________________
१४
सूत्रकृताङ्ग सूत्रम् १/-1-1-/ नि. [२८] नवमेअर्थाधिकारस्त्वयं, तद्यथा-यथाऽवस्थितोधर्मकथ्यते, दशमेतुसमाधिप्रतिपाद्यते, एकादशे तु सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्ग कथ्यते, द्वादशे त्वयमर्थाधिकारः, तद्यथा'समवसृता' अवतीर्णा व्यवस्थिताश्चतुर्दा मतेषु क्रियाऽक्रियाऽज्ञानवैनयिकाख्येष्वभिप्रायेषु त्रिषष्टयुत्तरशतत्रयसंख्याः पाषण्डिनः स्वीयं स्वीयमर्थं प्रसाधयन्तः समुत्थितास्तदुपन्यस्तसाधनदोषोद्भावनतो निराक्रियन्ते, त्रयोदशे त्विदमभिहितं, तद्यथासर्ववादिषु कपिलकणादाक्षपादशौद्धोदनिजैमिनिप्रभृतिमतानुसारिषु कुमार्गप्रणेतृत्वं साध्यते, चतुर्दशे तु ग्रन्थाख्येऽध्ययनेऽयमर्थाधिकारः, तद्य-शिष्याणां गुणदोषकथना, तथा शिष्यगुणसम्पदुपेतेन च विनयेन नित्यं गुरुकुलवासो विधेय इति,
पञ्चदशेत्वादानीयाख्येऽध्ययनेऽर्थाधिकारोऽयं, तद्यथा-आदीयन्ते-गृह्यन्ते उपादीयन्ते इत्यादानीयानि-पदान्यर्था वा ते च प्रागुपन्यस्तपदैरथैश्च प्रायशोऽत्र संकलिताः, तथा आयतं चरित्रं-सम्यक्चरित्रं मोक्षमार्गप्रसाधकं तच्चात्र व्यावर्ण्यत इति, षोडशे तु गाथाख्येऽल्पग्रन्थेऽध्ययनेऽयमर्थो व्यावर्ण्यते, तद्यथा-पञ्चदशभिरध्ययनैर्योऽर्थोऽभिहित्तः सोऽत्र 'पिण्डितवचनेन’ संक्षिप्तामिधानेन प्रतिपाद्यत इति । ॥१॥ गाहासोलसगाणं पिंडत्थो वण्णिओ समासेणं ।
इत्तो इक्किक्कं पुण अज्झयणं कित्तयिस्सामि । तत्राद्यमध्ययनं समयाख्यं, तस्य चोपक्रमादीनिचत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमणमुपक्रम्यते वाऽनेनशास्त्रं न्यासदेशंनिक्षेपावसरमानीयतइत्युपक्रमः, सचलौकिको नामस्थापनाद्रव्यक्षेत्रकालभावभेदेनषडूप आवश्यकादिष्वेव प्रपञ्चितः,शास्त्रीयोऽप्यानुपूर्वीनाम प्रमाणवक्तव्यताऽर्थाधिकारसमवताररूपः षोदैव, तत्रानुपूर्वादीन्यनुयोगद्वारानुसारेण ज्ञेयानि तावद्यावत्समवतारः, तत्रैतदध्ययनमानुपूर्वादिषु यत्र यत्र समवरति तत्र तत्र समवतारयितव्यं, तत्र दशविधायामानुपूर्वा गणनानुपूर्वा समवतरति, सापि त्रिधा-पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी चेति । तत्रेदमध्ययनं पूर्वानुपूर्व्या प्रथमं पश्चानुपूर्व्या षोडशम् अनानुपूर्व्या तु चिन्त्यमानमस्यामेवैकादिकायामेकोतरिकायां षोडशगच्छगतायांश्रेण्यामन्योऽन्याभ्यासद्विरूपोनसंख्याभेदं भवति । अनानुपूर्व्या तु भेदसंख्यापरिज्ञानोपायोऽयं, तद्यथा॥१॥ - एकाद्या गच्छपर्यन्ताः, परस्परसमाहताः।
राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम् ॥
- प्रस्तारानयनोपायस्त्वयम् - ॥१॥ पुव्वाणुपुव्वि हेट्ठा समयाभेएण कुणजहाजेझैं ।
उवरिमतुल्लं पुरओ नसेज्ज पुव्वक्कमो सेसे ।। ॥१॥ गणितेऽन्त्यविभक्ते तु, लब्धं शेषैर्विभाजयेत् ।
आदावन्ते च तत् स्थाप्यं, विकल्पगणिते क्रमान् । अयं श्लोकः शिष्यहितार्थं विव्रियते-तत्रसुखावगमार्थंषट्पदानिसमाश्रित्यतावत्श्लोकार्थों योज्यते, तत्रैवं षट्पदानि स्थाप्यानि, एतेषां परस्परताडनेन सप्त शतानि विंशत्युत्तराणि गणित मुच्यते तस्मिन् गणितेऽन्त्योऽत्र षट्कः तेन भागे ह्यते विंशत्युत्तरं शतं लभ्यते, तच्च षण्णां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org