________________
श्रुतस्कन्धः-१, अध्ययनं-१४,
२७१ तथा स्वतः कञ्चिदर्थविशेषं परिज्ञाय पूजासत्कारादिकंवाऽवाप्य 'नतुच्छो भवेत्' नोन्मादं गच्छेत्, तथा 'न विकत्ययेत्' नात्मानं श्लाधयेत् परं वा सम्यगनवबुध्यमानः 'नो विकत्थयेत्' नात्यन्तंचमढयेत, तथा अनाकुलो' व्याख्यानावसरेधर्मकथावसरेवाऽनाविलोलाभादिनिरपेक्षो भवेत्, तथा सर्वदा अकषायः कषायरहितो भवेद् 'भिक्षुः साधुरिति । मू. (६०१) संकेज याऽसंकितभाव भिक्खू, विभजवायं च वियागरेजा।
भासादेवं धम्मसमुट्टितेहिं, वियागरेजा समया सुपन्ने । वृ.साम्प्रतंव्याख्यानविधिमधिकृत्याह-भिक्षु' साधुर्व्याख्यानं कुर्वन्नग्दिर्शित्वादर्थनिर्णयं प्रति अशङ्कितभावोऽपि 'शङ्केत' औद्धत्यं परिहरन्नहमेवार्थस्तु वेत्ता नापरः कश्चिदित्येवं गर्वन कुर्वीत किंतु विषममर्थं प्ररूपयन् साशङ्कमेव कथयेद्, यदिवा परिस्फुटमप्यशङ्कितभावमप्यर्थन तथा कथयेत् यथा परः शङ्केत, तथा विभज्यवादं-पृथगर्थनिर्णयवादं व्यागृणीयात् ।
यदिवा विभज्यवादः-स्याद्वादस्तं सर्वत्र स्खलितं लोकव्यवहाराविसंवादितया सर्वव्यापिनं स्वानुभवसिद्धं वदेद्, अथवा सम्यगर्थान् विभज्य पृथक्कृत्वा तद्वादं वदेत्, तद्यथा-नित्यवादं द्रव्यार्थतया पर्यायार्थतया त्वनित्यवादं वदेत्, तथा स्वद्रव्यक्षेत्रकालभावैः सर्वेऽपिपदार्था सन्ति, परद्रव्यादिभिस्तुन सन्ति, तथा चोक्तम्॥१॥ “सदेव सर्वं को नेच्छेत्स्वरूपादिचतुष्टयात् ? |
असदेव विपर्यासान्न चेन्न व्यवतिष्ठते। इत्यादिकं विभज्यवादंवदेदिति । विभज्यवादमपिभाषाद्वितयेनैव ब्रूयादित्याह-भाषयोःआधचरमयोः सत्यासत्यामृषयोद्विकं भाषाद्विकं तद्भाषाद्वयंक्वचित्पृष्टोऽपृष्टो वा धर्मकथावसरेऽन्यदा वा सदावा 'व्यागृणीयात्' भाषेत, किंभूतः सन् ?-सम्यक्-सत्संयमानुष्ठानेनोत्थिताः समुत्थिताः-सत्साधव उद्युक्तविहारिणो न पुनरुदायिनृपमारकवत्कृत्रिमास्तैः सम्यगुत्थितैः सह विहरन चक्रवर्तिद्रमकयोः समतया रागद्वेषरहितो वा शोभनप्रज्ञो भाषाद्वयोपेतः सम्यग्धर्म व्यागृणीयादिति। मू. (६०२) अनुगच्छमाणे वितहं विजाणे, तहा तहा साहु अकक्क सेणं ।
नकत्थई भास विहिंसइज्जा, निरुद्धगंवाविन दीहइज्जा ।। वृ.किञ्चान्यत्-तस्यैवं भाषाद्वयेन कथयतः कश्चिन्मेधावितया तथैव तमर्थमाचार्यादिना कथितमनुगच्छन् सम्यगवबुध्यत, अपरस्तु मन्दमेघावितया वितथम्-अन्यथैवाभिजानीयात्, तं च सम्यगनवबुध्यमानं तथा तथा-तेन तेन हेतूदाहरणसधुक्तप्रकटनप्रकारेण मूर्खस्त्वमसि तथा दुर्दुरूढः खसूचिरित्यादिना कर्कशवचनेनानिर्भर्त्सयन् यथा यथाऽसौ बुध्यते तथा तथा 'साधु' सुष्ठुबोधयेत् न कुत्रचिक्रुद्धमुखहस्तौष्ठनेत्रविकारैरनादरेण कथयन् मनःपीडामुत्पादयेत्
तथाप्रश्नयतस्तद्भाषामपशब्दादिदोषष्टामपिधिगमूर्खासंस्कृतमते! किंतवानेनसंस्कृतेन पूर्वोत्तरव्याहतेन वोच्चारितेनेत्येवं 'न विहिंस्यात्' नतिरस्कुर्याद्असंबद्धदघट्टनतस्तंप्रस्नयितारं न विडम्बयेदिति । तथा निरुद्धम्-अर्थस्तोकं दीर्घवाक्यैर्महता शब्ददर्दुदरेणार्कविटपिकाष्टिका न्यायेन्य कथयेत् निरुद्धं वा-स्तोककालीनं व्याख्यानं व्याकरणतर्कादिप्रवेशनद्वारेण प्रसक्तानुप्रसक्त्या 'न दीर्घयेत्' न दीर्घकालकं कुर्यात्, तथा चोक्तम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org