________________
श्रुतस्कन्धः-१, अध्ययनं-१५,
२८१
प्रवेशनभूतो भक्ष्यविशेषस्तत्कल्पमेतन्मैथुनं, यथा हि असौपशुर्नीवारेणप्रलोभ्यवध्यस्थानमभिनीय नानाप्रकारावेदनाःप्राप्यते एवमसावप्यसुमान्नीवारकल्पेनानेनस्त्रीप्रसङ्गेन वशीकृतोबहुप्रकारा यातनाः प्राप्नोति, अतोनीवारप्रायमेतन्मैथुनमवगम्यस तस्मिन् ज्ञाततत्वो नलीयेत नस्त्रीप्रसङ्गं कुर्यात्, किंभूतः सन्नित्याह -
छिन्नानि-अपनीतानि स्रोतांसि-संसारावतरणद्वाराणि यथाविषयमिन्द्रियप्रवर्तनानि प्राणातिपातादीनि वा आश्रवद्वाराणि येन स छिन्योताः, तथा 'अनाविलः' अकलुषो रागद्वेषासंपृक्ततयामलरहितोऽनाकुलो वा-विषयाप्रवृत्तेः स्वस्थचेता एवंभूतश्चानाविलोऽनाकुलो वा सदा सर्वकालमिन्द्रियनोइन्द्रियाभ्यांदान्तो भवति, ईग्विधश्च कर्मविवरलक्षणं भावसंधिम् 'अनीशम्' अनन्यतुल्यं प्राप्तो भवतीति । किञ्चमू. (६१९) अनेलिसस्स खेयन्ने, न विरुज्झिज्ज केणइ ।
मणसा वयसा चेव, कायसा चेव चक्खुमं॥ वृ. 'अनीशः' अनन्यसहशः संयमो मौनीन्द्रधर्मो वा तस्य तस्मिन् वा 'खेदज्ञो' निपुणः, अनीशखेदज्ञश्वकेनचित्सार्धं न विरोधं कुर्वीत, सर्वेषु प्राणिषु मैत्री भावयेदित्यर्थः, योगत्रिककरणत्रिकेणेतिदर्शयति-'मनसा' अन्तःकरणेन प्रशान्तमनाः, तथा 'वाचा' हितमितभाषी तथा कायेन निरुद्धदुष्प्रणिहितसर्वकायचेष्टो दृष्टिपूतपादचारी सन् परमार्थतश्चक्षुष्मान् भवतीति । मू. (६२०) से हु चक्खू मणुस्साणं, जे कंखाए य अंतए।
अंतेण खुरो वहती, चक्कं अंतेण लोढ़ती ।। वृ. अपिच-हुरवधारणे, स एव प्राप्तकर्मविवरोऽनीशस्य खेदज्ञो भव्यमनुष्याणां चक्षुसदसत्पदार्थाविर्भावनान्नेत्रभूतो वर्तते, किंभूतोऽसौ ?, यः 'काङ्क्षायाः' भोगेच्छाया अन्तको विषयतृष्णायाः पर्यन्तवर्ती। किमन्तवर्तीति विवक्षितमर्थंसाधयति?,साधयत्येवेत्यमुमुर्थं दृष्टान्तेन साधयन्नाह-'अन्तेन' पर्यन्तेन 'क्षुरो' नापितोपकरणंतदन्तेनवहति, तथा चक्रमपिरथाङ्गामन्तेनैव मार्गे प्रवर्तते, इदमुक्तं भवति-यथा क्षुरादीनां पर्यन्त एवार्थक्रियाकारी एवं विषयकषायात्मकमोहनीयान्त एवापसदसंसारक्षयकारीति॥ मू. (६२१) अंताणि धीरा सेवंति, तेन अंतकरा इह ।
इह माणुस्सए ठाणे, धम्ममाराहिउं नरा ।। वृ. अमुभेवार्थमाविर्भवयन्नाह-'अन्तान्' पर्यन्तान् विषयकषायतृष्णायास्तत्परिकमणार्थमुद्यानादीनामाहारस्य वाऽन्तप्रान्तादीनि धीराः' महासत्त्वा विषयसुखनिस्पृहाः 'सेवन्ते' अभ्यस्यन्ति,तेन चान्तप्रान्ताभ्यसनेन 'अन्तकराः' संसारस्यतत्कारणस्यवा कर्मणः क्षयकारिणो भवन्ति । 'इहे'तिमनुष्यलोकेआर्यक्षेत्रेवा, न केवलंत एव तीर्थङ्करादयः अन्येऽपीह मानुष्यलोके स्थाने प्राप्ताः सम्यग्दर्शनज्ञानचारित्रात्मकंधर्ममाराध्य 'नराः' मनुष्याः कर्मभूमिगर्भव्युत्क्रान्तिजसंख्ये- यवर्षायुषः सन्तः सदनुष्ठानसामग्रीमवाप्य निष्ठितार्था' उपरतसर्वद्वन्द्वा भवन्तिमू. (६२२) निट्ठियट्ठा व देवा वा, उत्तरीए इयं सुयं ।
सुयं च मेयमेगेसिं, अमणुस्सेसु नो तहा ॥ वृ.इदमेवाह-निष्ठितार्था' कृतकृत्या भवन्ति, केचनप्रचुरकर्मतयासत्यामपि सम्यक्त्वादिकायां सामण्यांन तद्भव एव मोक्षमास्कन्दन्ति अपितु सौधर्माद्याः पञ्चोत्तरविमानावसाना देवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org