SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -१, अध्ययनं-१५, २७७ मू. (६०९) तहिं तहिं सुयक्खायं, से य सच्चे सुआहिए। - सया सच्चेण संपन्ने, मित्तिं भूएहिं कप्पए । वृ.साम्प्रतमेतदेव कुतीथिकानामसर्वज्ञत्वमर्हतश्चसर्वज्ञत्वंयथा भवति तथा सोपपत्तिकं दर्शयितुमाह-तत्र तत्रेति वीप्सापदं यद्यत्तेनार्हता जीवाजीवादिकंपदार्थजातंतथा मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतव इतिकृत्वा संसारकारणत्वेन तथा सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति मोक्षाङ्गतयेत्येतत्सर्वं पूर्वोत्तराविरोधितया युक्तिभिरुपपन्नतया च सुष्ठाख्यातंस्वाख्यातं । तीर्थिकवचनं तु 'न हिंस्याद्भूतानी ति भणित्वा तदुपमर्दकारम्भाभ्यनुज्ञानात्पूर्वोत्तरविरोधितयातत्रतत्रचिन्त्यमानं नियुक्तिकत्वान्नस्वाख्यातंभवति,सचाविरुद्धार्थस्याख्याता रागद्वेषमोहानामनृतकारणानामसंभवात् सद्यो हितत्वाच्च सत्यः ‘स्वाख्यातः' तत्स्वरूपविद्भिः प्रतिपादितः । रागादयो ह्यनृतकारणं तेच तस्य न सन्तिअतः कारणाभावात्कार्याभाव इतिकृत्वा तद्वचो भूतार्थप्रतिपादक, तथा चोक्तम्॥१॥ “वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुवते वचः । यस्मात्तस्माद्वचस्तेषां, तथ्यं भूतार्थदर्शनम्॥ ननु च सर्वज्ञत्वमन्तरेणापि हेयोपादेयमात्रपरिज्ञानादपि सत्यता भवत्येव, तथा चोक्तम् ॥१॥ “सर्वं पश्यतु वा मा वा, तत्त्वमिष्टंतु पश्यतु। कीटसंख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते? ॥ इत्याशङ्कयाह-"सदा' सर्वकालं 'सत्येन' अवितथभाषणत्वेन संपन्नोऽसौ अवितथभाषणत्वं चसर्वज्ञत्वे सतिभवति, नान्यथा, तथाहि-कीटसंख्यापरिज्ञानासंभवे सर्वत्रापरिज्ञानमाशङ्कयेत, तथा चोक्तम् __ “सशे बाधासंभवे तल्लक्षणमेव दूषितं स्याद्" इति सर्वत्रानाश्वासः, तस्मात्सर्वज्ञत्वं तस्यभवतएष्टव्यम्, अन्यथा तद्वचसः सदा सत्यतानस्यात्, सत्योवासंयमः सन्तः-प्राणिनस्तेभ्यो हितत्वाद् अतस्तेन तपःप्रधानेन संयमेन भूतार्थहितकारिणा 'सदा' सर्वकालं 'संपन्नो' युक्तः, एतद्गुणसंपन्नश्चासौ ‘भूतेषु' जन्तुषु मैत्री तद्रक्षणपरतया भूतदयां 'कल्पयेत्' कुर्यात्, इदमुक्तं भवति । परमार्थतः स सर्वज्ञस्तत्त्वदर्शितया यो भूतेषु मैत्री कल्पयेत्, तथा चोक्तम्॥१॥ मातृवत्पर दाराणि परद्रव्याणि लोष्टवत्। आत्मवत्सर्वभूतानि, यः पश्यति स पश्यति । मू. (६१०) भूएहिं न विरुज्झेज्जा, एस धम्मे बुसीमओ। बुसिमंजगं परिनाय, अस्सिं जीवितभावना ॥ वृ. यथा भूतेषु मैत्री संपूर्णभावमनुभवति तथा दर्शयितुमाह-'भूतैः' स्थावरजङ्गमैः सह 'विरोधं न कुर्यात्' तदुपघातकारिणमारम्भ तद्विरोधकारणं दूरतः परिवर्जयेदित्यर्थः स एषः' अनन्तरोक्तो भूताविरोधकारी 'धर्म' स्वभावः पुण्याख्यो वा 'वुसीमओ'त्ति तीर्थकृतोऽयं सत्संयमवतोवेति । तथा सत्संयमवान्साधुस्तीर्थकृद्वा 'जगत्' चराचरभूतग्रामाख्यं केवलालोकेन सर्वज्ञप्रणी-तागमपरिज्ञाने वा 'परिज्ञाय' सम्यगवबुध्य अस्मिन् जगति मौनीन्द्रेवाधर्मेभावनाः पञ्चविंश-तिरूपा द्वादशप्रकारा वा या अभिमतास्ता 'जीवितभावना' जीवसमाधानकारिणीः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy