SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २९२ सूत्रकृताङ्ग सूत्रम् २/-/-/६३२/४/ नि. [१४९] तथा चक्रवर्तिनः षटखण्डभरतेश्वराः तथा चारणश्रमणा बहुविधाश्चर्यभूतलब्धिकलापोपेता महात-पस्विनः तथा विद्याधरा वैताढ्यपुराधिपतयः तथा दशारा हरिवंशकुलोद्भवाः, अस्य चोपलक्षणा-र्थत्वादन्येऽपीक्ष्वाक्वाादयः परिगृह्यन्ते, एतदेव दर्शयति-ये चान्ये महर्धिमन्तो महेभ्याः कोटीश्वरास्ते सर्वेऽपि पौण्डरीका भवन्ति, तुशब्दस्यानुक्तसमुच्चयार्थत्वात्, ये चान्ये विद्याकलाकलापोपेतास्ते पौण्डरीका इति। नि. [१५०] भवणवइवाणमरजोतिसवेमाणियाण देवाणं । जे तेसिं पवरा खलु ते होंति पुंडरीया उ॥ वृ. साम्प्रतंदेवगतौ प्रधानस्यपौण्डरीकत्वंप्रतिपादयन्नाह-भवणे' त्यादि, भवनपतिव्यन्तरज्योतिष्कवैमानिकानां चतुर्णा देवनिकायानां मध्ये ये प्रवराः-प्रधाना इन्द्रेन्द्रसामानिकादयस्ते प्रधाना इतिकृत्वा पौण्डरीकाभिधाना भवन्ति । नि. [१५१] कंसाणंदूसाणं मणिमोत्तियसिलपवालमादीणं । जे अअचित्ता पवराते होति पोंडरीया उ॥ वृ.साम्प्रतमचित्तद्रव्याणांयत्प्रधानंतस्यपौण्डरीकत्व-प्रतिपादनायाह-'कंसणा' मित्यादि, कांस्यानां मध्ये जयघण्टादीनि दूष्याणां चीनांशुकादीनि मणीनामिन्द्रनीलवैडूर्यपद्मरागादीनि रत्नानि मौक्तिकानां यानि वर्णसंस्थानप्रमाणाधिकानि, तथा शिलानां मध्ये पाण्डुकम्बलादयः शिलास्तीर्थकुज्जन्माभिषेकसिंहासनाधाराः, तथा प्रवालानांयानिवर्णादिगुणोपेतानि, आदिग्रहणाज्जात्यचामीकरंतद्विकाराश्चाभरणविशेषाः परिगृह्यन्ते, तदेवमन-न्तरोक्तानि कांस्यादीनि यानि प्रवराणि तान्यचित्तपौण्डरीकाण्यभिधीयन्त इति । मिश्रद्रव्यपौण्डरीकं तु तीर्थकृच्चक्रवत्यादय एव प्रधानकटककेयूराद्यलङ्कारालङ्कृताइति, द्रव्यपौण्डरीकानन्तरंक्षेत्रपौण्डरीकामिधित्सयाऽऽह नि. [१५२] जाइं खेत्ताई खलु सुहाणुभावाई होति लोगंमि। देवकुरुमादियाइंताई खेत्ताई पवराई॥ वृ. खित्तानी'त्यादि,यानिकानितिदिह देवकुर्वादीनिशुभानुभावानि क्षेत्राणितानिप्रवराणि पौण्डरीकाभिधानानि भवन्ति ॥ साम्प्रतं कालपौण्डरीकप्रतिपादनायाह । नि. [१५३] जीवा भवद्वितीए कायठितीए यहोति जे पवरा। ते होंति पोडरीया अवसेसा कंडरीया उ । वृ. 'जीवाः' प्राणिनोभवस्थित्याकायस्थित्याच ये प्रवराः' प्रधानास्तेपौण्डरीकाभवन्ति, शेषास्त्वप्रधानाः कण्डरीका इति, तत्र भवस्थित्या देवा अनुत्तरोपपातिकाः प्रधाना भवन्ति, तेषां यावद्भवं शुभानुभावत्वात्, कायस्थित्यातु मनुष्याःशुभकर्मसमाचाराः सप्ताष्टभवग्रहणानि मनुष्येषुपूर्वकोट्यायुष्केष्वनुपरिवानन्तरभवे त्रिपल्योपमायुष्कषूत्पादमनुभूयततोदेवेषूत्पद्यन्त इतिकृत्वा ततस्ते कायस्थित्या पौण्डरीका भवन्ति, अवशिष्टास्तु कण्डरीका इति।कालपौण्डरीकानन्तरं गणनासंस्थानपौण्डरीकद्वयप्रतिपादनायाहनि. [१५४] गणणाए रज्जू खलु संठाणंचेव होति चउरंसं । एयाइं पोंडरीगाइं होंति सेसाइंइयराइं॥ वृ.गणनया-सङ्ख्यया पौण्डरीकंचिन्त्यमानंदशप्रकारस्यगणितस्य मध्ये 'रज्जु' रज्जुगणितं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy