________________
श्रुतस्कन्धः - १, अध्ययनं-१०,
२०५
पारदारिको वाअसदनुष्ठानेन हस्तपादच्छेदान्बन्धवधादींश्चैहावाप्नोत्येवं सामान्यदृष्टेनानुमानेनान्योऽपिपापकर्मकारी इहामुत्रच दुःखभाग्भवति, 'आउट्टति'त्तिकचित्पाठः, तत्राशुभान् कर्मविपाकान् दृष्ट्वा श्रुत्वा ज्ञात्वावातेभ्योऽसदनुष्ठानेभ्य ‘आउट्टति'त्ति निवर्तते, कानिपुनः पापस्थानानि येभ्यः पुनः प्रवर्तते निवर्ततेवाइत्याशङ्कय तानिदर्शयति-'अतिपाततः'प्राणातिपाततःप्राणव्यपरोपणाद्धेतोस्तच्चशुभं ज्ञानावरणादिकं कर्म 'क्रियते' समादीयते, तथा परांश्च भृत्यादिन् प्राणातिपातादौ 'नियोजयन्' व्यापारयन् पापं कर्म करोति, तुशब्दान्मृषावादादिकं च कुर्वन् कारयंश्च पापकं कर्म समुच्चिनोतीति ।। मू. (४७८) आदीणवित्तीव करेति पावं, मंता उ एगंतसमाहिमाहु। .
बुद्धे समाहीय रते विवेगे, पाणातिवाता विरते ठियप्पा । वृ. किच्चान्यत्-आ-समन्ताद्दीना-करुणास्पदा वृत्ति-अनुष्ठानं यस्य कृपणवनीपकादेःस भवत्यादीनवृत्ति, एवम्भूतोऽपि पापं कर्म करोति, पाठान्तरं वा आदीनभोज्यपि पापं करोतीति, उक्तं च-“पिंडोलगेव दुस्सीले, नरगाओ न मुञ्चइ" स कदाचिच्छोभनमाहारमलभमानोऽज्ञत्वादातरौद्रध्यानोपगतोऽधः सप्तम्यामप्युत्पद्येत, तद्यथा-असावेव राजगृहनगरोत्सवनिर्गतजनसमूहवैभारगिरिशिलापातनोद्यतः स दैवात्स्वयं पतितः पिण्डोपजीवीति, तदेवमादीनभोज्यपि पिण्डोलकादिवज्जनः पापकर्मकरोतीत्येवं मत्वा' अवधार्य एकान्तेनात्यन्तेन चयो भावरूपो ज्ञानादिसमाधिस्तमाहुः संसारोत्तरणाय तीर्थकरगणधरादयः, द्रव्यसमाधयो हि स्पर्शादिसुखोत्पादकाअनेकान्तिकाअनात्यन्तिकाश्चभवन्ति अन्तेचावश्यमसमाधिमुत्पादयन्ति, तथा चोक्तम्॥१॥ “यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः ।
किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः॥" इत्यादि,तदेवं बुद्धः' अवगततत्त्वःसचतुर्विधेयऽपि ज्ञानादिकेरतो-व्यवस्थितो 'विवेके वा' आहारोपकरणकषायपरित्यागरूपे द्रव्यभावात्मके रतः सन्नेवंभूतश्च स्यादित्याह-प्राणानं दशप्रकाराणामप्यतिपातो-विनाशस्तस्माद्विरतः स्थितः सम्यगमार्गेषु आत्मा यस्य सः पाठान्तरं वा 'ठियच्चि'त्ति स्थिताशुद्धस्वभावात्मनाअर्चि-लेश्यायस्यसभवतिस्थितार्चि-सुविशुद्धास्थिरलेश्य इत्यर्थः॥ मू. (४७९) सव्वं जगं तू समयानुपेही, पियमप्पियं कस्सइ नो करेजा।
उट्ठाय दीनो य पुनो विसनो, संपूयणं चेव सिलोयकामी ।। वृ. किञ्च-'सर्वं चराचरं जगत् प्राणिसमूहं समतया प्रेक्षितुंशीलमस्य ससमतानुप्रेक्षी समतापश्यको वा, न कश्चिप्रियो नापि द्वेष्य इत्यर्थः, तथा चोक्तम्-“नस्थिय सि कोइ विस्सो पिओ व सव्वेसु चेव जीवेसु" तथा-'जह मम न पियं दुक्खमि'त्यादि, समतोपेतश्च न कस्यचिनियमप्रियंवाकुर्यान्निसङ्गतया विहरेद्, एवं हि सम्पूर्णभावसमाधियुक्तोभवति, कश्चित्तु भावसमाधिना सम्यगुत्थानेनोत्थायपरीषहोप-सर्गस्तर्जितो दीनभावमुपगम्य पुनर्विषण्णो भवति विषयार्थी वा कश्चिद्गार्हस्थ्यमप्य-वलम्बते रससातागौरवगृद्धो वा पूजासत्काराभिलाषी स्यात् तदभावे दीनः सन् पार्श्वस्थादिभावेन वा विषण्णो भवति, कश्चित्तथा सम्पूजनं वपात्रादिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org