________________
२०७
श्रुतस्कन्धः-१, अध्ययनं-१०, मू. (४८३) आहाकडं वा न निकामएज्जा, निकामयंते य न संथवेजा।
धुणे उरालं अणुवेहमाणे, चिच्चा न सोयं अणवेक्खमाणो । वृ. अपिच-साधूनाधाय कृतमाधाकृतमौद्देशिकमाधाकर्मेत्यर्थः, तदेवम्भूतमाहारजातं निश्चयेनैव 'न कामयेत्' नाभिलषेत् तथाविधाहारादिकं च निकामयतः' निश्चयेनाभिलषतः पार्श्वस्थादींस्तत्सम्पर्कदानप्रतिग्रहसंवाससम्भाषणादिभिः न संस्थापयेत्-नोपबृंहयेत् तैर्वा सार्धं संस्तवं न कुर्यादिति, किञ्च- 'उरालं'ति औदारिकं शरीरं विकृष्टतपसा कर्मनिर्जरामनुप्रेक्षमाणो 'धुनीयात्' कृशं कुर्यात्, यदिवा 'उरालं'ति बहुजन्मान्तरसञ्चितं कर्म तदुदारं-मोक्षमनुप्रेक्षमाणो 'धुनीयाद्' अपनयेत्, तस्मिंश्च तपसा धूयमाने कृशीभवति शरीरके कदाचित् शोकः स्यात् तं त्यक्त्वा याचितोपकरम- वदनुप्रेक्षमाणः शरीरकंधुनीयादिति सम्बन्धः । मू. (४८४) एगत्तमेयं अभिपत्थएज्जा, एवं पमोक्खो न मुसंति पासं।
एसप्पमोक्खे अमुसे वरेवि, अकोहणे सच्चरते तवस्सी। वृ. किञ्चापेक्षतेत्याह-एकत्वम्-असाहयत्वमभिप्रार्थयेद्-एकत्वाध्यवसायी स्यात्, तथाहिजन्मजरामरणरोगसोकाकुले संसारे स्वकृतकर्मणा विलुप्यमानानामसुमतां न कश्चित्राणसमर्थ सहायः स्यात्, तथा चोक्तम् - ॥१॥ “एगो मे सासओ अप्पा, नाणदसणसंजुओ।
सेसा मे बाहिरा भावा, सव्वे संयोगलक्खणा॥ इत्यादिकामेकत्वभावनां भावयेद्, एवमनयैकत्वभावनया प्रकर्षेण मोक्षः प्रमोक्षोविप्रमुक्तसङ्गता, न 'मृषा' अलीकमेतद्भवतीत्येवं पश्य, एष एवैकत्वभावनाभिप्रायः प्रमोक्षो वर्तते, अमृषारूपः-सत्यश्चायमेव ।तथा 'वरोऽपि' प्रधानोऽप्ययमेव भावसमाधिर्वा, यदिवा यः ‘तपस्वी' तपोनिष्टप्तदेहोऽक्रोधनः, उपलक्षणार्थत्वादस्यामानो निर्मायो निर्लोभः सत्यरतश्च एष एवप्रमोक्ष 'अमृषा' सत्यो ‘वरः' प्रधानश्च वर्तत इति। किञ्चान्यत्मू. (४८५) इत्थीसु या आरय मेहुणाओ, परिग्गहं चेव अकुव्वमाणे ।
उच्चावएसु विसएसु ताई, निस्संसयं भिक्खु समाहिपत्ते ॥ ___ वृ. दिव्यमानुषतिर्यग्रूपासुत्रिविधास्वपिस्त्रीषुविषयभूतासुयत् ‘मैथुनम्' अब्रह्म तस्माद् आ-समन्तान्नरतः-अरतोनिवृत्त इत्यर्थः, तुशब्दात्याणातिपातादिनिवृत्तश्च, तथापरि-समन्ताद्गृह्यते इतिपरिग्रहोधनधान्यद्विपदचतुष्पदादिसंग्रहः तथा आत्माऽऽत्मीयग्रहस्तंचैवाकुर्वाणः सन्नुच्चावचेषु-नानारूपेषु विषयेषु यदिवोच्चा-उत्कृष्टा अवचा-जघन्यास्तेष्वरक्तद्विष्टः।।
___ 'बायी' अपरेषांचत्राणभूतो विशिष्टोपदेशदानतो 'निसंशयं निश्चयेन परमार्थतो भिक्षु' साधुरेवम्भूतो मूलोत्तरगुणसमन्वितो भावसमांधिं प्राप्तो भवति, नापरः कश्चिदिति, उच्चावचेषु वा विषयेषु भावसमाधि प्राप्तो भिक्षुर्न संश्रयं याति नानारूपान् विषयान् न संश्रयतीत्यर्थः । मू. (४८६) अरइं रइंच अभिभूय भिक्खू, तणाइफासं तह सीयफासं।
उण्हं च दंसंचऽहियासएजा, सुभि व दुभि व तितिक्खएज्जा। वृ.विषयाननाश्रयन् कथं भावसमाधिमाप्नुयादित्याह-सभावभिक्षुपरमार्थदर्शीशरीरादौ निस्पृहो मोक्षगमनैकप्रवणश्च या संयमेऽरतिरसंयमेच रतिर्वा तामभिभूय एतदधिसहेत् । तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org