान्अप्राप्तद्वरपुण्डरीकान् पङ्कजलावमग्नान् पुनस्तीरमप्यागन्तुमसमर्थान्, दृष्ट्वा च तांस्तदवस्थान् ततोऽसौ भिक्षु एव' मिति वक्ष्यमाणनीत्या वदेत्।
तद्यथा-अहो इति खेदे णमिति वाक्यालङ्कारे, इमे पुरुषाश्चत्वारोऽपि अखेदज्ञा यावन्नो मार्गस्य गतिपराक्रमज्ञाः, यस्मात्ते पुरुषा एवंज्ञातवन्तोयथावयंपद्मवरपौण्डरीकमुन्निक्षेप्स्यामःउत्खनिष्यामो, न च खलु तत्पौण्डरीकमेवम्-अनेन प्रकारेण यथैते मन्यन्ते तथोत्क्षेप्तव्यं । अपि त्वहमस्मिभिर्रूक्षोयावद्गतिपराक्रमज्ञः, एतद्गुणविशिष्टोऽहमेतत्पौण्डरीकमुत्क्षेपस्यामिउत्खनिष्यामि-समुद्धरिष्यामीत्येवमुक्त्वाऽसौ 'नाभिक्रामेत्' तां पुष्करिणीं न प्रविशेत्, तत्रस्थ एव यत्कुर्यात्तद्दर्शयति-तस्यास्तीरे स्थित्वा तथाविधं शब्दं कुर्यात् ।।
तद्यथा-ऊर्ध्वमुत्पतोत्पत, खलुशब्दो वाक्यालङ्कारेहे पद्मवरपौण्डरीक! तस्याः पुष्करिण्या मध्यदेशात् एवमुत्पतोत्पत, 'अथ' तच्छब्दश्रवणादनन्तरं तदुत्पतितमिति।
तदेवंदृष्टान्तंप्रदर्श्यदार्शन्तिकंदयितुकामः श्रीमन्ममहावीरवर्धमानस्वामी स्वशिष्यानाह
मू. (६३९) किट्टिए नाए समणाउसो!, अढे पुण से जाणतव्वे भवति, भंतेत्ति समणं भगवं महावीरं निग्गंथा य निग्गंथीओ य वंदति नमसंति वंदेत्ता नमंसित्ता एवं वयासि-किट्टिए नाएसमणाउसो!, अट्ठ पुण से न जाणाणो समणाउसोत्ति।
समणे भगवं महावीरे ते य बहवे निग्गंथे य निग्गंथीओ य आमंतेत्ता एवं वयासी-हंत समणाउसो ! आइक्खामि विभावेमि किट्टेमि पवेदेमि सअटुं सहेउं सनिमित्त भुजो भुजो उवदंसेमि से बेमि।
वृ. 'कीर्तिते' कथिते प्रतिपादितेमयाऽस्मिन् ‘ज्ञाते' उदाहरणे हे श्रमणाआयुष्मन्तोऽर्थः पुनरस्य ज्ञातव्यो भवति भवद्भिः , एतदुक्तं भवति-नास्योदाहरणस्य परमार्थं यूयं जानीथ, एक्मुक्ते भगवता ते बहवो निर्ग्रन्था निर्ग्रन्थ्यश्च तं श्रमणं भगवन्तं महावीरं ते निर्ग्रन्थादयो वदन्ते कायेन नमस्यन्ति-तप्रद्वैः शब्दैः स्तुवन्ति वन्दित्वा नमस्यित्वा चैवं-वक्ष्यमाणं वदेयुः ।
तद्यथा 'कीर्तितं' प्रतिपादितं ज्ञातम् उदाहरणं भगवता, अर्थपुनरस्यन सम्यक् जानीम इत्येवं पृष्टो भगवान् श्रमणो महावीरस्तानिर्ग्रन्थादीनेवं वदेत्-“हन्ते'ति संप्रेषणे, हे श्रमणा आयुष्मन्तो ! यद्भवद्भिरहं पृष्टस्तत्सोपपत्तिकमाख्यामि भवतां, तथा 'विभावयामि' आविर्भावयामिप्रकटार्थंकरोमि, तथ 'कीर्तयामि' पर्यायकथनद्वारेणेतितथा 'प्रवेदयामि' प्रकर्षण हेतुदृष्टान्तश्चित्तसंत-वावारोपयामि, अथवैकार्थिकानि चैतानि।
___कथंप्रतिपादयामीतिदर्शयति-सहार्थेन-दार्शन्तिकार्थेन वर्ततइतिसार्थपुष्करिणीदृष्टान्तस्तं, तथा सह हेतुना-अन्वयव्यतिरेकरूपेण वर्तत इति सहेतुस्तं तथाभूतमर्थं प्रतिपादयिष्यामि यथा तेपुरुषाअप्राप्तप्रार्थितार्थाः पुष्करिणीकर्दमे दुरुत्तारे निमग्ना एवं वक्ष्यमाणास्तीर्थिकाअपारगाः संसारसागरस्य तत्रैव निमज्जन्तीत्येवंरूपोऽर्थं भूयो भूयोऽपरैरपरैर्हेतुष्टान्तरूपदर्शयामि सोऽहं साम्प्रतमेव ब्रवीमि श्रृणुत यूयमिति ।
तदधुना भगवान् पूर्वोक्तस्य दृष्टान्तस्य यथास्वं दार्शन्तिकं दर्शयितुमाह
मू. (६४०) लोयं च खलु मए अप्पाहटु समणाउसो ! पुक्खरिणी बुइया, कम्मं च खलु मए अप्पाहटु समणाउसो! से उदए बुइए, कामभोगे य खलु मए अप्पाहटु समणाउसो ! से सेए
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org