________________
२७८
सूत्रकृताङ्ग सूत्रम् १/१५/-/६१०
सत्संयमाङ्गतया मोक्षकारिणीवियेदिति । सद्भावनाभावितस्य यद्भवति तद्दर्शयितुमाहमू. (६११) भावणाजोगसुद्धप्पा, जले नावा व आहिया।
नावा व तीरसंपन्ना, सव्वदुक्खा तिउट्टइ ॥ वृ.भावनाभिर्योगः-सम्यकप्रणिधानलक्षणो भावनायोगस्तेन शुद्धआत्मा-अन्तरात्मा यस्य स तथा, स च भावनायोगशुद्धात्मा सन् परित्यक्तसंसारस्वभावो नौरिव जलोपर्यवतिष्ठते संसारोदन्वत इति, नौरिव-यथा जलेऽनिमज्जनत्वेन प्रख्याता एवमसावपि संसारोदन्वति न निमज्जतीति । यथा चासौ निर्यामकाधिष्ठिताऽनुकूलवातेरिता समस्तद्वन्द्वापगमात्तीरमास्कन्दत्येवमाय- तचारित्रवान् जीवपोतः सदागमकर्णधाराधिष्ठितस्तपोमारुतवशात्सर्वदुःखात्मकात्संसारात् 'त्रुट्यति' अपगच्छति मोक्षाख्यं तीरं सर्वद्वन्द्वोपरमरूपमवाप्नोतीति । मू. (६१२) तिउट्टई उ मेघावी, जाणं लोगंसि पावगं।
तुटृति पावकम्माणि, नवं कम्ममकुव्वओ॥ वृ. अपिच-स हि भावनायोगशुद्धात्मा नौरिव जले संसारे परिवर्तमानस्त्रिभ्योमनोवाक्कायेभ्योऽशुभेभ्यस्त्रुट्यति, यदिवाअतीव सर्वबन्धनेभ्यस्त्रुट्यति-मुच्यतेअतित्रुट्यतिसंसारादतिवर्तते 'मेघावी' मर्यादाव्यवस्थितः सदसद्विवेकी वाऽस्मिन् ‘लोके' चतुर्दशरज्वात्मके भूतग्रामलोकेवायत्किमपि पापकं कर्मसावद्यानुष्ठानरूपंतत्कार्यवाअष्टप्रकारकर्मतत् ज्ञपरिज्ञया जानन् प्रत्याख्यानपरिज्ञया च तदुपादानं परिहरन् तस्त्रुट्यति ।
तस्यैवं लोकंकर्मवाजानतोनवानिकर्माण्यकुर्वतोनिरुद्धाश्रवद्वारस्य विकृष्टतपश्चरणवतः पूर्वसंचितानि कर्माणि त्रुट्यन्ति निवर्तन्ते वा नवंच कर्माकुर्वतोऽशेषकर्मक्षयो भवतीति ॥ मू. (६१३) अकुव्वो नवं नत्थि, कम्मं नाम विजाणइ।
विन्नाय से महावीरे, जेण जाईन मिजई ॥ वृ. केषाञ्चित्सत्यामपि कर्मक्षयानन्तरं मोक्षावाप्तौ स्वतीर्थनिकारदर्शनतः पुनरपि संसाराभिगमनं भवतीदमाशङ्कयाह-तस्याशेषक्रियारहितस्य योगप्रत्ययाभावात्किमप्यकुर्वतोऽपि 'नवं' प्रत्यग्रं कर्म ज्ञानावरणीयादिकं 'नास्ति' न भवति, कारणाभावात्कार्याभाव इतिकृत्वा, कर्माभावेचकुतः संसाराभिगमनं?,कर्मकार्यत्वात्संसारस्य, तस्य चोपरताशेषद्वन्द्वस्य स्वपरकल्पनाऽभावाद्रागद्वेषरहिततया स्वदर्शननिकाराभिनिवेशोऽपि न भवत्येव, स चैतद्गुणोपेतः कर्माष्टप्रकारमपि कारणतस्तद्विपाकतश्चजानाति, नमनं नाम-कर्मनिर्जरणंतच्चसम्यक्जानाति, यदिवा कर्मजानाति तन्नामच, अस्यचोपलक्षणार्थत्वात्तद्भेदाश्च प्रकृतिस्थित्यनुभावप्रदेशरूपान् सम्यगवबुध्यते।
संभावनायां वा नामशब्दः, संभाव्यते चास्य भगवतः कर्मपरिज्ञानं विज्ञाय च कर्मबन्धं तत्संवरणनिर्जरणोपायंचासौ ‘महावीरः' कर्मदारणसहिष्णुस्तत्करोति येन कृतेनास्मिन् संसारोदरे न पुनर्जायते तदभावाच्च नापि भ्रियते, यदिवा-जात्या नारकोऽयं तिर्यगयोनिकोऽयमित्येवं न मीयते-न परिच्छिद्यते, अनेन च कारणाभावात्संसाराभावाविर्भावनेन यत्कैश्चिदुच्यते । ॥१॥ "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः ।
ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org