SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - १२, स्वभावनियतीश्वरात्मपदान्यपि प्रत्येकं चतुर एव लभन्ते, ततश्च पञ्चापि चतुष्कका विंशतिर्भवन्ति, साऽपि जीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टौ प्रत्येकं विंशतिं लभन्ते, ततश्च नव विंशतयो मीलिताः क्रियावादिनामशीत्युत्तरं शतं भवतीति । २२७ इदानीमक्रियावादिनां न सन्त्येव जीवादयः पदार्था इत्येमभ्युपगमवतामनेनोपायेन चतुरशीतिरवगन्तव्या, तद्यथा-जीवादीन् पदार्थान् सप्ताभिलिख्य तदधः स्वपरभेदद्वयं व्यवस्थाप्यं, ततोऽप्यधः कालयध्च्छानियतिस्वभावे श्वरात्मपदानि षड् व्यवस्थाप्यानि, भङ्गकानयनोपायस्त्वयंनास्ति जीवः स्वतः कालतः, तथा नास्ति जीवः परतः कालतः, एवं यद्दच्छानियतिस्वभावेश्वरात्मभिः प्रत्येकं द्वौ द्वौ भङ्गकौ लभ्येते, सर्वेऽपि द्वादश, तेऽपि च जीवादिपदार्थसप्तकेन गुणिता-श्चतुरशीतिरिति, तथाचोक्तम् 119 11 "कालयध्च्छानियतिस्वभावेश्वरात्मतश्चतुरशीति । नास्तिकवादिगणमते न सन्ति भावाः स्वपरसंस्थाः ॥ साम्प्रतमज्ञानिकानामज्ञानादेव विवक्षितकार्यसिद्धिमिच्छतां ज्ञानं तु सदपि निष्फलं बहुदोषवच्चेत्येवमभ्युपगमवतां सप्तषष्टिरनेनोपायेनावगन्तव्या जीवाजीवादीन् नव पदार्थान् परिपाट्या व्यवस्थाप्य तदधोऽमी सप्त भङ्गकाः संस्थाप्याः सत् असत्सदसत् अवक्तव्यं सदवक्तव्यं असदवक्तव्यं सदसदवक्तव्यमिति । अभिलापस्त्वयं-सन् जीवः को वेत्ति ? किं वा तेन ज्ञातेन ! १, असन् जीवः को वेत्ति ? किं वा ते ज्ञातेन ? २, सदसन् जीवः को वेत्ति ? किं वा तेन ज्ञातेन ! ३, अवक्त्यो जीवः को वेत्ति किं वा तेन ज्ञातेन ? ४, सदवक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञातेन ? ५, असदवक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञातेन ? ६, सदसदवक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञातेन एवमजीवादिष्वपि सप्त भङ्गकाः, सर्वेऽपि मिलिताषिष्टि, तथाऽपरेऽमी चत्वारो भङ्गकाः, तद्यथा-सती भावोत्पत्ति को वेत्ति ? किं वाऽनया ज्ञातया ? १, असती भावोत्पत्ति को वेत्ति किं वाऽनया ज्ञातया ? २, सदसती भावोत्पित्ति को वेत्ति किं वाऽनया ज्ञातया ? ३, अवक्तव्या भावोत्पत्ति को वेत्ति किं वाऽनया ज्ञातया ? ४, सर्वेऽपि सप्तषष्टिरिति उत्तरं भङ्गकत्रयमुत्पन्नभावावयवापेक्षमिह भावोत्पत्तौ न संभवतीति नोपन्यस्तम्, उक्तं च 119 11 “अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्ति सदसद्वेधाऽवाच्या च को वेत्ति ? ॥ इदानीं वैनयिकानां विनयादेव केवलात्परलोकमपीच्छतां द्वात्रिंशदनेन प्रक्रमेण योज्याः, तद्यथा-सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु मनसा वाचा कायेन दानेन चतुर्विधो विनयो विधेयः, सर्वेऽप्यष्टौ चतुष्कका मिलिता द्वात्रिंशदिति, उक्तं च 119 11 "वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्य । सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा ।। सर्वेऽप्येते क्रियाऽक्रियाऽज्ञानिवैनयिकवादिभेदा एकीकृतीणि त्रिषष्टयधिकानि प्रावादुकमतशतानि भवन्ति । तदेवं वादिनां तभेदसंख्यां प्रदर्श्याधुना तेषामध्ययनोपयोगित्वं दर्शयितुमाह- 'तेषां ' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy