SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २८४ सूत्रकृताङ्ग सूत्रम् १/१५/-/६३० तद्विशिनष्टि-शल्यं-पापानुष्ठानं तज्जनितंवा कर्मतत्कर्तयति-छिनत्तियत्तच्छल्यकर्तनंतच्च सदनुष्ठानं उद्युक्तविहारिणः “साधयित्वा सम्यगाराध्य बहवःसंसारकान्तारंतीर्णा, अपरेतु सर्वकर्मक्षयाभावात् देवा अभूवन, ते चाप्तसम्यक्त्वाः सच्चारित्रिणो वैमानिकत्वमवापुः प्राप्नुवन्ति प्राप्स्यन्ति चेति। सर्वोपसंहारार्थमाह-'पुरा' पूर्वस्मिन्ननादिके काले बहवो महावीराः' कर्मविदारणसहिष्णवः ‘अभूवन्' भूताः, तथा वर्तमाने च काले कर्मभूमौ तथाभूता भवन्ति तथाऽऽगामिनि चानन्ते काले तथाभूताः सत्संयमानुष्ठायिनो भविष्यन्ति, ये किं कृतवन्तः कुर्वन्ति करष्यन्ति चेत्याह । यस्यदुर्निबोधस्य-अतीव दुष्प्रापस्य ज्ञानदर्शनचारित्राख्यस्य अन्तं परमकाष्ठामवाप्य तस्यैव मार्गस्य 'प्रादुः' प्राकाश्यं तत्करणशीलाः प्रादुष्कराः स्वतः सन्मार्गानुष्ठायिनोऽन्येषां च प्रादुर्भावकाः सन्तः संसारार्णवं तीर्णास्तरन्ति तरिष्यन्ति चेति । गतोऽनुगमः, साम्प्रतं नयाः, त च प्राग्वत् द्रष्टव्याः । इतिरध्ययनपरिसमाप्ती, ब्रवीमीति पूर्ववत् । अध्ययनं-१५ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाझाचार्यविरचिता प्रथम श्रुतस्कन्धस्य पञ्चदशमध्ययनटीका परिसमाप्ता। (अध्ययनं-१६ "गाथा") वृ.उक्तंपञ्चदशमध्ययनं, साम्प्रतंषोडशमारभ्यते, अस्यचायमभिसंबन्धः-इहानन्तरोक्तेषु पञ्चदशस्वप्यध्ययनेषुयेऽर्था अभिहिता विधिप्रतिषेधद्वारेणतान्तथैवाचरन्साधुर्भवतीत्येतदनेनाध्ययनेनोपदिश्यते, तेचामीअर्थाः, तद्यथा-प्रथमाध्ययनेस्वसमयपरसमयपरिज्ञानेन सम्यक्त्वगुणावस्थितो भवति द्वितीयाध्ययने ज्ञानादिभि कर्मविदारणहेतुभिरष्टप्रकारं कर्म विदारयन् साधुर्भवति तथा तृतीयाध्ययने यथाऽनुकूलप्रतिकलोपसर्गान्सम्यक्सहमानः साधुर्भवति चतुर्थे तुस्त्रीपरीषहस्यदुर्जयत्वात्तज्जयकारीतिपञ्चमेतुनरकवेदनाभ्यः समुद्विजमानस्तप्रायोग्यकर्मणो विरतः सन्माधुत्वमवाप्नुयात् षष्ठेतु यथा श्रीवीरवर्धमानस्वामिना कर्मक्षयोद्यतेन चतुर्ज्ञानिनाऽपि संयमं प्रति प्रयन्तः कृतस्तथाऽन्येनापि छद्मस्थेन विधेय इति सप्तमे तु कुशीलदोषान् ज्ञात्वा तत्परिहारोद्यतेन सुशीलावस्थितेन भाव्यम् अष्टमे तु बालवीर्यपरिहारेण पण्डितवीर्योद्यतेन सदा मोक्षाभिलाषिणा भाव्यं । नवमे तु यथोक्तं क्षान्त्यादिकं धर्ममनुचरन् संसारान्मुच्यत इति दशमे तुसंपूर्णसमाधियुक्तः सुगतिभाग्भवतिएकादशे तु सम्यगदर्शनज्ञानचारित्राख्यं सन्मार्ग प्रतिपन्नोऽशेषक्लेशप्रहाणं विधत्ते द्वादशेतुतीर्थिकदर्शनानि सम्यग्गुणदोषविचारणतो विजानन्न तेषुश्रद्धानं विधत्तेत्रयोदशेतुशिष्यगुणदोषविज्ञः सद्गुणेषुवर्तमानः कल्याणभाग्भवति चतुर्दशेतु प्रशस्तभावग्रभावितात्मा विस्रोतसिकारहितो भवति पञ्चदशे तु यथावदायतचारित्रो भवति भिक्षुस्तदुपदिश्यत इति। तदेवमनन्तरोक्तेषुपञ्चदशस्वध्ययनेषुयेऽर्थाप्रतिपादितास्तेऽत्र संक्षेपतः प्रतिपाद्यन्त इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्तुपक्रमादीन्यनुयोगद्वाराणि भवन्ति । तत्रोपक्रमान्तर्गतोऽ-धिकारोऽनन्तरमेव संबन्धप्रतिपादनेनैवाभिहितः। नामनिष्पन्ने तु निक्षेपे गाथाषोडशकमिति नाम । तत्र गाथानिक्षेपार्थं नियुक्तिकृदाह Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy