________________
सूत्रकृताङ्ग सूत्रम् १/१२/२/५३४/नि. [१२१] पूर्वोक्तवादिनां मतम् - अभिप्रायस्तेन यदनुमतं-पक्षीकृतं तेन पक्षीकृतेन पक्षीकृताश्रयणेन 'प्रज्ञापना' प्ररूपणा 'वर्णिता' प्रतिपादिता 'इह' अस्मिन्नध्ययने गणधरैः, किमर्थमिति दर्शयति-तेषां यः सद्भावः-परमार्थस्तस्य निश्चयो निर्णयस्तदर्थं, तेनैव कारणेनेदमध्ययनं समवसरणाख्य-माहुर्गणधराः, तथाहि - वादिनां सम्यगवसरणं - मेलापकस्तन्मतनिश्चयार्थमस्मिन्नध्ययने क्रियत इत्यतः समवसरणाख्यमिदमध्ययनं कृतमिति ।।
इदानीमेतेषां सम्यगमिथ्यात्ववादित्वं विभागेन यथा भवति तथा दर्शयितुमाह-सम्यग्अविपरीता दृष्टि-दर्शनं पदार्थपरिच्छित्तिर्यस्यासौ सम्यगद्दष्टि, कोऽसावित्याह-क्रियामअस्तीत्येवंभूतां वदितुं शीलमस्येति क्रियावादी, अत्र च क्रियावादीत्येतद 'अत्थित्ति किरियवादी' त्यनेन प्राक् प्रसाधितं सदनूद्य सम्यग्दष्टित्वं विधीयते, तस्यासिद्धत्वादिति, तथाहि
अस्ति लोकालोकविभागः अस्त्यात्मा अस्ति पुण्यपापविभागः अस्ति तत्फलं स्वर्गनरकावाप्तिलक्षणं अस्ति कालः कारणत्वेनाशेषस्य जगतः प्रभववृद्धिस्थितिविनाशेषु साध्येषु तथा शीतोष्णवर्षवनस्पतिपुष्पफलादिषु चेति, तथा चोक्तम्- "कालः पचति भूतानी" - त्यादि, तथाऽस्ति स्वभावोऽपि कारणत्वेनाशेषस्य जगतः, स्वो भावः स्वभाव इतिकृत्वा, तेन हि जीवाजीवभव्यत्वाभव्यत्वमूर्तत्वामूर्त्तत्वानां स्वस्वरूपानुविधानात् तथा धर्माधर्माकाशकालादीनां च गतिस्थित्यवगाहपरत्वापरत्वादिस्वरूपापादनादिति, तथा चोक्तम्
“कः कण्टकाना” मित्यादि । तथा नियतिरपि कारणत्वेनाश्रीयते, तथा तथा पदार्थानां नियतेरेव नियतत्वात् तथा चोक्तम् । “प्राप्तव्यो नियतिबलाश्रयेणे” त्यादि । तथा पुराकृतं, तञ्च शुभाशुभमिष्टानिष्टफलं कारणं, तथा चोक्तम्
119 11 “यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिहोपतिष्ठते । तथा तथा पूर्वकृतानुसारिणी, प्रदीपहस्तेव मतिः प्रवर्तते ॥ "स्वकर्मणा युक्त एव, सर्वो ह्युत्पद्यते जनः ।
119 11
स तथाss कृष्यते तेन, न यथा स्वयमिच्छति । इत्यादि ।
- तथा पुरुषकारोऽपि कारणं, यस्मान्न पुरुषकारमन्तरेण किञ्चित्सिध्यति, तथा चोक्तम् - 119 11 "न दैवमिति संचिन्त्य, त्यजेदुद्यममात्मनः ।
॥ २ ॥
अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्नुमर्हति ! ।। (तथा) “उद्यमाच्चारु चित्राङ्गि !, नरो भद्राणि पश्यति । उद्यमात्कृमिकीटोऽपि, भिनत्ति महतो द्रुमान् ॥
तदेवं सर्वानपि कालादीन् कारणत्वेनाभ्युपगच्छन्तथाऽऽत्मपुण्यपापपरलोकादिकं चेच्छन् क्रियावादी सम्यग्धष्टित्वेनाभ्युपगन्तव्यः । शेषकास्तु वादा अक्रियावादाज्ञानवादवैनयिकवादा मिथ्यावादा इत्येवं द्रष्टव्याः, तथाहि - अक्रियावाद्यत्यन्नास्तिकोऽध्यक्षसिद्धं जीवाजीवादिपदार्थजातमपह्नुवन् मिथ्यादृष्टिरेव भवति, अज्ञानवादी तु सति मत्यादिके हेयोपादेयप्रदर्शके ज्ञानपञ्चकेऽज्ञानमेव श्रेय इत्येवं वदन् कथं नोन्मत्तः स्यात् ?, तथा विनयवाद्यपि विनयादेव केवलात् ज्ञानक्रियासाध्यां सिद्धिमिच्छन्नपकर्णयितव्यः, तदेवं विपरीतार्थाभिधायितयैते मिथ्याध्ष्टयोऽवगन्तव्याः ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तः तत्कथमिह सम्यग्धष्टित्वेनोच्यत इति, उच्यते, स तत्रास्त्येव जीव इत्येवं
For Private & Personal Use Only
www.jainelibrary.org
२२८
Jain Education International
-