SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २८० सूत्रकृताङ्ग सूत्रम् १/१५/-/६१५ मुद्यतास्ते जनाः स्त्रीपाशबन्धनोन्मुक्तयाऽशेषकर्मबन्धनोन्मुक्ताः सन्तो 'नावकाङ्क्षन्ति' नाभिलषन्ति असंयमजीवितम् अपरमपिपरिग्रहादिकं नाभिलषन्ते, यदिवापरित्यक्तविषयेच्छाः सदनुष्ठानपरायणा मोक्षैकताना 'जीवितं' दीर्घकालजीवितं नाभिकाङ्क्षन्तीति। मू. (६१६) जीवितं पिट्ठओ किच्चा, अंतं पावंति कम्मुणं । कम्मुणा संमुहीभूता, जे मग्गमनुसासई॥ वृ. किंचान्यत्- 'जीवितम्' असंयमजीवितं 'पृष्ठतः कृत्वा' अनाध्त्य प्राणधारणलक्षणं वाजीवितमनाध्त्य सदनुष्ठानपरायणाः 'कर्मणां' ज्ञानावरणादीनाम् अन्तं' प्रयवसानंप्राप्नुवन्ति, अथवा 'कर्मणा' सदनुष्ठानेनजीवितनिरपेक्षाः संसारोदन्वतोऽन्तं-सर्वद्वन्द्वोपरमरूपंमोक्षाख्यमाप्नुवन्ति।सर्वदुःखविमोक्षलक्षणंमोक्षमप्राप्ताअपिकर्मणा-विशिष्टानुष्ठानेन मोक्षस्य संमुखीभूताघातिचतुष्टयक्षयक्रियया उत्पन्नदिव्यज्ञानाः शाश्वतपदस्याभिमुखीभूताः, क एवंभूता इत्याह-ये विपच्यमानतीर्थकृनामकर्माणः समासादितदिव्यज्ञाना मार्ग' मोक्षमार्ग ज्ञानदर्शनचारित्ररूपम् 'अनुशासन्ति' सत्त्वहिताय प्राणिनां प्रतिपादयन्ति स्वतश्चानुतिष्ठन्तीति । मू. (६१७) अनुसासणं पुढो पाणी, वसुमं पूयणासुते। अनासए जते दंते, दढे आरयमेहुणे ॥ वृ.अनुशासनप्रकारमधिकृत्याह-अनुशास्यन्ते सन्मार्गेऽवतार्यन्तेसदसद्विवेकतः प्राणिनो येनतदनुशासनं-धर्मदेशनया सन्मार्गावतारणंतत्पृथक्पृथक्भव्याभव्यादिषुप्राणिषुक्षित्युदकवत् स्वाशयवशादनेकधा भवति, यद्यपिचअभव्येषु तदनुशासनंन सम्यक्परिणमतितथापिसर्वोपायज्ञस्यापि न सर्वज्ञस्य दोषः, तेषामेव स्वभावपरिणतिरियं यया तद्वाक्यममृतभूतमेकान्तपथ्यं समस्तद्वन्द्वोपघातकारिन यथावत् परिणमति, तथा चोक्तम्॥१॥"सद्धर्मीजवपनानघकौशल्य, यल्लोकबान्धव! तवापि खिलान्यबूवन् । तनाद्भुतं खगकुलेष्विह तामसेषु, सूर्यांशवो मधुकरीचरणावदाताः॥ किंभूतोऽसावनुशासक इत्याह-वसु-द्रव्यंसचमोक्षप्रतिप्रवृत्तस्यसंयमः तद्विद्यतेयस्यसौ वसुमान, पूजनं-देवादिकृतमशोकादिकमास्वादयति-उपभुङ्कतइति पूजनास्वादकः, ननु चाधाकर्मणो देवादिकृतस्य समवसरणादेरुपभोगात्कथमसौ सत्संयमवानित्याशङ्कयाह-न विद्यते आशयः-पूजाभिप्रायो यस्यासावनाशयः, यदिवा द्रव्यतो विद्यमानेऽपि समवसरणादिके भावतोऽना-स्वादकोऽसौ, तद्गतगा(भावात्, सत्यप्युपभोगे यतः प्रयतः सत्संयमवानेवासावेकान्तेन संयमपरायणत्वात्, कुतो ? यत इन्द्रियनोइन्द्रियाभ्यां दान्तः, एतद्गुणोऽपि कथमित्याह-दृढः संयमे, आरतम्उपरतमपगतंमैथुनंयस्यस आरतमैथुनः-अपगतेच्छामदनकामः, इच्छामदनकामाभावाच्चसंयमे {ढोऽसौभवति, आयतचारित्रत्वाच्चदान्तोऽसौ भवति, इन्द्रियनोइन्द्रियदमाच्च प्रयतः, प्रयत्लवत्वाच्चदेवादिपूजनानास्वादकः, तदनास्वादनाच्च सत्यपिद्रव्यतः परिभोगेसत्संयमवानेवासाविति मू. (६१८) नीवारे व न लीएज्जा, छिन्नसोए अनाविले । ___ अनाइले सया दंते, संधि पत्ते अनेलिसं॥ वृ. अथ किमित्यसावुपरतमैथुन इत्याशङ्कयाह-नीवारः-सूकरादीनां पशूनां वध्यस्थान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy