________________
श्रुतस्कन्धः-१, अध्ययनं-१५,
२८३
॥१॥ "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः ।
कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः॥ मू. (६२६) कओ कयाइ मेघावी, उप्पजंति तहागया।
तहागया अप्पडिन्ना, चक्खू लोगस्सनुत्तरा ॥ इत्यादि । वृ.किंचान्यत्-कर्मबीजाभावात् 'कुतः कस्मात्कदाचिदपि मेघाविनो' ज्ञानात्मकाःतथाअपुनरावृत्त्या गतास्तथा गताः पुनरस्मिन् संसारेऽशुचिनिगर्भाधाने समुत्पद्यन्ते ?, न कथञ्चित्कदाचित्कर्मोपादानाभावादुत्पद्यन्त इत्यर्थ :। तथा 'तथागताः' तीर्थकृद्गणधरादयो न विद्यते प्रतिज्ञा-निदानबन्धनरूपा येषां तेऽप्रतिज्ञा-अनिदाना निराशंसाः सत्त्वहितकरणोद्यता अनुत्तरज्ञानत्वादनुत्तरा 'लोकस्य' जन्तुगणस्य सदसदर्थ- निरूपणकारणतश्चक्षुर्भूता हिताहितप्राप्तिपरिहारंकुर्वन्तः सकललोकलोचनभूतास्तथागताःसर्वज्ञा भवन्तीति । किञ्चान्यत्मू. (६२७) अनुत्तरे य ठाणे से, कासवेण पवेदिते।
जं किच्चा निव्वडा एगे, निद्वं पावंति पंडिया ।। वृ.नविद्यते उत्तरं-प्रधानं यस्मादनुत्तरंस्थानंतच्च तत्संयमाख्यं काश्यपेन' काश्यपगोत्रेण श्रीमन्महावीरवर्धमानस्वामिना 'प्रवेदितम्' आख्यातं, तस्य चानुत्तरत्वमाविर्भावयन्नाह -
'यद्' अनुत्तरं संयमस्थानं 'एके' महासत्त्वाः सदनुष्ठायिनः कृत्वा' अनुपाल्य 'निर्वृताः' निर्वाणमनुप्राप्ताः, निर्वृताश्च सन्तः संसारचक्रवालस्य 'निष्ठां' पर्यवसानं पण्डिताः' पापाड्डीनाः प्राप्नुवन्ति, तदेवंभूतं संयमस्थानं काश्यपेन प्रवेदितं यदनुष्ठायिनः सन्तः सिद्धिं प्राप्नुवन्तीति तात्पर्यार्थ ः। मू. (६२८) पंडिए वीरियं लद्धं, निग्घायाय पवत्तगं।
धुणे पुव्वकडं कम्मं, नवं वाऽविन कुव्वती । वृ.अपिच-‘पण्डितः' सदसद्विवेकज्ञो 'वीर्य' कर्मोद्दलनसमर्थं सत्संयमवीर्यं तपोवीर्यवा 'लब्ध्वा' अवाप्य, तदेव वीर्यं विशिनष्टि-निशेषकर्मणो 'निर्थाताय' निर्जरणायप्रवर्तक पण्डितवीर्यं
तच बहुमवशतदुर्लभं कथञ्चित्कर्मविवरादवाप्य 'धुनीयाद्' अपनयेत् पूर्वभवेष्वनेकेषु यत्कृतम्-उपात्तं कर्माष्टप्रकारं तत्पण्डितवीर्येण धुनीयात् 'नवं च' अभिनवं चाश्रवनिरोधान्न करोत्यसाविति। मू. (६२९) कुव्वती महावीरे, अनुपुव्वकडं रयं ।
रयसा संमुहीभूता, कम्मं हेचाण जंमयं ।। वृ. किञ्च-‘महावीरः' कर्मविदारणसहिष्णुः सन्नानुपूर्येण मिथ्यात्वाविरतिप्रमादकषाययोगैर्यत्कृतंरजोऽपरजन्तुभिस्तदसौ 'नकरोति' नविधत्ते, यतस्तयाक्तनोपात्तरजसैवोपादीयते, सच तत्त्पाक्तनं कर्मावष्टभ्य सत्संयमात्संमुखीभूतः, तदभिमुखीभूतश्च यन्मतमष्टप्रकारं कर्म तत्सर्वं हित्वा' त्यक्त्वा मोक्षस्य सत्संयमस्य वा सम्मुखीभूतोऽसाविति । मू. (६३०) अभविंसु पुरा वीरा, आगमिस्सावि सुव्वता।।
दुन्निबोहस्स मग्गस्स, अंतं पाउकरा तिने-त्तिबेमि॥ वृ. अन्यञ्च-'जम्मय'-मित्यादि, सर्वसाधूनां यत् ‘मतम्' अभिप्रेतं तदेतत्सत्संयमस्थानं, For Private & Personal Use Only
www.jainelibrary.org
Jain Education International